सूत उवाच॥
स्नात्वा देवं नमस्कृत्य देवदेवमुमापतिम्॥
दिव्येन चक्षुषारुद्रां नीललोहितमीश्वरम्॥ २८.१ ॥
दृष्ट्वा वरदं रुद्राध्यायेन शङ्करम्॥
देवोऽपि तुष्ट्या निर्वाणं राज्यान्ते कर्मणैव तु॥ २८.२ ॥
तवा स्तीति सकृच्चोक्त्वा तत्रैवान्तरधीयत॥
स्वायम्भुवो मनुर्देवं नमस्कृत्य वृषध्वजम्॥ २८.३ ॥
आरुरोह महामेरुं महावृषमिवेश्वरः॥
तत्र देवं हिरम्याभं योगैश्वर्यसमन्वितम्॥ २८.४ ॥
सनत्कुमारं वरदमपश्यद्ब्रह्मणः सुतम्॥
नमश्चकार वरदं ब्रह्मण्यं ब्रह्मरूपिणम्॥ २८.५ ॥
कृताञ्जलिपुटो भूत्वा तुष्टाव च महाद्युतिः॥
सोऽपि दृष्ट्वा मनुं देवो हृष्टरोमाभवन्मुनिः॥ २८.६ ॥
सनत्कुमारः प्राहेदं घृणया च घृणानिधे॥
सनत्कुमार उवाच॥
दृष्ट्वा सर्वेश्वराच्छान्ताच्छङ्करान्नीललोहितात्॥ २८.७ ॥
लब्ध्वाभिषेकं सम्प्राप्तो विवक्षुर्वद यद्यपि॥
तस्य तद्वचनं श्रुत्वा प्रणिपत्य कृताञ्जलिः॥ २८.८ ॥
विज्ञापयामास कथं कर्मणा निर्वृतिर्विभो॥
वक्तुमर्हसि चास्माकं कर्मणा केवलेन च॥ २८.९ ॥
ज्ञानेन निर्वृतिः सिद्धा विभो मिश्रेण वा क्कचित्॥
अथ तस्य वचः श्रुत्वा श्रुतिसारविदां निधिः॥ २८.१० ॥
सनत्कुमारो भगवान्कर्मणा निर्वृतिङ्क्रमात्॥
मिश्रेण च क्रमादेव क्षणाज्ज्ञानेन वै मुने॥ २८.११ ॥
पुराऽमानेन चोष्ट्रत्वमगमं नन्दिनः प्रभोः॥
शापात्पुनः प्रसादाद्धि शिवमभ्यर्च्य शङ्करम्॥ २८.१२ ॥
प्रसादान्नन्दिनस्तस्य कर्मणैव सुतोह्यहम्॥
श्रुत्वोत्तमां गतिं दिव्यामवस्थां प्राप्तवानहम्॥ २८.१३ ॥
शिवार्चनप्रकारेण शिवधर्मेण नान्यथा॥
राज्ञां षोडशदानानि नन्दिना कथितानि च॥ २८.१४ ॥
धर्मकामार्थमुक्त्यर्थं कर्मणैव महात्मना॥
तुलादिरोहणाद्यानि श्रृणु तानि यतातथम्॥ २८.१५ ॥
ग्रहणादिषु कालेषु शुभदेशेषु शोभनम्॥
विंशद्धस्तप्रमाणेन मण्डपं कूटमेव च॥ २८.१६ ॥
यथाष्टादशहस्तेन कलाहस्तेन वा पुनः॥
कृत्वा वेदिं तथा मध्ये नवहस्तप्रमाणतः॥ २८.१७ ॥
अष्टहस्तेन वा कार्या सप्तहस्तेन वा पुनः॥
द्विहस्ता सार्धहस्ता वा वेदिका चातिशोभना॥ २८.१८ ॥
द्वादशस्तम्भसंयुक्ता साधुरम्या भ्रमन्तिका॥
परितो नव कुण्डानि चतुरस्राणि कारयेत्॥ २८.१९ ॥
एन्द्रिकेशानयोर्मध्ये प्रधानं ब्रह्मणः सुता॥
अथवा चतुरस्रं च योन्याकारमतः परम्॥ २८.२० ॥
स्त्रीणां कुण्डानि विप्रेन्द्रा योन्याकाराणि कारयेत्॥
