०३५

सनत्कुमार उवाच॥

अथ ते सम्प्रवक्ष्यामि हेमधेनुविधिक्रमम्॥
सर्वपापप्रशमनं ग्रहदुर्भिक्षनाशनम्॥ ३५.१ ॥

उपसर्गप्रशमनं सर्वव्याधि निवारणम्॥
निष्काणां च सहस्रेण सुवर्णेन तु कारयेत्॥ ३५.२ ॥

तदर्धेनापि वा सम्यक् तदर्धार्धेन वा पुनः॥
शतेन वा प्रकर्तव्या सर्वरूपगुणान्विता॥ ३५.३ ॥

गोरूपं सुखुरं दिव्यं सर्वलक्षणसंयुतम्॥
खुराग्रे विन्यसेद्वज्रं श्रृङ्गे वै पद्मरागकम्॥ ३५.४ ॥

भ्रुवोर्मध्ये न्यसेद्दिव्यं मौक्तिकं मुनिसत्तमाः॥
वौडूर्येण स्तनाः कार्या लाङ्गूलं नीलतः सुभम्॥ ३५.५ ॥

दन्तस्थाने प्रकर्तव्यः पुष्परागः सुशोभनः॥
पशुवत्कारयित्वा तु वत्सं कुर्यात्सुशोभनम्॥ ३५.६ ॥

सुवर्णदशनिष्केण सर्वरत्नसुशोभितम्॥
पूर्वोक्तवेदिकामध्ये मण्डलं परिकल्प्य तु॥ ३५.७ ॥

तन्मध्ये सुरभिं स्थाप्य सवत्सां सर्वतत्त्ववित्॥
सवत्सां सुरभिं तत्र वस्त्रयुग्मेन वेष्टयेत्॥ ३५.८ ॥

सम्पूजयेद्गां गायत्र्या सवत्सां सुरभिं पुनः॥
अथैकाग्निविधानेन होमं कुर्याद्यथाविधि॥ ३५.९ ॥

समिदाज्यविधानेन पूर्ववच्छेषमाचरेत्॥
शिवपूजा प्रकर्तव्या लिङ्गं स्नाप्य घृतादिभिः॥ ३५.१० ॥

गामालभ्य च गायत्र्या शिवायादापयेच्छुभाम्॥
दक्षिणा च प्रकर्तव्या त्रिंशन्निष्का महामते॥ ३५.११ ॥

इति श्रीलिङ्गमहापुराणे उत्तरभागे हेमधेनुदानविधिनीरूपणं नाम पञ्चत्रिंशोऽध्यायः॥ ३५ ॥