शैलादिरुवाच॥
स्नानयागादिकर्माणि कृत्वा वै भस्करस्य च॥
शिवस्नानं ततः कुर्याद्भस्मस्नानं शिवार्चनम्॥ २२.१ ॥
षष्ठेन मृदमादाय भक्त्या भूमौन्यसेन्मृदम्॥
द्वितीयेन तथाभ्युक्ष्य तृतीयेन च शोधयेत्॥ २२.२ ॥
चतुर्थेनैव विभजेन्मलमेकेन शोधयेत्॥
स्नात्वा षष्ठेन तच्छेषां मृदं हस्तगतां पुनः॥ २२.३ ॥
त्रिधा विभज्य सर्वं च चतुर्भिर्मध्यमं पुनः॥
षष्ठेन सप्तवाराणि वामं मूलेन चालभेत्॥
दशवारं च षष्ठेन दिशो बन्धः प्रकीर्तितः॥ २२.४ ॥
वामेन तीर्थं सव्येन शरीरमनुलिप्य च॥
स्नात्वा सर्वैःस्मरन् भानुमभिषेकं समाचरेत्॥ २२.५ ॥
श्रृङ्गेण पर्णपुटकैः पालाशेन दलेन वा॥
सौरै रेभिश्च विविधैः सर्वासिद्धिकरैः शुभैः॥ २२.६ ॥
सारौणि च प्रवक्ष्यामि बाष्कलाद्यानि सुव्रत॥
अङ्गानि सर्वदेवेषु सारभूतानि सर्वतः॥ २२.७ ॥
ॐ भूः ॐभुवः ॐस्वः ॐ महः ॐ जनः ॐ तपः ॐसत्यम् ॐ ऋतम् ॐ ब्रह्मा।
नवाक्षरमयं मन्त्रं बाष्कलं परिकीर्तितम्॥
न क्षरतीति लोकानि ऋतमक्षरमुच्यते॥
सत्यमक्षरीमत्युक्तं प्रणवादिनमोन्तकम्॥ २२.८ ॥
ॐ भूर्भवः सुवः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि॥
ॐ नमः सूर्याय खखोल्काय नमः॥ २२.९ ॥
मूलमन्त्रमिदं प्रोक्तं भास्करस्य महात्मनः॥
नवाक्षरेण दीप्तास्यं मूलमन्त्रेण भास्करम्॥ २२.१० ॥
पूजयेन्द्रगमन्त्राणि कथयामि यताक्रमम्॥
वेदादिभिः प्रभूताद्यं प्रणवेन च मध्यमम्॥ २२.११ ॥
ॐ भूः ब्रह्म हृदयाय ॐ भुवः विष्णुशिरसे ॐस्वः रुद्रशिखायै ॐभूर्भूवः स्वः ज्वालामालिनीशिखयै ॐ महः महेश्वराय कवचाय ॐजनः शिवाय नेत्रेभ्यः
ॐ तपः तापकाय अस्त्राय फट् मन्त्राणि कथितान्येवं सौराणि विविधानि च॥
एतैः श्रृङ्गादिभिः पात्रैः स्वात्मानमाभेषेटयेत्॥ २२.१२ ॥
ताम्रकुम्भेन वा विप्रः क्षत्रियो वैश्य एव च॥
सकुसेन सपुष्पेण मन्त्रैः सर्वै समाहितः॥ २२.१३ ॥
रक्तवस्त्रपरीधानः स्वाचामेद्विधिपूर्वकम्॥
सूर्यश्चोति दिवा रात्रौ चाग्निश्चेति द्विजोत्तमः॥ २२.१४ ॥
आपः पुनन्तु मध्याह्ने मन्त्राचमनमुच्यते॥
षष्ठेन शुद्धिं कृत्वैव जपेदाद्यमनुत्तमम्॥ २२.१५ ॥
वौषडन्तं तथा मूलं नवाक्षरमनुत्तमम्॥
करशाखां तथाङ्गुष्ठमध्यमानामिकां न्यसेत्॥ २२.१६ ॥
तले च तर्जन्यङ्गुष्ठं मुष्टिभागानि विन्यसेत्॥
नवाक्षरमयं देहं कृत्वाङ्गैरपि पावितम्॥ २२.१७ ॥
सूर्योऽहमिति सञ्चिन्त्य मन्त्रैरेतैर्यथाक्रमम्॥
वामहस्तगतैरद्भिर्गन्धसिद्धार्थकान्वितैः॥ २२.१८ ॥
कुशपुञ्जेन चाभ्युक्ष्य मूलाग्रैरष्टधा स्थितैः॥
आपो हिष्ठादिभिश्चैव शेषमाघ्राध वै जलम्॥ २२.१९ ॥
