०३०

सनत्कुमार उवाच॥
अधुना सम्प्रवक्ष्यामि तिलपर्वतमुत्तमम्॥
पूर्वोक्तस्थानकाले तु कृत्वा सम्पूज्य यत्नतः॥ ३०.१ ॥

सुसमे भूतले रम्ये वेदिना च विवर्जिते॥
दशतालप्रमाणएन दण्डं संस्थाप्य वै मुने॥ ३०.२ ॥

अद्भिः सम्प्रोक्ष्य पश्चाद्धि तिलांस्त्वस्मिन्विनिक्षिपेत्॥
पञ्चगव्येन तं देशं प्रोक्षयेद्ब्राह्मणोत्तमः॥ ३०.३ ॥

मण्डलं कल्पयेद्विद्वान्पूर्ववत्सुसमन्ततः॥
नववस्त्रैश्च संस्थाप्य रम्यपुष्पैर्विकीर्य च॥ ३०.४ ॥

तस्मिन्सञ्चयनं कार्यं तिलभारैर्विशेषतः॥
दण्डप्रादेशमुत्सेधमुत्तमं परिकीर्तितम्॥ ३०.५ ॥

चतुरङ्गुलहीनं तु मध्यमं मुनिपुङ्गवाः॥
दण्डतुल्यं कनिष्ठं स्याद्दण्डहीनं न कारयेत्॥ ३०.६ ॥

वेष्टयित्वा नवैर्वस्त्रैः परितः पूजयेत्क्रमात्॥
सद्यादीनि प्रविन्यस्य पूजयेद्विधिपूर्वकम्॥ ३०.७ ॥

अष्टदिक्षु च कर्तव्याः पूर्वोक्ता मूर्तयः क्रमात्॥
त्रिनिष्केन सुवर्णेन प्रत्येकं कारयेत्क्रमात्॥ ३०.८ ॥

दक्षिणा विधिना कार्या तुलाभारवदेव तु॥
होमश्चपूर्ववत्प्रोक्तो यथावन्मुनिसत्तमाः॥ ३०.९ ॥

अर्चयेद्देवदेवेशं लोकपालसमावृतम्॥
तिलपर्वतमध्यस्थं तिलपर्वतरूपिणम्॥ ३०.१० ॥

शिवार्चना च कर्तव्या सहस्रकलशादिभिः॥
दर्शयेत्तिलमध्यस्थं देवदेवमुमापतिम्॥ ३०.११ ॥

पूजयित्वा विधानेन क्रमेण च विसर्जयेत्॥
श्रोत्रियाय दरिद्राय दापयेत्तिलपर्वतम्॥ ३०.१२ ॥

एवं तिलनगः प्रोक्तः सर्वस्मादधिकः परः॥ ३०.१३ ॥

इति श्रीलिङ्गमहापुराणे उत्तरभागे तिलपर्वतदानं नाम त्रिंशोऽध्यायः॥ ३० ॥