ऋषय ऊचुः॥
प्रभावो नन्दिनश्चैव लिङ्गपुजाफलं श्रुतम्॥
श्रुतिभिः सम्मितं सर्वं रोमहर्षण सुव्रत॥ २७.१ ॥
जयाभिषेक ईशेन कथितो मनवे पुरा॥
हिताय मेरुशिखरे क्षत्रियाणां त्रिशुलिना॥ २७.२ ॥
तत्कथं षोडशविधं महादानं च शोभनम्॥
वक्तुमर्हसि चास्माकं सूत बुद्धिमतांवर॥ २७.३ ॥
सूत उवाच॥
जीवच्छ्राद्धं पुरा कृत्वा मनुः स्वायम्भुवः प्रभुः॥
मेरुमासाद्य देवेशमस्तवीन्नीललोहितम्॥ २७.४ ॥
तपसा च विनीताय प्रहृष्टः प्रददौ भवः॥
दिव्यं दर्शनमीशानस्तेनापस्यत्तव्ययम्॥ २७.५ ॥
नत्वा सम्पूज्य विधिना कृताञ्जलिपुटः स्थितः॥
पूजितश्च ततो देवो दृष्टश्चैव मयाधुना॥
शक्राय कथितं पूर्वं धर्मकामार्थमोक्षदम्॥ २७.६ ॥
देवदेव जगन्नाथ नमस्ते भुवनेश्वर॥
जीवच्छ्राद्धं महादेव प्रसादेन विनिर्मितम्॥ २७.७ ॥
पूजितश्च देवो दृष्टश्चैव मयाधुना॥
शक्राय कथितं पूर्वं धर्मकामार्थमोक्षदम्॥ २७.८ ॥
जयाभिषेकं देवेश वक्तुमर्हसि मे प्रभो॥
सूत उवाच॥
तस्मै देवो महादेवो भगवान्नीललोहितः॥ २७.९ ॥
जयाभिषेकमखिलमवदत्परमेश्वरः॥
श्रीभगवानुवाच॥
जयाभषेकं वक्ष्यामि नृपाणां हितकाम्यया॥ २७.१० ॥
अपमृत्युजयार्थं च सर्वशत्रुजयाय च॥
युद्धकाले तु सम्प्राप्ते कृत्वैवमभिषेचनम्॥ २७.११ ॥
स्वपतिं चाभिषिच्यैव गच्छेद्योद्धुं रणाजिरे॥
विधिना मण्डपं कृत्वा प्रपांवा कूटमेव वा॥ २७.१२ ॥
नवधा स्तापयेद्वह्निं ब्राह्मणो वेदपारगः॥
ततः सर्वाभिषेकार्थं सूत्रपातं च कारयेत्॥ २७.१३ ॥
प्रागाद्यं वर्णसूत्रञ्च दक्षिणाद्यं तथा पुनः॥
सहस्राणां द्वयं तत्र शतानां च चतुष्टयम्॥ २७.१४ ॥
शेषमेव सुभं कोष्ठं तेषु कोष्ठं तु संहरेत्॥
बाह्ये वीथ्यां पदञ्चैकं समन्तादुपसंहरेत्॥ २७.१५ ॥
अङ्गसूत्राणि सङ्गृह्य विधिना पृथगेव तु॥
प्रागाद्यं वर्णसूत्रं च दक्षिणाद्यं तथा पुनः॥ २७.१६ ॥
प्रागाद्यन्दक्षिणाद्यं च षट्त्रिशत्संहरेत्क्रमात्॥
प्रागाद्याः पङ्क्तयः सप्त दक्षिणाद्यास्तथा पुनः॥ २७.१७ ॥
तस्मादेकोनपञ्चाशत्पङ्क्तयः परिकीर्तिताः॥
नव पङ्क्तीर्हरेन्मध्ये गन्धगोमयवारिणा॥ २७.१८ ॥
कमलं चालिखेत्तत्र हस्तामात्रेण शोभनम्॥
अष्टपत्रं सितं वृत्तं कर्णिकाकेसरान्वितम्॥ २७.१९ ॥
अष्टाङ्गुलप्रमाणेन कर्णिका हेमसन्निभा॥
चतुरङ्गुलमानेन केसरस्थानमुच्यते॥ २७.२० ॥
धर्मो ज्ञानं च वैराग्यमैश्वर्यं च यथाक्रमम्॥
आग्नेयादिषु कोणेषु स्थापयेत्प्रणवेन तु॥ २७.२१ ॥
अव्यक्तादीनि वै दिक्षु गात्राकारेण वै न्यसेत्॥
अव्यक्तं नियतः कालः काली चेति चतुष्टयम्॥ २७.२२ ॥
सितरक्तहिरण्याभकृष्णा धर्मादयः क्रमात्॥
हंसाकारेण वै गात्रं हेमाभासेन सुव्रताः॥ २७.२३ ॥
आधारशक्तिमध्ये तु कमलं सृष्टिकारणमा॥
बिन्दुमात्रं कलामध्ये नादाकारमतः परम्॥ २७.२४ ॥
नादोपरि शिवं ध्यायेदोङ्कारख्यं जगद्गुरुम्॥
मनोन्मनीं च पद्माभम्महादेवं च भावयेत्॥ २७.२५ ॥
वामादयः क्रमेणैव प्रागाद्याः केसरेषु वै॥
वामा ज्येष्ठा तथा रौद्री काली विकरणी तथा॥ २७.२६ ॥
बला प्रमथिनी देवी दमनी च यथाङ्क्रमम्॥
वामदेवादिभिः सार्धं प्रणवेनैव विन्यसेत्॥ २७.२७ ॥
नमोऽस्तु वामदेवाय नमो ज्येष्ठाय शूलिने॥ २७.२८ ॥
रुद्राय कालरूपाय कलाविकरणाय च॥
बलाय च तथा सर्वभूतस्य दमनाय च॥ २७.२९ ॥
मनोन्मनाय देवाय मनोन्मन्यै नमोनमः॥
मन्त्रैरेतैर्यथान्यायं पूजयेत्परिमण्डलम्॥ २७.३० ॥
प्रथमावरणं प्रोक्तं द्वितीयावरणं श्रुणु॥
द्वितीयावरणे चैव शक्तयः षोडशैव तु॥ २७.३१ ॥
तृतीयावरणे चैव चतुर्विशदनुक्रमात्॥
पिशाच वीर्थिर्वै मध्ये नाभिवीथिः समन्ततः॥ २७.३२ ॥
मन्त्रैरेतैर्यथान्यायं पिशाचानां प्रकीर्तिता॥
अष्टोत्तरसहस्रं तु पदमष्टारसंयुतम्॥ २७.३३ ॥
तेषुतेषु पृथक्त्वेन पदेषु कमलं क्रमात्॥
कल्पयेच्छालिनीवारगोधूमैश्च यवादिभिः॥ २७.३४ ॥
तण्डुलैश्च तिलैर्वाथ गौरसर्षपसंयुतैः॥
अथवा कल्पयेदेतैर्यथाकालं विधानतः॥ २७.३५ ॥
अष्टपत्रं लिखेत्तेषु कर्णिकाकेसरान्वितम्॥
शालीनामाढकं प्रोक्तं कमलानां पृथक् पृथक्॥ २७.३६ ॥
तण्डुलानां तदर्धं स्यात्तदर्धं च यवादयः॥