अर्धचन्द्रं त्रिकोणं च वर्तुलं कुण्डमेव च॥ २८.२१ ॥
षडस्रं सर्वतो वापि त्रिकोणं पद्मसन्निभम्॥
अष्टास्रं सर्वमाने तु स्थण्डिलं केवलं तु वा॥ २८.२२ ॥
चतुर्द्वारसमोपेतं चतुस्तोरणभूषितम्॥
दिग्गजाष्टकसंयुक्तं दर्भमालासमावृतम्॥ २८.२३ ॥
अष्टमङ्गलसंयुक्तं वितानोपरिशोभितम्॥
तुलास्तम्भद्रुमाश्चात्र बिल्वादीनि विशेषतः॥ २८.२४ ॥
बिल्वाश्वत्थपलाशाद्याः केवलं खादिरं तु वा॥
येन स्तम्भः कृतः पूर्वं तेन सर्वं तु कारयेत्॥ २८.२५ ॥
अथवा मिश्रमार्गेण वेणुना वा प्रकल्पयेत्॥
अष्टहस्तप्रमाणं तु हस्तद्वयसमायुतम्॥ २८.२६ ॥
तुलास्तम्भस्य विष्कम्भोऽनाहतस्त्रिगुणोमतः॥
द्वयङ्गुलेन विहीनं तु सुवृत्तं निर्व्रणं तथा॥ २८.२७ ॥
उभयोरन्तरं चैव षड्ढस्तं नृपते स्मृतम्॥
द्वोयश्चतुर्हस्तकृतमन्तरं स्तम्भयोरपि॥ २८.२८ ॥
षड्स्तमन्तरं ज्ञेयं स्तम्भयोरुपरि स्थितम्॥
वितास्तिमात्रं विस्तारो विष्कम्भस्तावदुत्तरम्॥ २८.२९ ॥
स्तम्भयोस्तु प्रमाणेन उत्तरद्वारसम्मितम्॥
षट्त्रिंशन्मात्रसंयुक्तं व्यायामं तु तुलात्मकम्॥ २८.३० ॥
विष्कम्भमष्टमात्रं तु यवपण्टकसंयुतम्॥
षट्त्रिंशन्मात्रनाभं स्यान्निर्माणाद्वर्तुलं शुभम्॥ २८.३१ ॥
अग्रे मूले च मध्ये च हेमपट्टेन बन्दयेत्॥
पट्टमध्ये प्रकर्तव्यमवलम्बनकत्रयम्॥ २८.३२ ॥
ताम्रेण च प्रकर्तव्यमवलम्बनकत्रयम्॥
आरेण वा प्रकर्तव्यमायसं नैव कारयेत्॥ २८.३३ ॥
मध्ये चोर्ध्वमुखं कार्यमवलम्बः सुशोभनः॥
रश्मिभिस्तोरणाग्रे वा बन्धयेच्च विधानतः॥ २८.३४ ॥
जिह्वामेकां तुलामध्ये तारेणं तु विधीयते॥
उत्तरस्य च मध्ये च शङ्कुं दृढमनुत्तमम्॥ २८.३५ ॥
वितानेनोपरि च्छाद्य दृढं सम्यक्प्रयोजयेत्॥
सङ्कोः सुषिरसम्पन्नं वलयं कारयेन्मुने॥ २८.३६ ॥
तुलामध्ये वितानेन तुलयालम्बके तथा॥
वलयेन प्रयोक्तव्यं कुण्डलं वावलम्बनम्॥ २८.३७ ॥
सुदृढं च तुलामध्ये नवमाङ्गुलमानतः॥
पट्टस्यैव तु विस्तारं पञ्चमात्रप्रमाणतः॥ २८.३८ ॥
अपरौ सुदृढौ पिण्डौ शुभद्रव्येण कारयेत्॥
शिक्याधस्तात्प्रकर्तव्यौ पञ्चप्रादेश विस्तरौ॥
सहस्रेण तु कर्तव्यौ पलानां धारकावुभौ॥ २८.३९ ॥
शतष्टकेन वा कुर्यात्पलैः षट्शतमेव वा॥
चतुस्तालं च कर्तव्यो विस्तारोमद्यमस्तथा॥ २८.४० ॥
सार्धत्रितालविस्तारः कलशस्य विधियते॥