वामनासापुटेनैव देहे सम्भावयेच्छिवम्॥
अर्घ्यमादाय देहस्थं सव्यनासापुटेन च॥ २२.२० ॥
कृष्णवर्णेन बाह्यस्थं भावयेच्च शिलागतम्॥
तर्पयेत्सर्वदेवेभ्य ऋषिभ्यश्च विशेषतः॥ २२.२१ ॥
भूतेभ्यश्च पितृभ्यश्च विधिनार्घ्यं च दापयेत्॥
व्यापिनिं च परां ज्योत्स्नां सन्ध्यां सम्यगुपासयेत्॥ २२.२२ ॥
प्रातर्मध्याह्नसायाह्ने अर्घ्यं चैव निवेदयेत्॥
रक्तचन्दनतोयेन हस्तमात्रेण मण्डलम्॥ २२.२३ ॥
सुवृत्तं कल्पयेद्भूमौ प्रार्थयेत द्विजोत्तमाः॥
प्राङ्मुखस्ताम्रपात्रं च सगन्धं प्रस्थापूरितम्॥ २२.२४ ॥
पूरयेद्गन्धतोयेन रक्तचन्दनकेन च॥
रक्तपुष्पैस्तिलैश्चैव कुशाक्षतसमन्वितैः॥ २२.२५ ॥
दूर्वापामार्गगव्येन केवलेन घृतेन च॥
आपूर्य मूलमन्त्रेण नवाक्षरमयेन च॥
जानुभ्यां धरणीं गत्वा देव देवं नमस्य च॥ २२.२६ ॥
कृत्वा शिरसि तत्पात्रमर्घ्य मूलेन दापयेत्॥
अश्वमेधायुतं कृत्वा यत्फलं परिकीर्तितम्॥ २२.२७ ॥
तत्फलं लभते दत्त्वा सौरार्घ्यं सर्वसम्मतम्॥
दत्त्वैवार्घ्यं यजेद्भक्त्या देवदेवं त्रियम्बकम्॥ २२.२८ ॥
अथवा भास्करं चेष्ट्वा आग्नेयं स्नानमाचरेत्॥
पूर्ववद्वै शिवस्नानं मन्त्रमात्रेण भेदितम्॥ २२.२९ ॥
दन्तधावनपूर्वं च स्नानं सौरं च शाङ्करम्॥
विघ्नेशं वरुणं चैव गुरुं तीर्थं समर्चयेत्॥ २२.३० ॥
बद्ध्वा पद्मासनं तीर्थे तथा तीर्थं समर्चयेत्॥
तीर्थं सङ्गृह्य विधिना पूजास्थानं प्रविश्य च॥ २२.३१ ॥
मार्गेणार्घ्यपवित्रेण तदाक्रम्य च पादुकम्॥
पूर्ववत्करविन्यासं देहविन्यासमाचरेत्॥
तीर्थं सङ्गृह्य विधिना पूजास्थानं प्रविस्य च॥ २२.३२ ॥
अर्घ्यस्य सादनं चैव समासात्परिकीर्तितम्॥
बद्ध्वा पद्मासनं योगी प्राणायामं समभ्यसेत्॥ २२.३३ ॥
रक्तपुष्पाणि सङ्गृह्य कमलाद्यानि भावयेत्॥
आत्मनो दक्षिणे स्थाप्य जलभाण्डं च वामतः॥ २२.३४ ॥
ताम्रपात्राणि सौराणि सर्वकामार्थसिद्धये॥
आर्घ्यपात्रं समादाय प्रक्षाल्य च यथाविधि॥ २२.३५ ॥
पूर्वोक्तेनाम्बुना सार्धं जलभाण्डे तथैव च॥
अस्त्रोदकेन चैवार्घ्यमर्घ्यद्रव्यसमन्वितम्॥ २२.३६ ॥
संहितामन्त्रितं कृत्वा सम्पूज्य प्रथमेन च॥
तुरीयेणावगुण्ठ्यैव स्थापयेदात्मनो परि॥ २२.३७ ॥
पाद्यमाचमनीयं च गन्धपूष्पसमन्वितम्॥
अम्भसा शोधिते पात्रे स्तापयेत्पूर्ववत्पृथक्॥
संहितां चैव विन्यस्य कवचेनावगुण्ठ्यच॥ २२.३८ ॥
अर्घ्याबुना समभ्युक्ष्य द्रव्याणि च विशेषतः॥
अम्भसा शोधिते पात्रे स्थापयेत्पूर्वनमस्कृतम्॥ २२.३९ ॥
आदित्यो वै तेज ऊर्जोबलं यशो विविर्धति॥
इत्यादिना नमस्कृत्य कल्पयेदासनं प्रभोः॥ २२.४० ॥
प्रभूतं विमलं सारमाराव्यं परमं सुखम्॥