द्रोणं प्रधानकुम्भस्य तदर्धं तण्डुलाः स्मृताः॥ २७.३७ ॥
तिलानामाढकं मध्ये यवानां च तदर्धकम्॥
अथाम्भसा समभ्युक्ष्य कमलं प्रणवेन तु॥ २७.३८ ॥
तेषु सर्वेषु विधिना प्रणवं विन्यसेत्क्रमात्॥
एवं समाप्य चाभ्युक्ष्य पदसाहस्रमुत्तमम्॥ २७.३९ ॥
कलशानां सहस्राणि हैमानि च शुभानि च॥
उक्तलक्षणयुक्तानु कारयेद्राजतानि वा॥ २७.४० ॥
ताम्रजानि यतान्यायं प्रणवेनार्घ्यवारिणा॥
द्वादशाङ्गुलविस्तारमुदरे समुदाहृतम्॥ २७.४१ ॥
वर्तितं तु तदर्धेन नाभिस्तस्य विधीयते॥
कण्ठं तु द्व्यङ्गुलोत्सेधं विस्तरं चतुरङ्गुलम्॥ २७.४२ ॥
ओष्ठं च द्व्यङ्गुलोत्सेधं निर्गमं द्व्यगुलंस्मृतम्॥
तत्तद्वै द्विगुणं दिव्यं शिवकुम्भे प्रकीर्तितम्॥ २७.४३ ॥
यवामात्रान्तरं सम्यक्तन्तुना वेष्टयेद्धि वै॥
अवगुण्ठ्य तथाभ्युक्ष्य कुशोपरियताविधि॥ २७.४४ ॥
पूर्ववत्प्रणवेनैव पूरयेद्गन्धवारिणा॥
स्थापयेच्छिवकुम्भाढ्यं वर्धनीं च विदानतः॥ २७.४५ ॥
मध्यपद्मास्य मध्ये तु सकूर्चं साक्षतं क्रमात्॥
आवेष्ट्य वस्त्रयुग्मेन प्रच्छाद्य कमलेन तु॥ २७.४६ ॥
हैमेन चित्ररत्नेन सहस्रकलशं पृथक्॥
शिवकुम्भे शिवं स्थाप्य गायत्र्या प्रणवेज च॥ २७.४७ ॥
विद्महं पुरुषायैव महादेवाय धीमहि॥
तन्नो रुद्रः प्रचोदयात्॥ २७.४८ ॥
मन्त्रेणानेन रुद्रस्य सान्निध्यं सर्वदा स्मृतम्॥
वर्धन्यां देविगायत्र्या देवीं संस्थाप्य पूजयेत्॥ २७.४९ ॥
गणाम्बिकायै विद्महे महातपायै धीमहि॥
तन्नो गौरी प्रचोदयात्॥ २७.५० ॥
प्रथमावरणे चैव वामाद्याः परिकीर्तिताः॥
प्रथमावरणं प्रोक्तं द्वितीयावरणं श्रुणु॥ २७.५१ ॥
शक्तयः षोडशैवात्र पूर्वाद्यान्तेषु सुव्रत॥
ऐन्द्रव्यूहस्य मध्ये तु सुभद्रां स्थाप्य पूजयेत्॥ २७.५२ ॥
भद्रामाग्नेयचक्रे तु याम्ये तु कनकाण्डजाम्॥
अम्बिकां नैर्ऋते व्यूहे मध्यकुम्भे तु पूजयेत्॥ २७.५३ ॥
श्रीदेवीं वारुणे भागे वागीशां वायुगोचरे॥
गोमुखीं सौम्यभागे तु मध्यकुम्भे तु पूजयेत्॥ २७.५४ ॥
रुद्रव्यूहस्य मध्ये तु भद्रकर्णां समर्चयेत्॥
ऐन्द्राग्निविदिसोर्मध्ये पूजयेदणिमां शुभाम्॥ २७.५५ ॥
याम्यपावकयोर्मध्ये लघिमां कमले न्यसेत्॥
राक्षसान्तकयोर्मध्ये महिमां मध्यतो यजेत्॥ २७.५६ ॥
वरुणासुरयोर्मध्ये प्राप्तिं वै मध्यतो यजेत्॥
वरुणानिलयोर्मध्ये प्राकाम्यं कमले न्यसेत्॥ २७.५७ ॥
वित्तेशानिलयोर्मध्ये ईशित्वं स्थाप्य पूजयेत्॥
वित्तेशेशानयोर्मध्ये वशित्वं स्थाप्य पूजयेत्॥ २७.५८ ॥
ऐन्द्रेशेशानयोर्मध्ये यजेत्कामावसायकम्॥
द्वितीयावरणं प्रोक्तं तृतीयावरणं शुणु॥ २७.५९ ॥
शक्तयस्तु चतुर्विशत्प्रदानकलशेषु च॥
पूजयेद्व्यूहमध्ये तु पूर्ववद्विधिपूर्वकम्॥ २७.६० ॥
दीक्षां दीक्षायिकां चैव चण्डां चण्डांशुनायिकाम्॥
सुमतिं सुमत्यायीं च गोपां गोपायिकां तथा॥ २७.६१ ॥
अथ नन्दं च नन्दायीं पितामहमतः परम्॥
पितामहायीं पूर्वाद्यं विधिना स्थाप्य पूजयेत्॥ २७.६२ ॥
एर्व सम्पूज्य विधिनातृतीयावरणं शुभम्॥
सौभद्रं व्यूहमासाद्य प्रथमावरणे क्रमात्॥ २७.६३ ॥
प्रागाद्यं विधिना स्थाप्य शक्त्यष्टकमनुक्रमात्॥
द्वितीयावरणे चैव प्रागाद्यं श्रृणु शक्तयः॥ २७.६४ ॥
षोडशैव तु अभ्यर्च्य पद्ममुद्रां तु दर्शयेत्॥
बिन्दुका बिन्दुगर्भा च नादिनी नादगर्भजा॥ २७.६५ ॥
शक्तिका शक्तिगर्भा च परा चैव परापरा॥
प्रतमावरणेऽष्टौ च शक्तयः परिकीर्तिताः॥ २७.६६ ॥
चण्डा चण्डमुखी चैव चण्डवेगा मनोजवा॥
चण्डाक्षीचण्डनिर्घोषा भृकुटी चण्डनायिका॥ २७.६७ ॥
मनोत्सेधा मनोध्यक्षा मानसी माननायिका॥
मनोहरी मनोह्लादी मनःप्रीतिर्महेश्वरी॥ २७.६८ ॥
द्वितीयावरणे चैव षोडशैव प्रकीर्तिताः॥
सौभद्रः कथितो व्यूहो भद्रं व्यूहं श्रृणुष्व मे॥ २७.६९ ॥
ऐन्द्री हौताशनी याम्या नैर्ऋती वारुणी तथा॥
वायव्या चैव कौबेरी ऐशानी चाष्टशक्तयः॥ २७.७० ॥
प्रथमावरणं प्रोक्तं द्वितीयावरणं श्रृणु॥
हरिणा च सुवर्णा च काञ्चनी हाटकी तथा॥ २७.७१ ॥
रुक्मिणी सत्यभामा च सुभगा जम्बुनायिका॥
वाग्भवा वाक्पथा वाणी भीमा चित्ररथा सुधीः॥ २७.७२ ॥
