०३२

सनत्कुमार उवाच॥
जपहोमार्चनादानाभिषेकाद्यं च पूर्ववत्॥
मुवर्णमेदिनीदानं प्रवक्ष्यामि समासतः॥ ३२.१ ॥

पूर्वोक्तदेशकाले तु कारयेन्मुनिभिः सह॥
लक्षणेन यथापूर्वं कुण्डे वा मण्डलेऽथ वा॥ ३२.२ ॥

मेदिनीं कारयेद्दिव्यां सहस्रेणापि वा पुनः॥
एकहस्ता प्रकर्तव्या चतुरस्रा सुशोभना॥ ३२.३ ॥

सप्तद्वीपसमुद्राद्यैः पर्वतैरभिसंवृता॥
सर्वतीर्थसमोपेता मध्ये मेरुसमन्विता॥ ३२.४ ॥

अथवा मध्यतो द्वीपं नवखण्डं प्रकल्पयेत्॥
पूर्ववन्निकिलं कृत्वा मण्डले वेदिमध्यतः॥ ३२.५ ॥

सप्तभागैकभागेन सहस्राद्विधिपूर्वकम्॥
शिवभक्ते प्रदातव्या दक्षिणा पूर्वचोदिता॥ ३२.६ ॥

सहस्रकलशाद्यैश्च शङ्करं पूजयेच्छिवम्॥
सुवर्णमेदिनीप्रोक्तं लिङ्गस्मिन्दानमुत्तमम्॥ ३२.७ ॥

इति श्रीलिङ्गमहापुराणे उत्तरभागे सुवर्णमेदिनीनीदानं नाम द्वात्रिंशोऽध्यायः॥ ३२ ॥