बध्नीयात्पञ्चपात्रं तु त्रिमात्रं षट्कमुच्यते॥ २८.४१ ॥
चतुर्द्वारसमोपेतं द्वारमङ्गुलमात्रकम्॥
कुण्डलैश्च समोपेतैः शुक्लशुद्धसमन्वितैः॥ २८.४२ ॥
कुण्डलेकुण्डले कार्यं श्रृङ्खलापरिमण्डलम्॥
श्रृङ्खलाधारवलयमवलं बेन योजयेत्॥ २८.४३ ॥
प्रादेशं वा चतुर्मात्रं भूमेस्त्यक्त्वावलम्बयेत्॥
घटौ पुरुषमात्रौ तु कर्तव्यौ शोभनावुभौ॥ २८.४४ ॥
तौ वालुकाभिः सम्पूर्य शिवं तत्र विनिःक्षिपेत्॥
द्विहस्तमात्रमवटे स्थापनीयौ प्रयत्नतः॥ २८.४५ ॥
निःशेषं पूरयोद्विद्वान्वालुकाभिः समन्ततः॥
येन निश्चलतां गच्छेत्तेन मार्गेण कारयेत्॥ २८.४६ ॥
श्रूयतां परमं गुह्यं वेदिकोपरिमण्डलम्॥
अष्टमाङ्गुलसंयुक्तं मङ्गलाकुरशोभितम्॥ २८.४७ ॥
फलपुष्पसमाकीर्णं धूपदीपसमन्वितम्॥
वेदिमध्ये प्रकर्तव्यं दर्पणोदरसन्निभम्॥ २८.४८ ॥
आलिखेन्मण्डलं पूर्वं चतुर्द्वारसमन्वितम्॥
शोभोपशोभासम्पन्नं कर्णिकाकेसरान्वितम्॥ २८.४९ ॥
वर्णजातिसमोपेतं पञ्चवर्णं तु कारयेत्॥
वज्रं प्रागन्तरे भागे आग्नेय्यां शक्तिमुज्ज्वलाम्॥ २८.५० ॥
आलिखेद्दक्षिणे दण्डं नैर्ऋत्यां खङ्गमालिखेत्॥
पाशश्च वारुणे लेख्यो ध्वजं वै वायुगोचरे॥ २८.५१ ॥
कौबेर्यां तु गदा लेख्या ऐशान्यां शूलमालिखेत्॥
शूलस्य वामदेशेन चक्रं पद्मं तु दक्षिणे॥ २८.५२ ॥
एवं लिखित्वा पश्चाच्च होमकर्मसमाचरेत्॥
प्रधानहोमं गायत्र्या स्वाहा शक्राय वह्नेये॥ २८.५३ ॥
यमाय राक्षसेशाय वरुणाय च वायवे॥
कुबेरायेश्वरायाथ विष्णवे ब्रह्मणे पुनः॥ २८.५४ ॥
स्वाहान्तं प्रणवेनैव होतव्यं विधिपूर्वकम्॥
स्वशाखाग्निमुखेनैव जयादिप्रतिसंयुतम्॥ २८.५५ ॥
स्विष्टान्तं सर्वकार्याणि कारयेद्विधिवत्तदा॥
सर्वहोमाग्रहोमे च समित्पालाशमुच्यते॥
एकविंशतिसङ्ख्यातं मन्त्रेणानेन होमयेत्॥ २८.५६ ॥
अयन्तइध्मआत्माजातवेदस्तेने ध्यस्ववर्धस्वचेद्धवर्धयचास्मान्प्रजयापशुभिर्ब्रह्मवर्चसेनान्नाद्येनसमेधयस्वाहा भूः स्वाहा भुवःस्वाहा स्वः
स्वाहा भूर्भुवः स्वस्तथैव च॥
समिद्धोमश्च चरुणा घृतस्य च यथाक्रमम्॥
शुक्लान्नपायसं चैव मुद्गान्नं चरवः स्मृताः॥ २८.५७ ॥
सहस्रं वा तदर्धं वा शतमष्टोत्तरं तु वा॥ २८.५८ ॥
अग्न आयूंषि पवस आसुवोर्जमिषं च नः॥
अरोबाधस्वदुच्छनाम्॥
अग्निर्ऋषिः पवमानः पाञ्चजन्यः पुरोहितः॥
तमीमहे महागयम्॥
अग्ने पवस्व स्वपा अस्मे वर्चः सुवीर्यम्॥