वेदमाता हिरण्याक्षी द्वितीयावरणे स्मृता॥
भद्राख्यः कथितो व्यूहः कनकाख्यं श्रृणुष्व मे॥ २७.७३ ॥
वज्रं शक्तिं च दण्डं च खड्गं पाशं ध्वजं तथा॥
गदां त्रिशुलं क्रमशः प्रथमावरणे स्मृताः॥ २७.७४ ॥
युद्धा प्रबुद्धा चण्डा च मुण्डा चैव कपालिनी॥
मृत्युहन्त्री विरूपाक्षी कपर्दा कमलासना॥ २७.७५ ॥
दंष्ट्रिणी चैव लम्बाक्षी कङ्कभूषमी॥
सम्भावा भाविनी चैव षोडशैव प्रकीर्तिताः॥ २७.७६ ॥
कथितः प्रथकव्यूहो ह्यम्बिकाख्यं श्रृणुष्व मे॥
खेचरी चात्मना सा च भवानी वह्निरूपिणी॥ २७.७७ ॥
वह्निनी वह्निनाभा च महिमामृतलालसा॥
प्रथमावरणे चाष्टौ शक्तयः सर्वसम्मताः॥ २७.७८ ॥
क्षमा च शिखरा देवी ऋतुरत्ना सिला तथा॥
छाया भूतपनी धन्या इन्द्रमाता च वैष्णवी॥ २७.७९ ॥
तृष्णा रागवती मोहा कामकोपा महोत्कटा॥
इन्द्रा च बधिरा देवी षोडशैताः प्रकीर्तिताः॥ २७.८० ॥
कथितश्चाम्बिकाव्यूहः श्रीव्यूहं श्रृणु सुव्रत॥
स्वर्शा स्वर्शवती गन्धा प्राणापाना समानिका॥ २७.८१ ॥
उदाना व्याननामा च प्रथमावरणे स्मृताः॥
तमोहता प्रभामोघा तेजिनी दहिनी तथा॥ २७.८२ ॥
भीमास्या जालिनी चोषा शोषिणी रुद्रनायिका॥
वरिभद्रा गणाध्यक्षा चन्द्रहासा च गह्वरा॥ २७.८३ ॥
गणमाताम्बिका चैव शक्तयः सर्वसम्मताः॥
द्वितीयावरणे प्रोक्ताः षोडशैव यथाक्रमात्॥ २७.८४ ॥
श्रीव्यूहः कथितो भद्रंवागीशं श्रृणु सुव्रत॥
धारा वारिधरा चैव वह्निकी नाशकी तथा॥ २७.८५ ॥
मर्त्यातीता महामाया वज्रिणी कामदेनुका॥
प्रथमावरणेऽप्येवं शक्तयोऽष्टौ प्रकीर्तिताः॥ २७.८६ ॥
पयोष्णी वारुणी शान्ता जयन्ती च वरप्रदा॥
प्लाविनी जलमाता च पयोमाता महाम्बिका॥ २७.८७ ॥
रक्ता कराली चण्डाक्षी महोच्छुष्मा पयस्विनी॥
माया विद्येश्वरी काली कालिका च यथाक्रमम्॥ २७.८८ ॥
षोडशैव समाख्याताः शक्तयः सर्वसम्मताः॥
व्यूहो वागीश्वरः प्रोक्तो गोमुखो व्यूह उच्यते॥ २७.८९ ॥
शङ्कीनी हालिनी चैव लङ्कावर्णा च कल्किनी॥
यक्षिणी मालिनी चैव वमनी च रसात्मनी॥ २७.९० ॥
प्रथमावरणे चैव शक्तयोऽष्टौ प्रकीर्तिताः॥
चण्डा घण्टा महानादा सुमुखी दुर्मुखी बला॥ २७.९१ ॥
रेवती प्रथमा घोरा सैन्या लीना महाबला॥
जया च विजया चैव अपरा चापराजिता॥ २७.९२ ॥
द्वितीयावरणे चैव शक्तयः षोडशैव तु॥
कथितो गोमुखीव्यूहो भद्रकर्णी श्रृणुष्व मे॥ २७.९३ ॥
महाजया विरुपाक्षी शुक्लाभाकाशमातृका॥
संहारि जातहारी च दंष्ट्राली सुष्करेवती॥ २७.९४ ॥
प्रथमावरणे चाष्टौ शक्तयः परिकीर्तिताः॥
पिपीलिका पुण्यहारी अशनी सर्वहारिणी॥ २७.९५ ॥
भद्रहा विश्वहारी च हिमायोगेश्वरी तथा॥
छिद्रा भानुमती छिद्रा सैंहिकी सुरभी समा॥ २७.९६ ॥
सर्वभव्या च वेगाख्या शक्तयः षोडशैव तु॥
महाव्यूहाष्टकं प्रोक्तमुपव्युहाष्टकं श्रृणु॥ २७.९७ ॥
अणिमाव्यूहमावेष्ट्य प्रथमावरणे क्रमात्॥
ऐन्द्रा तु चित्रभानुश्च वारुणी दण्डिरेव च॥ २७.९८ ॥
प्राणरूपी तथा हंसः स्वात्मशक्तिः पितामहः॥
प्रथमावरणं प्रोक्तं द्वितीयावरणं श्रृणु॥ २७.९९ ॥
केशवो भगवान् रुद्रश्चन्द्रमा भास्करस्तथा॥
महात्मा च तथा ह्यात्मा ह्यन्तरात्मा महेश्वरः॥ २७.१०० ॥
परमात्मां ह्यणुर्जीवः पिङ्गलः पुरुषः पशुः॥
भोक्ता भूतपतिर्भीमो द्वितीयावरणे स्मृताः॥ २७.१०१ ॥
कथितश्चाणिमाव्यूहो लघिमाख्यं वदामि ते॥
श्रीकण्ठोन्तश्च सूक्ष्मश्च त्रिमूर्तिः शशकस्तथा॥ २७.१०२ ॥
अमरेशः स्थितीशश्च दारतश्च तथाष्टमः॥
प्रथमावरणं प्रोक्तं द्वितीयावरणं श्रृणु॥ २७.१०३ ॥
स्थाणुर्हरश्च दण्डेशो भौक्तीशः सुरपुङ्गवः॥
सद्योजातोऽनुग्रहेशः क्रूरसेनः सुरेश्वरः॥ २७.१०४ ॥
क्रोधीशश्च तथा चण्डः प्रचण्डः शिवएव च॥
एकरुद्रस्तथा कूर्मश्चैकनेत्रश्चतुर्मुखः॥ २७.१०५ ॥
द्वितीयावरणे रुद्राः षोडशैव प्रकीर्तिताः॥
कथितो लघिमाव्यूहो महिमां श्रृणुसुव्रत॥ २७.१०६ ॥
अजेशः क्षेमरुद्रश्च सोमोंऽशौ लाङ्गली तथा॥
दण्डारुश्चार्धनारी च एकान्तश्चान्त एव च॥ २७.१०७ ॥
पाली भुजङ्गनामा च पिनाकी खड्किरेव च॥
काम ईशस्तथा श्वेतो भृगुः षोडश वै स्मृताः॥ २७.१०८ ॥
