सनत्कुमार उवाच॥
तुला ते कथिता ह्येषा आद्या सामान्यरूपिणी॥
हिरण्यगर्भं वक्ष्यामि द्वितीयं सर्वसिद्धिदम्॥ २९.१ ॥
अधः पात्रं सहस्रेण हिरण्येन विधीयते॥
ऊर्ध्वपात्रं तदर्धेन मुखं संवेशमात्रकम्॥ २९.२ ॥
हैममेवं शुभं कुर्यात्सर्वाकारसंयुतम्॥
अधः पात्रे स्मरेद्देवीं गुणत्रयसमन्विताम्॥ २९.३ ॥
चतुर्विशतिकां देवीं ब्रह्मविष्ण्वग्निरूपिणीम्॥
ऊर्ध्वपात्रे गुणातीतं षड्विशकमुमापतिम्॥ २९.४ ॥
आत्मानं पुरुषं ध्यायेत्पञ्चविशकमग्रजम्॥
पूर्वोक्तस्थानमध्येऽथ वेदिकोपरि मण्डले॥ २९.५ ॥
शालीमध्ये क्षिपेन्नीत्वा नववस्त्रैश्च वेष्टयेत्॥
माषकल्केन चालिष्य पञ्चद्रव्येण पूजयेत्॥ २९.६ ॥
ईशानाद्यैर्यथान्यायं पञ्चभिः परिपूजयेत्॥
पूर्ववच्छिवपूजा च होमश्चैव यथक्रमम्॥ २९.७ ॥
देवीं गायत्रिकां जप्त्वा प्रविशेत्प्राङ्मुखः स्वयम्॥
विधिनैव तु सम्पाद्य गर्भाधानादिकां क्रियाम्॥ २९.८ ॥
कृत्वा षोडशमार्गेण विधिना ब्राह्मणोत्तमः॥
दूर्वाकुरैस्तु कर्तव्या सेचना दक्षिणे पुटे॥ २९.९ ॥
औदुम्बरफलैः सार्धकविंशत्कुशोदकम्॥
ईशान्यां तावदेवात्र कुर्यात्सीमन्तकर्मणि॥ २९.१० ॥
उद्वहेत्कन्यकां कृत्वा त्रिंशन्निष्केण शोभनाम्॥
अलङ्कृत्य तथा हुत्वा शिवाय विनिवेदयेत्॥ २९.११ ॥
अन्नप्राशनके विद्वान् भोजयेत्पायसादिभिः॥
एवं विश्वजितान्ता वै गर्भाधानादिकाः क्रियाः॥ २९.१२ ॥
शक्तिबीजेन कर्तव्या ब्राह्मणैर्वेदपारगैः॥
शेषं सर्वं च विधिवत्तुलाहेमवदाचरेत्॥ २९.१३ ॥
इति श्रीलिङ्गमहापुराणे उत्तरभागे एकोनत्रिंशोऽध्यायः॥ २९ ॥