सनत्कुमारा उवाच॥
अथातः सम्प्रवक्ष्यामि तिलधेनुविधिक्रमम्॥
पूर्वोक्तमण्डपे कुर्याच्छिवपूजां तु पश्चिमे॥ ३७.१ ॥
तस्याग्रे मध्यतो भूमौ पद्ममालिख्य शोभनम्॥
वस्त्रैराच्छादितं पद्मं तन्मध्ये विन्यसेच्छुभम्॥ ३७.२ ॥
तिलपुष्पं तु कृत्वाथ हेमपद्मं विनिक्षिपेत्॥
त्रिंशन्निष्केम कर्तव्यं तदर्धार्धेन वा पुनः॥ ३७.३ ॥
पञ्चनिष्केण कर्तव्यं तदर्धान वा पुनः॥
तमाराध्य विधानेन गन्धपुष्पादिभिः क्रमात्॥ ३७.४ ॥
पद्मस्योत्तरदिग्भागे विप्रानेकादशन्यसेत्॥
तानभ्यर्च्य विधानेन गन्धपुष्पादिभिः क्रमात्॥ ३७.५ ॥
आच्छादनोत्तरासङ्गं विप्रेभ्यो दापयेत्क्रमात्॥
उष्णीषं च प्रदातव्यं कुण्डलेच विभूषिते॥ ३७.६ ॥
हेमाङ्गुलीयकं दत्त्वा ब्राह्मणेभ्यो विधानतः॥
एकं दश च वस्त्राणिं तेषामग्रे प्रकीर्य च॥ ३७.७ ॥
तेषु वस्त्रेषु निःक्षिप्यतिलाद्यानि पृथक्पृथक्॥
कांस्यपात्रं शतपलं विभिद्यैकादशांशकम्॥ ३७.८ ॥
इक्षुदण्डं च दातव्यं ब्राह्मणेभ्यो विशेषतः॥
गोश्रृगे तु हिरण्येन द्विनीष्केण तु कारयेत्॥ ३७.९ ॥
रजतेन तु कर्तव्याः खुरा निष्कद्वयेन तु॥
एवं पृथक्पृथग् दत्त्वा तत्तिलेषु विनिक्षिपेत्॥ ३७.१० ॥
रुद्रैकादशमन्त्रैस्तु रुद्रेभ्यो दापयेत्तदा॥
पद्मस्य पूर्वदिग्भागे विप्रान्द्वादश पूजितान्॥ ३७.११ ॥
एतेनैव तु मार्गेण तेषु श्रद्धासमन्वितः॥
द्वादशाधित्यमन्त्रैश्च दापयेदेवमेव च॥ ३७.१२ ॥
पूर्ववद्दक्षिणे भागे विप्रान्षोडश संस्थितान्॥
मूर्ति विघ्नेशमन्त्रैश्च दापयेत्पूर्ववत्पुनः॥ ३७.१३ ॥
यजमानेन कर्तव्यं सर्वमेतद्यथाक्रमम्॥
केवलं रुद्रदानं वा अदित्येभ्योऽथख वा पुनः॥ ३७.१४ ॥
मूर्त्यादीनां च वा देयं यथाविभवविस्तरम्॥
पद्मं विन्यस्य राजासौ शेषं वा कारयेन्नृपः॥ ३७.१५ ॥
दक्षिणा च प्रदातव्या पञ्चनिष्केण भूषणम्॥ ३७.१६ ॥
इति श्रीलिङ्गमहापुराणे उत्तरभागे तिलधेनुदानविधिनिरूपणं नाम सप्तत्रिंशोऽध्यायः॥ ३७ ॥