कथितो महिमाव्यूहः प्राप्तिव्यूहं श्रृणुष्व मै॥
संवर्तो लकुलीशश्च वाडवो हस्तिरेव च॥ २७.१०९ ॥
चण्डयक्षो गणपतिर्महात्मा भृगुजोऽष्टमः॥
प्रथमावरणं प्रोक्तं द्वितीयावरणं श्रृणु॥ २७.११० ॥
त्रिविक्रमो महाजिह्वो ऋक्षः श्रीभद्र एव च॥
महादेवो दधीचश्च कुमारश्च परावरः॥ २७.१११ ॥
महादंष्ट्रः करालश्च सूचकश्च सुवर्धनः॥
महाध्वाङ्क्षो महानन्दो दण्डी गोपालकस्तथा॥ २७.११२ ॥
प्राप्तिव्यूहः समाख्यातः प्राकाम्यं श्रृणु सुव्रत॥
पुष्पदन्तो महानागो विपुलानन्दकारकः॥ २७.११३ ॥
शुक्लो विशालः कमलो बिल्वश्चारुम एव च॥
प्रथमावरणं प्रोक्तं द्वितीयावरणं श्रुणु॥ २७.११४ ॥
रतिप्रियः सुरेशानश्चित्राङ्गश्च सुदुर्जयः॥
विनायकः क्षेत्रपालो महामोहश्च जङ्गलः॥ २७.११५ ॥
वत्सपुत्रो महापुत्रो ग्रामदेशाधिपस्तथा॥
सर्वावस्थाधिपो देवो मेघनादः प्रचण्डकः॥ २७.११६ ॥
कालदूतश्च कथितो द्वितीयावरणं स्मृतम्॥
प्राकाम्यः कथितो व्यूह ऐश्वर्यं कथयामि ते॥ २७.११७ ॥
मङ्गला चर्चिका चैव योगेशा हरदायिका॥
भासुरा सुरमाता च सुन्दरी मातृकाष्टमी॥ २७.११८ ॥
प्रथमावरणे प्रोक्ता द्वितीयावरणे श्रृणु॥
गणाधिपश्च मन्त्रज्ञो वरदेवः षडाननः॥ २७.११९ ॥
विदग्धश्च विचित्रश्च अमोघोमोघ एव च॥
अश्वीरुद्रश्च सोमेशश्चोत्तमोदुम्बरस्तथा॥ २७.१२० ॥
नारसिंहश्च विजयस्तथा इन्द्रगुहः प्रभुः॥
अपाम्पतिश्च विधिना द्वितीयावरणं स्मृतम्॥ २७.१२१ ॥
ऐश्वर्यः कथितो व्यूहो वशित्वं पुनरुच्यते॥
गगनो भवनश्चैव विजयो ह्यजयस्तथा॥ २७.१२२ ॥
महाजयस्तथां गारो व्यङ्गारश्च महायशाः॥
प्रथमावरणे प्रोक्ता द्वितीयावरणे श्रृणु॥ २७.१२३ ॥
सुन्दरश्च प्रचण्डेशो महावर्णो महासुरः॥
महारोमा महागर्भः प्रथमः कनकस्तथा॥ २७.१२४ ॥
खरजो गरुडश्चैव मेघनादोऽथ गर्जकः॥
गजश्च च्छेदको बाहुस्त्रिशिखो मारिरेव च॥ २७.१२५ ॥
वशित्वं कथितो व्यूहः श्रृणु कामावसायिकम्॥
विनादो विकटश्चैव वसन्तोऽभय एव च॥ २७.१२६ ॥
विद्युन्महाबलश्चैव कमलो दमनस्तथा॥
प्रथमावरणं प्रोक्तं द्वितीयावरणं श्रृणु॥ २७.१२७ ॥
धर्मश्चातिबलः सर्पो महाकायो महाहनुः॥
सबलश्चैव भस्माङ्गी दुर्जयो दुरतिक्रमः॥ २७.१२८ ॥
वेतालो रौरवश्चैव दुर्धरो भोग एव च॥
वज्रः कालाग्निरुद्रश्च सद्योनादो महागुहः॥ २७.१२९ ॥
द्वितीयावरणं प्रोक्तं व्यूहश्चैवावसायिकः॥
कथितः षोडशो व्यूहो द्वितीयावरणं श्रृणु॥ २७.१३० ॥
द्वितीयावरणे चैव दक्षव्यूहे च शक्तयः॥
प्रथमावरणे चाष्टौ बाह्ये षोडश एव च॥ २७.१३१ ॥
मनोहरा महानादा चित्रा चित्ररथा तथा॥
रोहिणी चैव चित्राङ्गी चित्ररेखा विचित्रिका॥ २७.१३२ ॥
प्रथमावरणे प्रोक्ता द्वितीयावरणं श्रृणु॥
चित्रा विचित्ररूपा च शुभदा कामदा सुभा॥ २७.१३३ ॥
क्रूरा च पिङ्गला देवी खड्गिका लम्बिकासती॥
दंष्ट्राली राक्षसीध्वंसी लोलुपा लोहितामुखी॥ २७.१३४ ॥
द्वितीयावरणे प्रोक्तोः षोडशैव समासतः॥
दक्षव्यूहः समाख्यातो दाक्षव्यूहं श्रृणुष्व मे॥ २७.१३५ ॥
सर्वासती विश्वरूपा लम्पटा चामिषप्रिया॥
दीर्घदंष्ट्रा च वज्रा च लम्बोष्ठी प्राणहारिणी॥ २७.१३६ ॥
प्रथमावरणं प्रोक्तं द्वितीयावरणं श्रृणु॥
गजकर्णाश्वकर्णा च महाकाली सुभीषण॥ २७.१३७ ॥
वातवेगरवा घोरा घानाघनरवा तथा॥
वरघोषा महावर्णा सुघण्टा घण्टिका तथा॥ २७.१३८ ॥
घण्टश्वरी महाघोरा घोरा चैवातिघोरिका॥
द्वितीयावरणे चैव षोडशैव प्रकीर्तिताः॥ २७.१३९ ॥
दाक्षव्यूहः समाख्यातश्चाण्डव्यूहं श्रृणुष्वमे॥
अतिघण्टा चातिघोरा कराला करभा तथा॥ २७.१४० ॥
विभूतिर्भोगदा कान्तिः शङ्खिनी चाष्टमी स्मृता॥
प्रथमावरणे प्रोक्ता द्वितीयावरणे श्रृणु॥ २७.१४१ ॥
पत्रिणी चैव गान्धारी योगमाता सुपीवरा॥
रक्ता मालांशुका वीरा संहारी मांसहारिणी॥ २७.१४२ ॥
फलहारी जीवहारी स्वेच्छाहारी च तुण्डिका॥
रेवती रङ्गिणी सङ्गा द्वितीये षोडशैव तु॥ २७.१४३ ॥
चण्डव्यूहः समाख्यातश्चण्डाव्यूहस्तथोच्यते॥
चण्डी चण्डमुखी चण्डा चण्डवेगा महारवा॥ २७.१४४ ॥
भ्रुकुटी चण्डभूश्चैव चण्डरूपाष्टमी स्मृता॥
