सनत्कुमार उवाच॥
लक्ष्मीदानं प्रवक्ष्यामि महदैश्वर्यवर्धनम्॥
पूर्वोक्तमण्डपेकार्यं वेदिकोपरिमण्डले॥ ३६.१ ॥
श्रीदेवीमतुलां कृत्वा हिरण्येन यथाविधि॥
सहस्रेण तदर्धेन तदर्धार्धेन वा पुनः॥ ३६.२ ॥
अष्टोत्तरशतेनापि सर्वलक्षणसंयुताम्॥
मण्डले विन्यसेल्लक्ष्मीं सर्वालङ्कारसंयुताम्॥ ३६.३ ॥
तस्यास्तु दक्षिणे भागे स्थण्डिले विष्णुमर्चयेत्॥
अर्चयित्वा विधानेन श्रीसुक्तेन सुरेश्वरीम्॥ ३६.४ ॥
अर्चयेद्विष्णुगायत्र्या विष्णुं विश्वगुरुं हरिम्॥
आराध्य विधिना देवीं पूर्ववद्धोम माचरेत्॥ ३६.५ ॥
समिद्ध्रुत्वा विधानेन आज्याहुतिमथाचरेत्॥
पृथगष्टोरशतं होमयेद्ब्राह्मणोत्तमैः॥ ३६.६ ॥
आहूय यजमानं तु तस्याः पूर्वदिशि स्थले॥
तस्मै तां दर्शयेद्देवीं दण्डवत्प्रणमोत्क्षितौ॥ ३६.७ ॥
प्रणम्य विष्णुं तत्रस्थं शिवं पूर्ववदर्चयेत्॥
तस्या विंशतिभागं तु दक्षिणा परिकीर्तिता॥ ३६.८ ॥
तदर्धांशं तु दातव्यमितरेषां यथार्हतः॥
ततस्तु होमयेच्छम्भुं भक्तो योगी विशेषतः॥ ३६.९ ॥
इति श्रीलिङ्गमहापुराणे उत्तरभागे लक्ष्मीदानविधिनिरूपणं नाम षट्त्रिंशत्तमोऽध्यायः॥ ३६ ॥