आग्नोय्यादिषु कोणेषुमध्यमान्तं हृदान्यसेत्॥ २२.४१ ॥
अङ्गं प्रविन्यसेच्चैव बीजमङ्कुरमेव च॥
नालं सुषिसंयुक्तं सूत्रकण्टकसंयुतम्॥ २२.४२ ॥
दलं दलाग्रं सुश्वेतं हेमाभं रक्तमेव च॥
कर्णिकाकेसरोपेतं दीप्ताद्यैः शक्तिभिर्वृतम्॥ २२.४३ ॥
दीप्ता सूक्ष्मा जया भद्रा विभूतिर्विमलाक्रमात्॥
अघोरा विकृता चैव दीप्ताद्याश्चाष्टशक्तयः॥ २२.४४ ॥
भास्कराभमुखाः सर्वाः। कृताञ्जलिपुटाः शुभाः॥
अथवा पद्महस्ता वा सर्वाभरणभूषिताः॥ २२.४५ ॥
मध्यतो वरदां देवीं स्थापयेत्सर्वमुखीम्॥
आवाहयेत्ततो देवीं भास्करं परमेश्वरम्॥ २२.४६ ॥
नवाक्षरेण मन्त्रेण बाष्कलोक्तेन भास्करम्॥
आवाहने च सान्निध्यमनेनैव विधीयते॥ २२.४७ ॥
मुद्रा च पद्ममुद्राख्या भस्करस्य महात्मनः॥
मूले नार्घ्यं ततो दद्यात्पाद्यमाचमनं पृथक्॥ २२.४८ ॥
पुनरर्घ्यप्रदानेन बाष्कलेन यताविधि॥
रक्तपद्मानि पुष्पाणि रक्तचन्दनमेव च॥ २२.४९ ॥
दीपधूपादिनैवेद्यं मुखावासादिरेव च॥
ताम्बूलवर्तिदीपाद्यं बाष्कलेन विधीयते॥ २२.५० ॥
आग्नोय्यां च तथैशान्यां नैर्ऋत्यां वायुगोचरे॥
पूर्वस्यां पश्चिमे चैव पट्प्रकारं विधीयते॥ २२.५१ ॥
नेत्रान्तं विधिनाऽभ्यर्च्य प्रणवादिनमोन्तकम्॥
कर्णिकायां प्रविन्यस्य रूपकध्यानमाचरेत्॥ २२.५२ ॥
सर्वे विद्युत्प्रभाः शान्ता रौद्रमस्त्रं प्रकीर्तितम्॥
दंष्ट्राकरालवदनं ह्यष्टमूर्ति भयङ्करम्॥ २२.५३ ॥
वरदं दक्षिणं हस्तं वामं पद्मविभूषितम्॥
सर्वाभरणसम्पन्ना रक्तस्रगनुलेपनाः॥ २२.५४ ॥
रक्ताम्बरधराः सर्वा मूर्तयस्तस्य संस्थिताः॥
समण्डलो महादेवः सिन्दूरारुणविग्रहः॥ २२.५५ ॥
पद्महस्तोऽमृतास्यश्च द्विहस्तनयनः प्रभुः॥
रक्ताभरणसंयुक्तो रक्तस्रगनुलेपनः॥ २२.५६ ॥
इत्थंरूपधरं ध्यायेद्भास्करं भुवनेश्वरम्॥
पद्मबाह्ये शुभं चात्र मण्डलेषु समन्ततः॥ २२.५७ ॥
सोममङ्गारकं चैव बुधं बुद्धिमतांवरम्॥
बृहस्पतिं महाबुद्धिं रुद्रपुत्रं च भार्गवम्॥ २२.५८ ॥
शनैश्चरं तथा राहुं केतुं धूम्रं प्रकीर्तितम्॥
सर्वे द्विनेत्रा द्विभुजा राहुश्चोर्ध्वशरीरधृक्॥ २२.५९ ॥
विवृत्तास्योञ्जलिं कृत्वा भ्रुकुटीलेक्षणः॥
शनैश्चरश्च दंष्ट्रास्यो वरदाभयहस्तधृक्॥ २२.६० ॥
स्वैःस्वैर्भावैः स्वनाम्ना च प्रणवादिनमोन्तकम्॥
पूजनीयाः प्रयत्नेन धर्मकामार्थसिद्धये॥ २२.६१ ॥
सप्तसप्तगणांश्चैव बहिर्देवस्य पूजयेत्॥
ऋषयो देवगन्धर्वाः पन्नगाप्सरसां गणाः॥ २२.६२ ॥
ग्रामण्यो यातुधानाश्च तथा यक्षाश्च मुख्यतः॥
सप्ताश्वान् पूजयेदग्रे सप्तच्छन्दोमयान् विभोः॥ २२.६३ ॥