प्रथमावरणं प्रोक्तं द्वितीयावरणं श्रृणु॥ २७.१४५ ॥
चन्द्रघ्राणा बला चैव बलजिह्वा बलेश्वरी॥
बलवेगा महाकाया महाकोपा च विद्युता॥ २७.१४६ ॥
कङ्काली कलशी चैव विद्युता चण्डघोषिका॥
महाघोषा महारावा चण्डभाऽनङ्गचण्डिका॥ २७.१४७ ॥
चण्डायाः कथितो व्यूहो हरव्यूहं श्रृणुष्व मे॥
चण्डाक्षी कामदा देवी सूकरी कुक्कुटानना॥ २७.१४८ ॥
गान्धारी दन्दुभी दुर्गा सौमित्रा चाष्टमी स्मृता॥
प्रथमावरणं प्रोक्तं द्वितीयावरणं श्रृणु॥ २७.१४९ ॥
मृतोद्भवा महालक्ष्मीर्वर्णदा जीवरक्षिणी॥
हरिणी क्षीणजीवा च दण्डवक्त्रा चतुर्भुजा॥ २७.१५० ॥
व्योमचारी व्योमरूपा व्योमव्यापी शुभोदया॥
गृहचारी सुचारी च विषाहारी विषर्तिहा॥ २७.१५१ ॥
हरव्यूहः समाख्यातो हराया व्यूह उच्यते॥
जम्भाच्युता च कङ्कारी देविका दुर्धरावहा॥ २७.१५२ ॥
चण्डिका चपला चेति प्रथमावरणे स्मृताः॥
चञ्जिका चामरी चैव भण्डिका च शुभानना॥ २७.१५३ ॥
पिण्डिका मुण्डिका मुण्डा शाकिनी शाङ्करी तथा॥
कर्तरी भर्तरी चैव भागिनी यज्ञदायिनी॥ २७.१५४ ॥
यमदंष्ट्रा महादंष्ट्रा कराला चेति शक्तयः॥
हरायाः कथितो व्यूहः शौण्डव्यूहं शृणुष्व मे॥ २७.१५५ ॥
विकराली कराली च कालजङ्घा यशस्विनी॥
वेगा वेगवती यज्ञा वेदाङ्गा चाष्टमी स्मृता॥ २७.१५६ ॥
प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु॥
वज्रा शङ्खातिशङ्खा वा बला चैवाबला तथा॥ २७.१५७ ॥
अञ्जनी मोहिनी माया विकटाङ्गी नली तथा॥
गण्डकी दडकी घोणा शोणा सत्यवती तथा॥ २७.१५८ ॥
कल्लोला चेति ऋमशः षोडशैव यथाविधि॥
शौण्डव्यूहः समाख्यातः शौण्डाया व्यूह उच्यते॥ २७.१५९ ॥
दन्तुरा रौद्रभागा च अमृता सकुला शुभा॥
चलजिह्वार्यनेत्रा च रूपिणी दारिका तथा॥ २७.१६० ॥
प्रथमा वरणं प्रोक्तं द्वितीयावरणं श्रृणु॥
खादिका रूपनामा च संहारी च क्षमान्तका॥ २७.१६१ ॥
कण्डिनी पेषिणी चैव महात्रासा कृतान्तिका॥
दण्डिनी किङ्करी बिम्बा वर्णिनी चामलाङ्गिनी॥ २७.१६२ ॥
द्रविणी द्राविणी चैव शक्तयः षोडशैव तु॥
कथितो हि मनोरम्यः शौण्डाया व्यूहउत्तमः॥ २७.१६३ ॥
प्रथमाख्यं प्रवक्ष्यामि व्यूहं परमशोभनम्॥
प्लविनी प्लावनी शोभा मन्दा चैव मदोत्कटा॥ २७.१६४ ॥
मन्दाऽक्षेपा महादेवी प्रथमावरणे स्मृताः॥
कामसन्दीपिनी देवी अतिरूपा मनोहरा॥ २७.१६५ ॥
महावशा महाग्राहा विह्वला मदविह्वला॥
अरुणा शोषणा दिव्या रेवती भाण्डनायिका॥ २७.१६६ ॥
स्तम्भिनी घोररक्ताक्षी स्मररूपा सुघोषणा॥
व्यूहः प्रथम आख्यातः स्वायम्भुव यथा तथा॥ २७.१६७ ॥
कथितं प्रथमव्यूहं प्रवक्ष्यामि श्रृणुष्व मे॥
घोरा घोरतराघोरा अतिघोराघनायिका॥ २७.१६८ ॥
धावनी क्रोष्टुका मुण्डा चाष्टमी परिकीर्तिता॥
प्रथमावरणं प्रोक्तं द्वितीयावरणं श्रृणु॥ २७.१६९ ॥
भीमा भीमतरा भीमा शस्ता चैव सुवर्तुला॥
स्तम्भिनी रोदनी रौद्रा रुद्रवत्यचला चला॥ २७.१७० ॥
महाबला महाशान्तिः शाला शान्ता शिवाशिवा॥
बृहत्कक्षा महानासा षोडशैव प्रकीर्तिताः॥ २७.१७१ ॥
प्रथमायाः समाख्यातो मन्मथव्यूह उच्यते॥
तालकर्णी च बाला च कल्याणी कपिला शिवा॥ २७.१७२ ॥
इष्टिस्तुष्टिः प्रतिज्ञा च प्रथमावरणे स्मृताः॥
ख्यातिः पुष्टिकरी तुष्टिर्जला चैव श्रुतिर्धृतिः॥ २७.१७३ ॥
कामदा शुभदा सौम्या तेजिनी कामतन्त्रिका॥
धर्मा धर्मवशा शीला पापहा धर्मवर्धिनी॥ २७.१७४ ॥
मन्मथः कथितो व्यूहो मन्मथायाः श्रृणुष्व मे॥
धर्मरक्षा विधाना च धर्मा धर्मवती तथा॥ २७.१७५ ॥
सुमतिर्दुर्मतिर्मेधा विमला चाष्टमी स्मृता॥
प्रथमावरणं प्रोक्तं द्वितीयावरणं श्रृणु॥ २७.१७६ ॥
शुद्धिर्बुद्धिर्द्युतिः कान्तिर्वर्तुला मोहवर्धिनी॥
बला चातिबला भीमा प्राणवृद्धिकरी तथा॥ २७.१७७ ॥
निर्लज्जा निर्घृणा मन्दा सर्वपापक्षयङ्करी॥
कपिला चातिविधुरा षोडशैताः प्रकीर्तिताः॥ २७.१७८ ॥
मन्मतायिक उक्तस्ते भीमव्यूहं वदामि च॥
रक्ता चैव विरक्ता च उद्वेगा शोकवर्धिनी॥ २७.१७९ ॥
कामा तृष्णा क्षुधा मोहा चाष्टमी परिकीर्तिता॥
प्रथमावरणं प्रोक्तं द्वितीयावरणं श्रुणु॥ २७.१८० ॥