दधद्रयिं मयि पोषम्॥
प्रजापते न त्वदेतान्यन्यो विश्वाजातानि परिता बभूव॥
यत्कामास्ते जुहुमस्तन्नो अस्तु वयं स्याम पतयो रयीणाम्॥
गायत्र्या च प्रधानस्य समिद्धोमस्तथैव व॥
चरुणा च तथाज्यस्य शक्रदीनां च होमयेत्॥ २८.५९ ॥
वज्रादीनां च होतव्यं सहस्रार्धं ततः क्रमात्॥
ब्रह्म जज्ञेति मन्त्रेण ब्रह्मणे विष्णवे पुनः॥ २८.६० ॥
नारायणाय विद्महे वासु देवाय धीमहि॥
तन्नो विष्णुः प्रचोदयात्॥
अयं विशेषः कथितो होममार्गः सुशोभनः॥
दूर्वया क्षीरयुक्तेन पञ्चविंशत्पृथक्पृथक्॥ २८.६१ ॥
त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम्॥
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षयि मामृतात्॥ २८.६२ ॥
दूर्वाहोमः प्रशस्तोऽयं वासुहोमश्च सर्वथा॥
प्रायश्चित्तमघोरेण सर्पिषा च शतंशतम्॥ २८.६३ ॥
ब्रह्माणं दक्षिणे वामे विष्णुं विश्वगुरुं शिवम्॥
मध्ये देव्या समं ज्ञेयमिन्द्रादिगणसंवृतम्॥ २८.६४ ॥
आदित्यं भास्करं भानुं रविं देवं दिवाकरम्॥
उषां प्रभां तथा प्रज्ञां सन्ध्यां सावित्रिमेव च॥ २८.६५ ॥
पञ्चप्रकारविधिना खखोल्काय महात्मने॥
विष्टरां सुभगां चैव वर्धनीं च प्रदक्षिणाम्॥ २८.६६ ॥
आप्यायनीं च सम्पूज्य देवी पद्मासने रविम्॥
प्रभूतं वाथ कर्तव्यं विमलं दक्षिणे तथा॥ २८.६७ ॥
सारं पश्चिमभागे च आराध्यं चोत्तरे यजेत्॥
मध्ये सुखं विजानीयात्केसरेषु यथाक्रमम्॥ २८.६८ ॥
दीप्तां सूक्ष्मां जयां भद्रां विभूतिं विमलां क्रमात्॥
अमोघां विद्युतां चैव मध्यतः सर्वतोमुखीम्॥ २८.६९ ॥
सोममङ्गारकं चैव बुधं गुरुमनुक्रमात्॥
भार्गवं च तथा मन्दं राहुं केतुं तथैव च॥ २८.७० ॥
पूजयेद्धोमयेदेवं दापयेच्च विशेषतः॥
योगिनो भोजयेत्तत्र शिवतत्त्वैकपारगान्॥ २८.७१ ॥
दिव्याध्ययनसम्पन्नान्कृत्वैवं विधिविस्तरम्॥
होमे प्रवर्तमाने च पूर्वादिक्स्थानमध्यमे॥ २८.७२ ॥
आरोहयेद्विधानेन रुद्राध्यायेन वै नृपम्॥
दारयेत्तत्र भूपालं घटिकैकां विदानतः॥ २८.७३ ॥
यजमानो जपेन्मन्त्रं रुद्रगायत्रिसञ्ज्ञकम्॥
घटिकार्धं तदर्धं वा तत्रैवासनामारभेत्॥ २८.७४ ॥
आलोक्य वारुणं धीमान्कूर्चहस्तः समाहितः॥
नृपश्च भूषणैर्युक्तः खड्गखेटकधारकः॥ २८.७५ ॥
स्वस्तिरित्यादिभिश्चादावन्ते चैव विशेषतः॥
पुण्याहं ब्राह्मणैः कार्यं वेदवेदाङ्गपारगैः॥ २८.७६ ॥
