सनत्कुमार उवाच॥
गोसहस्रप्रदानं च वदामि श्रृणु सुव्रत॥
गवां सहस्रमादाय सवत्सं सगुणं शुभम्॥ ३८.१ ॥
तास्त्वभ्यर्च्य यथाशास्त्रमष्टौ सम्यक्प्रत्नतः॥
तासां श्रृङ्गाणि हेम्नाथ प्रतिनिष्केण बन्धयेत्॥ ३८.२ ॥
खुरांश्च रजतेनैव बन्दयेत्कण्ठदेसतः॥
प्रतिनिष्केण कर्तव्यं कर्णे वज्रं च शोभनम्॥ ३८.३ ॥
शिवाय दद्याद्विप्रेभ्यो दक्षिणां च पृथक्पृथक्॥
दशनिष्कं तदर्धं वा तस्यार्धार्धमथापि वा॥ ३८.४ ॥
यथाविभवविस्तारं निष्कमात्रमथापि वा॥
वस्त्रयुग्मं च दातव्यं पृथग्विप्रेषु शोभनम्॥ ३८.५ ॥
गावश्चाराध्य यत्नेन दातव्याः सुमनोरमाः॥
एवं दत्त्वा विधानेन शिवमभ्यर्च्य सङ्करम्॥ ३८.६ ॥
जपेदग्रे यथान्यायं गवां स्तवमनुत्तमम्॥
गावो ममाग्रतो नित्यं गावो नः पृष्ठतस्तथा॥ ३८.७ ॥
हृदये मे सदा गावं मध्ये वसाम्यहम्॥
इति कृत्वा द्विजाग्र्येभ्योदत्त्वा गत्वा प्रदक्षिणम्॥ ३८.८ ॥
तद्रोमवर्षसङ्ख्यानि स्वर्गलोके महीयते॥ ३८.९ ॥
इति श्रीलिङ्गमहापुराणे उत्तरभागे गोसहस्रप्रदानं नामाष्टत्रिंशोऽध्यायः॥ ३८ ॥