जया निद्रा भयालस्या जलतृष्णोदरी दरा॥
कृष्णा कृष्णाङ्गिनी वृद्धा शुद्धोच्छिष्टाशनी वृषा॥ २७.१८१ ॥
कामना शोभिनी दग्धा दुःखदा सुखदावली॥
भीमव्यूहः समाख्यातो भीमायीव्यूह उच्यते॥ २७.१८२ ॥
आनन्दा च सुनन्दा च महानन्दा सुभङ्करी॥
वतिरागा महोत्साहा जितरागा मनोरता॥ २७.१८३ ॥
प्रथमावरणं प्रोक्तं द्वितीयावरणं शुणु॥
मनोन्मनी मनःक्षोभा मदोन्मत्ता गदाकुला॥ २७.१८४ ॥
मन्दगार्भा महाभासा कामानन्दा सुवुह्वला॥
महावेगा सुवेगा च महाभोगा क्षयावहा॥ २७.१८५ ॥
क्रमिणी क्रमिणी वक्रा द्वितीयावरणे स्मृताः॥
कथितं तव भीमायीव्यूहं परमशोभनम्॥ २७.१८६ ॥
शाकुनं कथयाम्याद्य स्वायम्भुव मनोत्सुकम्॥
योगा वेगा सुवेगा च अतिवेगा सुवासिनी॥ २७.१८७ ॥
देवी मनोरया वेगा जलावर्ता च धीमती॥
प्रथमावरण्णं प्रोक्तं द्वितीयावरणं श्रृणु॥ २७.१८८ ॥
रोधिनी क्षोभिणी बाला विप्राशेषासुशोषिणी॥
विद्युता भासिनी देवी मनोवेगा च चापला॥ २७.१८९ ॥
विद्युज्जिह्वा महाजिह्वा भृकुटीकुटिलानना॥
फुल्लज्वाला महाज्वाला सुज्वाला च क्षयान्तिका॥ २७.१९० ॥
शाकुनः कथितो व्यूहः शाकुनायाः श्रृणुष्वमे॥
ज्वालिनी चैव भस्माङ्गी तथा भस्मान्तगा तता॥ २७.१९१ ॥
भाविनी च प्रजा विद्या ख्यातिश्चैवाष्टमी स्मृता॥
प्रथमावरणं प्रोक्तं द्वितीयावरणं श्रृणु॥ २७.१९२ ॥
उल्लेखा च पताका च भोगाभोगवती खगा॥
भोगभोगव्रता योगा भोगाख्या योगपारगा॥ २७.१९३ ॥
ऋद्धिर्बुद्धिर्धृतिः कान्तिः स्मृतिः साक्षाच्छ्रुतिर्धरा॥
शाकुनाया महाव्यूहः कथितः कामदायकः॥ २७.१९४ ॥
स्वायम्भुव श्रृणु व्यूहं सुमत्याख्यं सुशोभनम्॥
परेष्टा च परा दृष्टा ह्यमृता फलनाशिनी॥ २७.१९५ ॥
हिरण्याक्षी सुवर्णाक्षी देवी साक्षात्कपिञ्जला॥
कामरेखा च कथितं प्रथमावरणं श्रृणु॥ २७.१९६ ॥
रत्नद्वीपा च सुद्वीपा रत्नदा रत्नमालिनी॥
रत्नशोभा सुशोभा च महाशोभा महाद्युतिः॥ २७.१९७ ॥
शाम्बरी बन्धुरा ग्रन्थिः पादकर्णा करानना॥
हयग्रीवा च जिह्वा च सर्वभासोति शक्तयः॥ २७.१९८ ॥
कथितः मुमतिव्यूहः समुत्या व्यूह उच्यते॥
सर्वाशी च महाभक्षा महादंष्ट्रातिरौरवा॥ २७.१९९ ॥
विस्फुलिङ्गा विलिङ्गाच कृतान्ता भास्करानना॥
प्रथमावरणं प्रोक्तं द्वितीयावरणं श्रृणु॥ २७.२०० ॥
रागा रङ्गावती श्रेष्ठा महाक्रोधा च रौरवा॥
क्रोधनी वसनीचैव कलहा च महाबला॥ २७.२०१ ॥
कलन्तिका चतुर्भेदा दुर्गा वै दुर्गमानिनी॥
नाली सुनाली सौम्या च इत्येवं कथितं मया॥ २७.२०२ ॥
गोपव्यूहं वदाम्यत्र श्रृणु स्वायम्भुवाखिलम्॥
पाटली पाटवी चैव पाटी विदिपिटा तथा॥ २७.२०३ ॥
कङ्कटा सुपटा चैव प्रघटा च घटोद्भवा॥
प्रथमावरणं चात्र भाषया कथितं मया॥ २७.२०४ ॥
नादाक्षी नादरूपा च सर्वकारी गमाऽगमा॥
अनुचारी सुचारी च चण्डनाडी सुवाहिनी॥ २७.२०५ ॥
सुयोगा च वियोगा च हंसाख्या च विलासिनी॥
सर्वगा सुविचारा च वञ्चनी चेति शक्तयः॥ २७.२०६ ॥
गोपव्यूहः समाख्यातो गोपायीव्यूह उच्यते॥
भेदिनी च्चेदिनी चैव सर्वकारी क्षुधाशनी॥ २७.२०७ ॥
उच्छुष्मा चैव गान्धारी भस्माशी वडवानला॥
प्रथमावरणं चैव द्वितीयावरणं श्रृणु॥ २७.२०८ ॥
अन्धा बाह्वासिनी बाला दीक्षपामा तथैव च॥
अक्षात्र्यक्षा च हृल्लेखा हृद्गता मायिकापरा॥ २७.२०९ ॥
आमयासादिनीभिल्ली सह्यासह्या सरस्वती॥
रुद्रसक्तिर्महाशक्तिर्महामोहा च गोनदी॥ २७.२१० ॥
गोपायी कथितो व्यूहो नन्दव्यूहं वदामि ते॥
नन्दिनी च निवृत्तिश्च प्रतिष्ठा च यथाक्रमम्॥ २७.२११ ॥
विद्यानासा खग्रसिनी चामुण्डा प्रियदर्शिनी॥
प्रथमावरणं प्रोक्तं द्वितीयावरणं श्रृणु॥ २७.२१२ ॥
गृह्या नारायणी मोहा प्रजा देवी च चक्रिणी॥
कङ्कटा च तथा काली शिवाद्योषा ततः परम्॥ २७.२१३ ॥
विरामा या च वागीशी वाहिनीभीषणी तथा॥
सुगमा चैव निर्दिष्टा द्वितयिवरणे स्मृता॥ २७.२१४ ॥
नन्दव्यूहो मया ख्यातो नन्दाया व्यूह उच्यते॥
विनायकी पूर्णिमा च रङ्कारी कुण्डली तथा॥ २७.२१५ ॥
इच्छा कपालिनी चैव द्वीपिनी च जयन्तिका॥
प्रथमावरणे चाष्टौ शक्तयः परिकीर्तिताः॥ २७.२१६ ॥
