०३४

सनत्कुमार उवाच॥
गणेशेशं प्रवक्ष्यामि दानं पूर्वोक्तमण्डपे॥
सम्पूज्य देवदेवेसं लोकपालसमावृतम्॥ ३४.१ ॥

विश्वेश्वरान्यथाशास्त्रं सर्वाभरणसंयुतान्॥
दशनिष्केण वै कृत्वा सम्पूज्य च विधानतः॥ ३४.२ ॥

अष्टदक्ष्वष्टकुण्डेषु पूर्ववद्धोममाचरेत्॥
पञ्चावरणमार्गेण पारम्पर्यक्रमेण च॥ ३४.३ ॥

सप्तविप्रान्समभ्यर्च्य कन्यामेकां तथोत्तरे॥
दापयेत्सर्वमन्त्राणि स्वैःस्वैर्मन्त्रैरनुक्रमात्॥ ३४.४ ॥

दत्त्वैवं सर्वपापेभ्यो मुच्यते नात्र संशयः॥ ३४.५ ॥
इति श्रीलिङ्गमहापुराणे उत्तरभागे गणेशेशदानविदिनिरूपणं नाम चतुस्त्रिंशोऽध्यायः॥ ३४ ॥