सनत्कुमार उवाच॥
अथान्यत्सम्प्रवक्ष्यामि कल्पपादपमुत्तमम्॥
शतानिष्केण कृत्वैवं सर्वशाखासमन्वितम्॥ ३३.१ ॥
शाखानां विविधं कृत्वा मुक्ता दामाद्यलम्बनम्॥
दिव्यैर्मारकतैश्चैव चाङ्कुराग्रं प्रविन्यसेत्॥ ३३.२ ॥
प्रवालं कारयेद्विद्वान्प्रवालेन द्रुमस्य तु॥
फलानि पद्मरागैश्च परितोऽस्य सुशोभयेत्॥ ३३.३ ॥
मूलं च नीलरत्नेन वज्रेण स्कन्धमुत्तमम्॥
वैडूर्येण द्रुमाग्रं च पुष्परागेण मस्तकम्॥ ३३.४ ॥
गोमेदकेन वै कन्दं सूर्यकान्तेन सुव्रत॥
चन्द्रकान्तेन वा वेदीं द्रुमस्य स्फटिकेन वा॥ ३३.५ ॥
वितस्तिमात्रमायामं वृक्षस्य परिकीर्तितम्॥
शाखाष्टकस्य मानं च विस्तारं चोर्ध्वतस्तथा॥ ३३.६ ॥
तन्मूले स्तापयेल्लिङ्गं लोकपालैः समावृतम्॥
पूर्वोक्तवेदिमध्ये तु मण्डले स्थाप्य पादपम्॥ ३३.७ ॥
पूजये द्देवमीशानं लोकपालांश्च यत्नतः॥
पूर्ववज्जपहोमाद्यं तुलाभारवदाचरेत्॥ ३३.८ ॥
निवेदयेद्द्रुमं शम्भोर्योगिनां वाथ वा नृप॥
भस्माङ्गिभ्योऽथवा राजा सार्वभौमो भविष्यति॥ ३३.९ ॥
इति श्रीलिङ्गमहापुराणे उत्तरभागे कल्पपादपदानविदिर्नाम त्रयस्त्रिंशोऽध्यायः॥ ३३ ॥