प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु॥
पावनी चाम्बिका चैव सर्वात्मा पूतना तथा॥ २७.२१७ ॥९
छगली मोदिनी साक्षाद्देवी लम्बोदरी तथा॥
संहारि कालिनी चैव कुसुमा च यताक्रमम्॥ २७.२१८ ॥
शुक्रा तारा तथा ज्ञाना क्रिया गायत्रिका तथा॥
सावित्री चेति विधिना द्वितीया वरणं स्मृतम्॥ २७.२१९ ॥
नन्दायाः कथितो व्यूहः पैतामहमतः परम्॥
नन्दिनी चैव फेत्कारी क्रोधा हंसा षडङ्गुला॥ २७.२२० ॥
आनन्दा वसुदुर्गा च संहारा ह्यमृताष्टमी॥
प्रथमावरणं प्रोक्तं द्वितीयावरणं श्रृणु॥ २७.२२१ ॥
कुलान्तिकानला चैव प्रचण्डा मर्दिनी तथा॥
सर्वभूताभया चैव दया च वडवामुखी॥ २७.२२२ ॥
लम्पटा पन्नगा देवी कुसुमा विपुलान्तका॥
केदारा च तथा कूर्मा दुरिता मन्दरोदरी॥ २७.२२३ ॥
खड्गचक्रोतिविधिना द्वितीयावरणं स्मृतम्॥
व्यूहः पैतामहः प्रोक्तो धर्मकामार्थमुक्तिदः॥ २७.२२४ ॥
पितामहाया व्यूहं च कथयामि श्रृणुष्व मे॥
वज्रा च नन्दना शावराविका रिपुभेदिनी॥ २७.२२५ ॥
रूपा चतुर्था योगा च प्रथमावरणे स्मृताः॥
भूता नादा महाबाला खर्परा च तथा परा॥ २७.२२६ ॥
भस्मा कान्ता तथा वृष्टिर्द्विभुजा ब्रह्मरूपिणी॥
सैह्या वैकारिका जाता कर्ममोटी तथापरा॥ २७.२२७ ॥
महामोहा महामाया गान्धारी पुष्पमालिनी॥
शब्दापी च महाघोषा षोडशैव तथान्तिमे॥ २७.२२८ ॥
सर्वाश्च द्विभुजा देव्यो बालभास्करसन्निभाः॥
पद्मशङ्खधराः शान्ता रक्तस्रग्वस्त्रभूषणाः॥ २७.२२९ ॥
सर्वाभरणसम्पूर्णा मुकुटाद्यैरलङ्कृताः॥
मुक्ताफलमयैर्दिव्यै रत्नचित्रैर्मनोरमैः॥ २७.२३० ॥
विभूषिता गौरवर्णाध्येया देव्यः पृथक्पृथक्॥
एवं सहस्रकलशं ताम्रजं मृन्मयं तु वा॥ २७.२३१ ॥
पूर्वोक्तलक्षणैर्युक्तं रुद्रक्षेत्रे प्रतिष्ठितम्॥
भवाद्यैर्विष्णुना प्रोक्तैर्नाम्नां चैव सहस्रकैः॥ २७.२३२ ॥
सम्पूज्य विन्यसेदग्रे सेचयेद्बाणविग्रहम्॥
अभिषिच्य च विज्ञाप्य सेचयेत्पृथिवीपतिम्॥ २७.२३३ ॥
एवं सहस्रकलशं सर्वसिद्धिफलप्रदम्॥
चत्वारिंशन्महाव्यूहं सर्वलक्षणलक्षितम्॥ २७.२३४ ॥
सर्वेषां कलशं प्रोक्तं पूर्ववद्धेमनिर्मितम्॥
सर्वे गन्धाम्बुसम्पूर्णपञ्चरत्नसमन्विताः॥ २७.२३५ ॥
तथा कनकसंयुक्ता देवस्य घृतपूरिताः॥
क्षीरेण वाथ दध्ना वा पञ्चगव्येन वा पुनः॥ २७.२३६ ॥
ब्रह्मकूर्चेन वा मध्यमभिषेको विधीयते॥
रुद्राध्यायेन रुद्रस्य नृपतेःश्रृणु सत्तम॥ २७.२३७ ॥
अघोरेभ्योऽथ घोरेभ्यो घोरगोरतरेभ्यः॥
सर्वेभ्यः सर्वशर्वेभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः॥ २७.२३८ ॥
मन्त्रेणानेन राजानं सेचयेदभिषेचितम्॥
होमं च मन्त्रणानेन अघोरेणाघहारिणा॥ २७.२३९ ॥
प्रागाद्यं देवकुण्डे वा स्थाण्डिले वा घृतादिभिः॥
समिदाज्यचरुं लाजशालिनीवारतण्डुलैः॥ २७.२४० ॥
अष्टोत्तरशतं हुत्वा राजानमधिवासयेत्॥
पुण्याहं स्वस्ति रुद्राय कौतुकं हेमनिर्मितम्॥ २७.२४१ ॥
भसितं च मृणालेन बन्धयेद्दक्षिणे करे॥
त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम्॥ २७.२४२ ॥
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात्॥
मन्त्रेणानेन राजानं सेचयेद्वाथ होमयेत्॥ २७.२४३ ॥
सर्वद्रव्याभिषेकं च होमद्रव्यैर्यथाक्रमम्॥
प्रागाद्यं ब्रह्मभिः प्रोक्तं सर्वद्रव्यैर्यथाक्रमम्॥ २७.२४४ ॥
तत्पुरषाय विद्महे महादेवाय धीमहि॥
तन्नो रुद्रः प्रचोदयात्॥ २७.२४५ ॥
स्वाहान्तं पुरुषेणैवं प्राक्कुण्डं होमयोद्द्विजः॥
अघोरेण च याम्ये च होमयेत्कृष्णवाससा॥ २७.२४६ ॥
वामदेवाय नमो ज्येष्ठाय नमः श्रेष्ठाय नमो रुद्राय नमः॥
इत्याद्युक्तक्रमेणैव जुहुयात्पश्चिमे नरः॥ २७.२४७ ॥
सद्येन पश्चिमे होमः सर्वद्रव्यैर्यथाक्रमम्॥
सद्योजातं प्रपद्यामि सद्योजाताय वै नमः॥ २७.२४८ ॥
भवे भवेनाति भवे भवस्व मां भवोद्भवाय नमः॥
स्वाहादं जुहुयादग्नौ मन्त्रेणानेन बुद्धिमान्॥ २७.२४९ ॥
आग्नेय्यां च विधानेन ऋचा रौद्रेण होमयेत्॥
जातवेदसे सुनवाम सोममित्यादिना ततः॥
नैर्ऋते पूर्ववद्द्रव्यैः सर्वैर्होमो विधीयते॥ २७.२५० ॥