वालखिल्यगणं चैव निर्माल्यग्रहणं विभोः॥
पूजयेदासनं सूर्तेर्देवतामपि पूजयेत्॥ २२.६४ ॥
अर्घ्यं च दापयेत्तेषां पृथगेव विधा नतः॥
आवाहने च पूजान्ते तेषामुद्वासने तथा॥ २२.६५ ॥
सहस्रं वा तदर्धं वा शतमष्टोत्तरं तु वा॥
बाष्कलं च जपेदग्रे धशांशेन च योजयेत्॥ २२.६६ ॥
कुण्डं च पश्चिमे कुर्याद्वर्तुलं चैव मेखलम्॥
चतुरङ्गुलमानेन चोत्सेधाद्विस्तरादपि॥ २२.६७ ॥
एकहस्तप्रमाणेन नित्ये नैमित्तिके तथा॥
कृत्वाश्वत्थदलाकारं नाभिं कुण्डे दशाङ्गुलम्॥ २२.६८ ॥
तदर्धेन पुरस्तात्तु गजोष्ठसदृशं स्मृतम्॥
गलमेकाङ्गुलं चैव शेषन्द्विगुणविस्तरम्॥ २२.६९ ॥
तत्प्रमाणेन कुण्डस्य त्यक्त्वा कुर्वीत मेखलाम्॥
यत्नेन साधयित्वैव पश्चाद्वोमं च कारयेत्॥ २२.७० ॥
षष्ठेनोल्ले खनं कुर्यात्प्रोक्षयेद्वारिणा पुनः॥
आसनं कल्पयेन्मध्ये प्रथमेन समाहितः॥ २२.७१ ॥
प्रभावतीं ततः शक्तिमाद्येनैव तु वुन्यसेत्॥
बाष्कलेनैव सम्पूज्य गन्धपुष्पादिभिः क्रमात्॥ २२.७२ ॥
बाष्कलेनैव मन्त्रेण क्रियां प्रति यजेत्पृथक्॥
मूलमन्त्रेण विधिना पश्चात्पूर्णाहुतिर्भवेत्॥ २२.७३ ॥
क्रमादेवं विधानेन सूर्याग्निर्जनितो भवेत्॥
पूर्वोक्तेन विधानेन प्रागुक्तं कमलं न्यसेत्॥ २२.७४ ॥
मुखोपरि समभ्यर्च्य पूर्ववद्भास्करं प्रभुम्॥
दशैवाहुतयो देया बाष्कलेन महामुने॥ २२.७५ ॥
अङ्गानां च तथैकैकं संहिताभिः पृथक् पुनः॥
जयादिस्विष्टपर्यन्तमिध्मप्रक्षेपमेव च॥ २२.७६ ॥
समान्यं सर्वमार्गेषु पारम्पर्यक्रमेण च॥
निवेद्य देवदेवाय भास्करायामितात्मने॥ २२.७७ ॥
पूजाहोमादिकं सर्वं दत्त्वार्घ्यं च प्रदाक्षिणम्॥
अङ्गैः सम्पूज्य सङ्क्षिप्य हृद्युद्वास्य नमस्य च॥ २२.७८ ॥
शिवपूजां ततः कुर्याद्धर्मकामार्थसिद्धये॥
एवं सङ्क्षेपतः प्रोक्तं यजनं भास्करस्य विवर्जितः॥
सर्वैश्वर्यसमोपेतस्तेजसाप्रतिमश्च सः॥ २२.७९ ॥
यः सकृद्वा यजेद्देवं देवदेवं जगद्गुरुम्॥
भास्करं परमात्मानं स याति परमां गतिम्॥ २२.८० ॥
सर्वपापविनिर्मुक्ताः सर्वपाप विवर्जितः॥
सर्वैश्वर्यसमोपेतस्तेजसाप्रतिमश्च सः॥ २२.८१ ॥
पुत्रपौत्रादिमित्रैश्च समन्ततः॥
भुक्त्वैव विपुलान् भोगानिहैव धन धान्यवान्॥ २२.८२ ॥
यानवाहनसम्पन्नो भूषणैर्विविधैरपि॥
कालं गतोपि सूर्येण मोदते कालमक्षयम्॥ २२.८३ ॥
पुनस्तस्मादिहागत्य राजा भवति धर्मिकः॥
वेदवेदाङ्गसम्पन्नो ब्राह्मणो वात्र जायते॥ २२.८४ ॥
पुनः प्राग्वासनायोगाद्धार्मिको वेदपारगः॥
सूर्यमेव समभ्यर्च्य सूर्यसायुज्यमाप्नुयात्॥ २२.८५ ॥
इति श्रीलिङ्गमहापुराणे उत्तरभागे द्वाविंशतितमोऽध्यायः॥ २२ ॥