सूत उवाच॥
परीक्ष्य भूमिं विधिवद्गन्धवर्णरसादिभिः॥
अलङ्कृत्य वितानाद्यैरीश्वरावाहनक्षमाम्॥ २१.१ ॥
एकहस्तप्रमाणेन मण्डलं परिकल्पयेत्॥
आलिखेत्कमलं मध्ये पञ्चरत्नसमन्वितम्॥ २१.२ ॥
चूर्णैरष्टदलं वृत्तं सितं वा रक्तमेव च॥
परिवारेण संयुक्तं बहुशोभासमन्वितम्॥ २१.३ ॥
आवाह्य कर्णिकायां तु शिवं परमकारणम्॥
अर्चयेत्सर्वयत्नेन यथाविभवविस्तरम्॥ २१.४ ॥
दलेषु सिद्धयः प्रोक्ताः कर्णिकायां महामुने॥
वैराग्यज्ञाननालं च धर्मकन्दं मनोरमम्॥ २१.५ ॥
वामा ज्येष्ठा च रौद्री च काली विकरणी तथा॥
बलविकरणीचैव बलप्रमथिनी क्रमात्॥ २१.६ ॥
सर्वभूतस्य दमनी केसरेषु च शक्तयः॥
मनोन्मनी महामाय कर्णिकायां शिवासने॥ २१.७ ॥
वामदेवादिभिः सार्धं द्वन्द्वन्यायेन विन्यसेत्॥
मनोन्मनं महादेवं मनोन्मन्याथ मध्यतः॥ २१.८ ॥
सूर्यसोमाग्निसम्बन्धात्प्रणवाख्यं शिवात्मकम्॥
पुरुषं विन्यसेद्वक्त्रं पूर्वे पत्रे रविप्रभम्॥ २१.९ ॥
अघोरं दक्षिणे नीलाञ्जनचयोपमम्॥
उत्तरे वामदेवाख्यं जपाकुसुमसन्निभम्॥ २१.१० ॥
सद्यं पश्चिमपत्रे तु गोक्षीरधवलं न्यसेन्॥
ईशानं कर्णिकायां तु शुद्धस्फटिकसन्निभम्॥ २१.११ ॥
चन्द्रमण्डलसङ्काशं हृदयायेति मन्त्रतः॥
वाह्नेये रुद्रदिग्भागे शिरसे धूम्रवर्चसे॥ २१.१२ ॥
शिखायै च नमश्चोति रक्ताभे नैर्ऋते दले॥
कवचायाञ्जनाभाय इति वायुदलेन्यसेत्॥ २१.१३ ॥
अस्त्रायाग्निसिखाभाय इति दिक्षु प्रविन्यसेत्॥
नेत्रेभ्यश्चेति चैशान्यां पिङ्गलेभ्यः प्रविन्येसत्॥ २१.१४ ॥
शिवं सदा शिवं देवं महेश्वरमतः परम्॥
रुद्रं विष्णुं विरिञ्चिं च सृष्टिन्यायेन भावयेत्॥ २१.१५ ॥
शिवाय रुद्ररूपाय शान्त्यतीताय शम्भवे॥
शान्ताय शान्तदैत्याय नमश्चन्द्रमसे तथा॥ २१.१६ ॥
वेद्याय विद्याधाराय वह्नये वह्निवर्चसे॥
कालायै च प्रतिष्ठायै तारकायान्तकाय च॥ २१.१७ ॥
निवृत्त्यै धनदेवाय धारायै धारणाय च॥
मन्त्रैरेतैर्महाभूतविग्रहं च सदाशिवम्॥ २१.१८ ॥
ईशानमुकुटं देवं पुरुषास्यं पुरातनम्॥
अघोर हृदयं हृष्टं वामगुह्यं महेश्वरम्॥ २१.१९ ॥
सद्यमूर्ति स्मरेद्देवं सदसद्व्यक्तिकारणम्॥
पञ्चवक्त्रं दशभुजमष्टत्रिंशत्कलामयम्॥ २१.२० ॥
सद्यमष्टप्रकारेण प्रभिद्य च कलामयम्॥
वामं त्रयोदशविधौर्विभिद्य विततं प्रभुम्॥ २१.२१ ॥
अघोरमष्टधा कृत्वा कलारूपेण संस्थितम्॥