मन्त्रेणानेन दिव्येन सर्वसिद्धिकरेण च॥
निमि निशि दिश स्वाहा खड्ग राक्षस भेदन॥ २७.२५१ ॥
रुधिराज्यार्द्र नैर्ऋत्यै स्वाहा नमः स्वधानमः॥
यथेष्टं विधिना द्रव्यैर्मत्रेणानेन होमयेत्॥ २७.२५२ ॥
यम्यां हि विविधैर्द्रव्यैरीशानेन द्विजोत्तमाः॥
ईशान्यामथ पूर्वेक्तैर्द्रव्यैर्होममताचरेत्॥ २७.२५३ ॥
इशानाय कद्रुद्राय प्रचेतसे त्र्यम्बकाय शर्वाय तन्नो रुद्रः प्रचोदयात्॥ २७.२५४ ॥
प्रधानं पूर्ववद्द्रव्यैरीशानेन द्विजोत्तमाः॥
प्रतिद्रव्यं सहस्रेण जुहुयान्नृपसन्निधौ॥ २७.२५५ ॥
स्वयं वा जुहुयादग्नौ भूपतिः शिवात्सलः॥
ईशानः सर्वविद्यानामीश्वीरः सर्वभूतानां ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा शिवो मे अस्तु सदा शिवोम्॥ २७.२५६ ॥
प्रायाश्चित्तमघोरेण शेषं सामान्यमाचरेत्॥
कृताधिवासं राजानं शङ्खभेर्यादिनिस्वनैः॥ २७.२५७ ॥
जयशब्दरवैर्दिव्यैर्वेदघोषैः सुशोभनैः॥
सेचयेत्कूर्चतोयेन प्रोक्षयेद्वा नृपोत्तमम्॥ २७.२५८ ॥
रुद्राध्यायेन विधिना रुद्रभस्माङ्गधारिणम्॥
शङ्खचामरभेर्याद्यं छत्रं चन्द्रसमप्रभम्॥ २७.२५९ ॥
शिबिकां वैजयन्तीं च साधयेन्नृपतेः शुभाम्॥
राज्याभिषेकयुक्ताय क्षत्रियायेश्वराय वा॥ २७.२६० ॥
नृपचिह्नानि नान्येषां क्षत्रियाणां विधीयते॥
प्रमाणं चैव सर्वेषां द्वादशाङ्गुलमुच्यते॥ २७.२६१ ॥
पलाशोदुम्बराश्वत्थवटाः पूर्वादितः क्रमात्॥
तोरणाद्यानि वै तत्र पट्टमात्रेण पट्टिकाः॥ २७.२६२ ॥
अष्टमाङ्गुलसंयुक्तदर्भमालासमावृतम्॥
दिग्ध्वजाष्टकसंयुक्तं द्वारकुम्भैः सुशोभनम्॥ २७.२६३ ॥
हेमतोरणकुम्भैश्च भूषितं स्नापयेन्नृपम्॥
सर्वोपरि समासीनं शिवकुम्भेन सेचयेत्॥ २७.२६४ ॥
तन्महेशाय विद्महे वाग्विशुद्धाय धीमहि॥
तन्नः शिवः प्रचोदयात्॥ २७.२६५ ॥
मन्त्रेणानेन विधिना वर्धन्या गौरिगीतया॥
रुद्राध्यायेन वा सर्वमघोरायाथ वा पुनः॥ २७.२६६ ॥
दिव्यैराभरणैः शुक्लैर्मुकुटाद्यैः सुकल्पितैः॥
क्षौमवस्त्रैश्च राजानं तोषयेन्नियतं शनैः॥ २७.२६७ ॥
अष्टषष्टिपलेनैव हेम्ना कृत्वा सुदर्शनम्॥
नवरत्नैरलङ्कृत्य दद्याद्वै दक्षिणाः गुरोः॥ २७.२६८ ॥
दशधेनु सवस्त्रं च दद्यात्क्षेत्रं सुशोभनम्॥
शतद्रोणतिलं चैव शतद्रोणांश्च तण्डुलान्॥ २७.२६९ ॥
शयनं वाहनं शय्यां सोपधानां प्रदापयेत्॥
योगिनां चैव सर्वेषां त्रिंशत्पलमुदाहृतम्॥ २७.२७० ॥
अशेषांश्च तदर्धेन शिवभक्तांस्तदर्धतः॥
महापूजां ततः कुर्यान्महादेवस्य वै नृपः॥ २७.२७१ ॥
एवं समासतः प्रोक्तं जयसेचनमुत्तमम्॥
एवं पुराभिषिक्तस्तु शक्रः शक्रत्वमागतः॥ २७.२७२ ॥
ब्रह्मा ब्रह्मत्वमापन्नो विष्णुर्विष्णुत्वमागतः॥
अम्बिका चाम्बिकात्वं च सौभाग्यमतुलं तथा॥ २७.२७३ ॥
सावित्री च तथा लक्ष्मीर्देवी कात्यायनी तथा॥
नन्दिनाथ पुरा मृत्यू रुद्राध्यायेन वै जितः॥ २७.२७४ ॥
अभिषिक्तोऽसुरः पूर्वं तारकाख्यो महाबलः॥
विद्युन्माली हिरण्याक्षो विष्णुना वै विनिर्जितः॥ २७.२७५ ॥
नृसिंहेन पुरा दैत्यो हिरण्यकशिपुर्हतः॥
स्कन्देन तारकाद्याश्च कौशिक्या च पुराम्बया॥ २७.२७६ ॥
सुन्दोपसुन्दतनयौ जितौ दैत्येन्द्रपूजितौ॥
वसुदेवसुदेवौ तु निहतौ कृतकृत्यया॥ २७.२७७ ॥
स्नानयोगेन विधिना ब्रह्मणा निर्मितेन तु॥
दैवासुरे दितिसुता जिता देवैरनिन्दिताः॥ २७.२७८ ॥
स्नाप्यैव सर्वभूपैश्च ततान्यैरपि भूसुरैः॥
प्राप्ताश्च सिद्धयो दिव्यानात्र कार्या विचारणा॥ २७.२७९ ॥
अहोऽभिषेकमाहात्म्यमहो शुद्धसुभाषितम्॥
येनैवमभिषिक्तेन सिद्धैर्मृत्युर्जितस्त्विति॥ २७.२८० ॥
कल्पकोटिशतेनापि यत्पापं समुपार्जितम्॥
स्नात्वैवं मुच्यते राजा सर्वपापैर्न संशयः॥ २७.२८१ ॥
व्या
धितो मुच्यते राजा क्षयकुष्ठादिभिः पुनः॥
स नित्यं विजयी भूत्वा पुत्रपौत्रादिभिर्युतः॥ २७.२८२ ॥
जनानुरागसम्पन्नो देवराज इवापरः॥
मोदते पापहीनश्च प्रियया धर्मनिष्ठया॥ २७.२८३ ॥
उद्देसमात्रं कथितं फलं परमशोभनम्॥
नृपाणामुपकाराय स्वायम्भुव मनो मया॥ २७.२८४ ॥
इति श्रीलिङ्ङ्गमहापुराणे उत्तरभागे अभिषेकविधिर्नाम सप्तविंशोऽध्यायः॥ २७ ॥