जयमङ्गलशब्दादिब्रह्मघोषैः सुशोभनैः॥
नृत्यवाद्यादिभिर्गीतैः सर्वशोभासमन्वितैः॥ २८.७७ ॥
स्वमेवं चन्द्रदिग्भागे सुवर्णं तत्र विक्षिपेत्॥
तुलाधारौ समौ वृत्तौ तुलाभारः सदा भवेत्॥ २८.७८ ॥
शतनिष्काधिकं श्रेष्ठं तदर्धं मध्यमं स्मृतम्॥
तस्यार्धं च कनिष्ठं स्यात्त्रिविधं तत्र कल्पितम्॥ २८.७९ ॥
वस्त्रयुग्ममथोष्णीषं कुण्डलं कण्ठशोभनम्॥
अङ्गुलीभीषणं चैव मणिबन्धस्य भूषणम्॥ २८.८० ॥
एतानि चैव सर्वाणि प्रारम्भे धर्मकर्मणि॥
पाशुपतव्रतायाथ भस्माङ्गाय प्रदापयेत्॥ २८.८१ ॥
पूर्वोक्तभूषणं सर्वं सोष्णीषं वस्त्रसंयुतम्॥
दद्यादेतत्प्रयोक्तुभ्य आच्छादनपटं बुधः॥ २८.८२ ॥
दक्षिणां च शतं सार्धं तदर्धं वा प्रदापयेत्॥
योगिनां चैव सर्वेषां पृथङ्निष्कं प्रदापयेत्॥ २८.८३ ॥
यागोपकरणं दिव्यमाचार्याय प्रदापयेत्॥
इतरेषां यतीनां तु पृथङ्निष्कं प्रदापयेत्॥ २८.८४ ॥
तुलारोह सुवर्णं च शिवाय विनिवेदयेत्॥
प्रासादं मण्डपं चैव प्राकारं भूषणं तथा॥ २८.८५ ॥
सुवर्णपुष्पं पटहं खड्गं वै कोशमेव च॥
कृत्वा दत्त्वा शिवायाथ किञ्चिच्छेषं च बुद्धिमान्॥ २८.८६ ॥
आचार्येभ्यः प्रदातव्यं भस्माङ्गेभ्यो विशेषतः॥
पयसा वाथ दध्ना वा सर्वद्रव्यैरथापि वा॥
ब्रह्मकूर्चेन वा देवं पञ्चगव्येन चवा पुनः॥ २८.८७ ॥
सहस्रकलशैस्तत्र सेचयेत्परमेश्वरम्॥
घृतेन केवलेनापि देवदेवमुमापतिम्॥ २८.८८ ॥
पयसा वाथ दध्ना वा सर्वद्रव्यैरथापि वा॥
ब्रह्मकूर्चेन वा देवं पञ्चगव्येन वा पुनः॥ २८.८९ ॥
गायत्र्या चैव गोमूत्रं गोमयं प्रणवेन वा॥
आप्यायस्वेति वै क्षीरं दधिक्राव्णोति वै दधि॥ २८.९० ॥
तेजोसीत्याज्यमीशानमन्त्रेणैवाभिषेचयेत्॥
देवस्यत्वोति देवेशं कुशाम्बुकलशेन वै॥ २८.९१ ॥
रुद्राध्यायेन वा सर्वं स्नापयेत्परमेश्वरम्॥
सहस्रकलशं शम्भोर्नाम्नां चैव सहस्रकैः॥ २८.९२ ॥
विष्णुना कथितैर्वापि तण्डिना कथितैस्तु वा॥
दक्षेण मुनिमुख्येन कीर्तितैरथवा पुनः॥ २८.९३ ॥
महापूजा प्रकर्तव्या महादेवस्य भक्तितः॥
शिवार्चकाय दातव्या दक्षिणा स्वगुरोः सदा॥ २८.९४ ॥
देहार्णवं च सर्वेषां दक्षिणा च यताक्रमम्॥
दीनान्धकृपणानां च बालवृद्धकृसातुरान्॥ २८.९५ ॥
भोजयेच्च विधानेन दक्षिणामपि दापयेत्॥ २८.९६ ॥
इति श्रीलिङ्गमहापुराणे उत्तरभागे तुलापुरुषदानविधावष्टाविंशत्तमोऽध्यायः॥ २८ ॥