पुरुषं च चतुर्धा वै विभज्य च कलामयम्॥ २१.२२ ॥
ईशानं पञ्चधा कृत्वा पञ्चमूर्त्या व्यवस्थितम्॥
हंसहंसेति मन्त्रेण शिवभक्त्या समन्वितम्॥ २१.२३ ॥
ओङ्कारमात्रमोङ्कारमकारं समरूपिणम्॥
आ ई ऊ ए तथा अम्बानुक्रमेणात्मरूपिणम्॥ २१.२४ ॥
प्रधानसहितं देवं प्रलयोत्पत्तिवर्जितम्॥
अणोरणीयांसमजं महतोऽपि महत्तमम्॥ २१.२५ ॥
उर्ध्वरेतसमीशानं विरूपाक्षमुमापतिम्॥
सहस्रशिरसं देवं सहस्राक्षं सनातनम्॥ २१.२६ ॥
सहस्रहस्तचरणं नादान्तं नादविग्रहम्॥
खद्योतसदृशाकारं चन्द्ररेखाकृति प्रभुम्॥ २१.२७ ॥
द्वादशान्ते भ्रुवोर्मध्ये तालुमध्ये गले क्रमात्॥
हृद्देशेऽवस्थितं देवं स्वानन्दममृतं शिवम्॥ २१.२८ ॥
विद्युद्वलयसङ्काशं विद्युत्कोटिसमप्रभम्॥
श्यामं रक्तं कलाकारं शक्तित्रयकृतासनम्॥ २१.२९ ॥
सदाशिवं स्मरेद्देवं तत्त्वत्रयसमन्वितम्॥
विद्यामूर्तिमयं देव पूजयेच्च यथाक्रमात्॥ २१.३० ॥
लोकपालांस्तथास्त्रेण पूर्वाद्यान्पूजयेत् पृथक्॥
चरुं च विधिनासाद्य शिवाय विनिवेदयेत्॥ २१.३१ ॥
अर्धं शिवाय दत्त्वैव शेषर्धेन तु होमयेत्॥
अघोरेणाथ शिष्याय दापयेद्भोक्तुमुत्तमम्॥ २१.३२ ॥
उपस्पृश्य शुचिर्भूत्वा पुरुषं विधिना यजेत्॥
पञ्चगव्यं ततः प्राश्य ईशानेनाभिमन्त्रितम्॥ २१.३३ ॥
वामदेवेन भस्माङ्गी भस्मनोद्धूलयेत्क्रमात्॥
कर्णयोश्च जपेद्देवीं गायत्रीं रुद्रदेवताम्॥ २१.३४ ॥
ससूत्रं सपिधानं च वस्त्रयुग्मेन वेष्टितम्॥
तत्पूर्वं हेमरत्नौघैर्वासितं वै हिरण्मयम्॥ २१.३५ ॥
कलशान्विन्यसेत्पञ्च पञ्चभिर्ब्राह्मणैस्ततः॥
होमं च चरुणा कुर्याद्यथाविभवविस्तरम्॥ २१.३६ ॥
शिष्यं च वासयेद्भक्तं दक्षिणे मण्डलस्य तु॥
दर्भशय्यासमारूढं शिवध्यानपरायणम्॥ २१.३७ ॥
अघोरेण यथान्यायमष्टोत्तरशतं पुनः॥
घृतेन हुत्वा दुःस्वप्नं प्रभाते शोधयेन्मलम्॥ २१.३८ ॥
एवं चोपोषितं शिष्यं स्नातं भूषितविग्रहम्॥
नववस्त्रोत्तरीयं च सोष्णीषं कृतमङ्गलम्॥ २१.३९ ॥
दुकूलाद्येन वस्त्रेण नेत्रं बद्ध्वा प्रवेशयेत्॥
सुवर्णपुष्पसम्मिश्रं यताविभवविस्तरम्॥ २१.४० ॥
ईशानेन च मन्त्रेण कुर्यात्पुष्पाञ्जलिं प्रभोः॥
प्रदक्षिणात्रयं कृत्वा रुद्राध्यायेन वा पुनः॥ २१.४१ ॥
केवलं प्रणवेनाथ शिवध्यानपरायणः॥
ध्यात्वा तु देवदेवेशमीशाने सङ्क्षिपेत्स्वयम्॥ २१.४२ ॥
यस्मिन्मन्त्रे पतेत्पुष्पं तन्मन्त्रस्तस्य सिध्यति॥
