०३१

सनत्कुमार उवाच॥
अथान्यं पर्वतं सूक्ष्ममल्पद्रव्यं महाफलम्॥
द्रव्यमात्रोपसंयुक्ते काले मध्यं विधीयते॥ ३१.१ ॥

गोमयालिप्तभूमौ तु ह्यम्बराणि प्रकीर्य च॥
तन्मध्ये निक्षिपेद्धीमांस्तिलभारत्रयं शुभम्॥ ३१.२ ॥

पद्ममष्टदलं कुर्यात्कर्णिकाकेसरान्वितम्॥
दशनिष्केण तत्कार्यं तदर्धार्धेन वा पुनः॥ ३१.३ ॥

तिलमध्ये न्यसेत्पद्मं पद्ममध्ये महेश्वरम्॥
आराध्य विधिवद्देवं वामादीनि प्रपूजयेत्॥ ३१.४ ॥

शक्तिरूपं सुवर्णेन त्रिनिष्केण तु कारयेत्॥
न्यासं तु परितः कुर्याद्विघ्नेशान्परिभागतः॥ ३१.५ ॥

पूर्वोक्त हेममानेन विघ्नेशानपि कारयेत्॥
तान्भ्यर्च्य विधानेन गन्धपूष्पादिभिः क्रमात्॥ ३१.६ ॥

इति श्रीलिङ्गमहापुराणे उत्तरभागे एकत्रिंशोऽध्यायः॥ ३१ ॥