शिवाम्भसा तु संस्पृश्य अवोरेण च भस्मना॥ २१.४३ ॥
शिष्यमूर्धनि विन्यस्य गन्धाद्यैः शिष्यमर्चयेत्॥
वारुणं परमं श्रेष्ठं द्वारं वै सर्ववर्णिनाम्॥ २१.४४ ॥
क्षत्त्रियाणां विशेषेण द्वारं वै पश्चिमं स्मृतम्॥
नेत्रावरणमुन्मुच्य मण्डलं दर्शयेत्ततः॥ २१.४५ ॥
कुशासेन तु संस्थाप्य दक्षिणामूर्तिमास्थितः॥
तत्त्वशुद्धिं ततः कुर्यात्पञ्चतत्त्वप्रकारतः॥ २१.४६ ॥
निवृत्त्या रुद्रपर्यन्तमण्डमञ्जोद्भवात्मज॥
प्रतिष्ठया तदूर्ध्वं च यावदव्यक्तगोचरम्॥ २१.४७ ॥
विश्वेश्वरान्तं वै विद्या कलामात्रेण सुव्रत॥
तदूर्ध्वमार्गं संशोध्य शिवभक्त्या शिवं नयेत्॥ २१.४८ ॥
समर्चनाय तत्त्वस्य तस्य भोगेश्वरस्य वै॥
तत्त्वत्रयप्रभेदेन चतुर्भिरुत वा तथा॥ २१.४९ ॥
होमयेदङ्गमन्त्रभेण शान्त्यतीरतं सदाशिवम्॥
सद्यादिभिस्तु शान्त्यन्तं चतुर्भिः कलया पृथक्॥ २१.५० ॥
शान्त्यतीतं मुनिश्रेष्ठ ईशानेनाथवा पुनः॥
प्रत्येकमष्टोत्तरशतं दिशाहोमं तु कारयेत्॥ २१.५१ ॥
ईशान्यां पञ्चमोनाथ प्रधानं परिगीयते॥
समिदाज्यचरूल्ँलाजान्सर्षपांश्च यवांस्तिलान्॥ २१.५२ ॥
द्रव्याणि सप्त होतव्यं स्वाहान्तं प्रणवादिकम्॥
तेषां पूर्णाहुतिर्विप्र ईशानेन विधीयते॥ २१.५३ ॥
सहंसेन यथान्यायं प्रणवाद्येन सुव्रत॥
अघोरेण च मन्त्रेण प्रायश्चित्तं विधीयते॥ २१.५४ ॥
जयादिस्विष्टपर्यन्तमग्निकार्यं क्रमेण तु॥
गुणसङ्ख्याप्रकारेण प्रधानेन च योजयेत्॥ २१.५५ ॥
भूतानि ब्रह्मभिर्वापि मौनी बीजादिभिस्तथा॥
अथ प्रधानमात्रेण प्राणापानौ नियम्य च॥ २१.५६ ॥
षष्ठेन भेदयेदात्मप्रणवान्तं कुलाकुलम्॥
अन्योऽन्यमुपसंहृत्य ब्रह्माणं केशवं हरम्॥ २१.५७ ॥
रुद्रे रुद्रं तमीशाने शिवे देवं महेश्वरम्॥
तस्मात्सृष्टिप्रकारेम भावयेद्भवनाशनम्॥ २१.५८ ॥
स्थाप्यात्मनममुं जीवं ताडनं द्वारदर्शनम्॥
दीपनं ग्रहणं चैव बन्धनं पूजया सह॥ २१.५९ ॥
अमृतीकरणं चैव कारयेद्विधिपूर्वकम्॥
पष्ठान्तं सद्यसंयुक्तं तृतीयेन समन्वितम्॥ २१.६० ॥
फडन्तं संहृतिः प्रोक्ता पञ्चभूतप्रकारतः॥
सद्याद्यषष्ठसहितं शिखान्तं सफडन्तकम्॥ २१.६१ ॥
ताडनं कथितं द्वारं तत्त्वानामपि योगिनः॥
प्रधानं सम्पुटीकृत्य तृतीयेन च दीपनम्॥ २१.६२ ॥
आद्येन सम्पुटीकृत्य प्रधानं ग्रहणं स्मृतम्॥
प्रधानं प्रधानं प्रथमेनैव सम्पुटीकृत्य पूर्ववत्॥ २१.६३ ॥
बन्धनं परिपूर्णेन प्लावनं चामृतेन च॥
शान्त्य तीता ततः शान्तिर्विद्या नाम कलामला॥ २१.६४ ॥
प्रतिष्ठा च निवृत्तिश्च कलासङ्क्रमणं स्मृता॥
तत्त्ववर्णकलायुक्तं भुवनेन यथाक्रमम्॥ २१.६५ ॥
मन्त्रैः पादैः स्तवं कुर्याद्विशोध्य च यथाविधि॥
आद्येन योनिबीजेन कल्पयित्वा च पूर्ववत्॥ २१.६६ ॥
पूजासम्प्रोक्षणं विद्धि ताडनं हरणं तथा॥
संहतस्य च संयोगं विक्षेपं च यथाक्रमम्॥ २१.६७
अर्चना च तथा गर्भधारणं जननं पुनः॥
अधिकारो भवेद्भानोर्लयश्चैव विशेषतः॥ २१.६८ ॥
उत्तमाद्यं तथान्त्येन योनिबीजेन सुव्रत॥
उद्दारे प्रोक्षणे चैव ताडने च महामुने॥ २१.६९ ॥
अघोरेण फडन्तेन संसृतिश्च न संशयः॥
प्रतितत्त्वं क्रमो ह्येष योगमार्गेण सुव्रत॥ २१.७० ॥
मुष्टिना चैव यावच्च तावत्कालं नयेत्क्रमात्॥
विषुवेण तु योगेन निवृत्त्यादि शिवान्तिकम्॥ २१.७१ ॥
एकत्र समतां याति नान्यथा तु पृथक्पृथक्॥
नासाग्रे द्वादशान्तेन पृष्ठेन सह योगिनाम्॥ २१.७२ ॥
क्षन्तव्यमिति विप्रेन्द्र देवदेवस्य शासनम्॥
हेमराजतताम्राद्यैर्विधिना कल्पितेन च॥ २१.७३ ॥
सकूर्चेन सवस्त्रेण तन्तुना वेष्टितेन च॥
तीर्थाम्बुपूरितेनैव रत्नगर्भेण सुव्रत॥ २१.७४ ॥
संहितामान्त्रितेनैव रुद्राध्यायस्तुतेन च॥
सेचयेच्च ततः शिष्यं शिवभक्तं च धार्मिकम्॥ २१.७५ ॥
सोऽपि शिष्यः शिवस्याग्रे सुरोरग्रे च सादरम्॥
वह्नेश्च दीक्षां कुर्वीत दीक्षितश्च तथाचरेत्॥ २१.७६ ॥
वरं प्राणपरित्यागश्छेदनं शिरसोऽपि वा॥
न त्वनभ्यर्च्य भुञ्जीयाद्भगवन्तं सदाशिवम्॥ २१.७७ ॥
एवं दीक्षा प्रकर्तव्या पूजा चैव यताक्रमम्॥
त्रिकालमेककालं वा पूजयेत्परमेश्वरम्॥ २१.७८ ॥
अग्निहोत्रं च वेदाश्च यज्ञाश्च बहुदक्षिणाः॥
शिवलिङ्गार्चनस्यैते कलांशेनापि नो समाः॥ २१.७९ ॥
सदा यजति यज्ञेन सदा दानं प्रयच्छति॥
सदा च वायुभक्षश्च सकृद्योऽभ्यर्चयेच्छिवम्॥ २१.८० ॥
एककालं द्विकालं वा त्रिकालं नित्यमेव वा॥
योऽर्चयान्ति महादेवं ते रुद्रा नात्र संशयः॥ २१.८१ ॥
नारुद्रस्तु स्पृसेद्रुद्रं नारुद्रो रुद्रमर्चयेत्॥
नारुद्रः कीर्तयेद्रूद्रं नारुद्रो रुद्रमाप्नुयात्॥ २१.८२ ॥
एवं सङ्क्षेपतः प्रोक्तो ह्यधिकारिविधिक्रमः॥
शिवार्चनार्थं धर्मार्थकाममोक्षफलप्रदः॥ २१.८३ ॥
इति श्रीलिङ्ङ्गमहापुराणे उत्तरभागे दीक्षाविधिर्नामैकविंशतितमोध्यायः॥ २१ ॥