०२०

सूत उवचा॥
अत रुद्रो महादेवो मण्डलस्थः पितामहः॥
पूज्यो वै ब्राह्मणानां च क्षत्रियाणां विशेषतः॥ २०.१ ॥

वैश्यानां नैव शूद्राणां शुश्रुषां पूजकस्य च॥
स्त्रीणां नैवादिकारोऽस्ति पूजादिषु न संशयः॥ २०.२ ॥

स्त्रीशूद्राणां द्वजेन्द्रैश्च पूजया तत्फलं भवेत्॥
नृपाणामुपकारार्थं ब्राह्मणाद्यैर्विशेषतः॥ २०.३ ॥

एवं सम्पूजयेयुर्वै ब्राह्मणाद्याः सदाशिवम्॥
इत्युक्त्वा भगवान् रुद्रस्तत्रैवान्तरधात्स्वयम्॥ २०.४ ॥

ते देवा मुनयः सर्वे शिवमुद्दिश्य शङ्करम्॥
प्रणेमुश्च महात्मानो रुद्रध्यानेन विह्वलाः॥ २०.५ ॥

जग्मुर्यथागतं देवा मुनयश्च तपोधनाः॥
तस्मादब्यर्चयेन्नित्यमादित्यं शिवरूपिणम्॥ २०.६ ॥

धर्मकामार्थमुक्त्यर्थं मनसा कर्मणा गिरा॥
ऋषय ऊचुः॥
रोमहर्षण सर्वज्ञ सर्वसास्त्रभृतां वर॥ २०.७ ॥

व्यासशिष्य महाभाग वाह्नेयं वद साम्प्रतम्॥
शिवेन देवदेवेन भक्तानां हितकाम्यया॥ २०.८ ॥

वेदात् षडङ्गादुद्धृत्य साङ्ख्ययोगाच्च सर्वतः॥
तपश्च विपुलं तप्त्वा देवदानवदुश्चरम्॥ २०.९ ॥

अर्थदेशादिसंयुक्तं गूढमज्ञाननिन्दितम्॥
वर्णाश्रमकृतैर्धर्मैर्विपरीतं क्वचित्समम्॥ २०.१० ॥

शिवेन कथितं सास्त्रं धर्मकामार्थमुक्तये॥
शतकोटिप्रमाणेन तत्र पूजा कथं विभोः॥ २०.११ ॥

स्नानयोगादयो वापि श्रोतुं कौतुहलं हि नः॥
सूत उवाच॥
पुरा सनत्कुमारेण मेरुपृष्ठे सुशोभने॥ २०.१२ ॥

पृष्टो नन्दीश्वरो देवः शैलादिः शिवसम्मतः॥
पृष्टोयं प्रणिपत्यैवं मुनिमुख्यैश्च सर्वतः॥ २०.१३ ॥

तस्मै सनत्कुमाराय नन्दिना कुलनन्दिना॥
कथितं यच्छिवज्ञानं मुनिपुङ्गवाः॥ २०.१४ ॥

शैवं सङ्क्षिप्य वेदोक्तं शिवेन परिभाषितम्॥
स्तुतिनिन्दादिरहितं सद्यः प्रत्ययकारकम्॥ २०.१५ ॥

गुरुप्रसादजं दिव्यमनायासेन मुक्तिदम्॥
सनत्कुमार उवाच॥
भगवन्सर्व भूतेश नन्दीश्वर महेश्वर॥ २०.१६ ॥

कथं पूजादयः शम्भोर्धर्मकामार्थमुक्तये॥
वक्तुमर्हसि शैलादे विनयेनागताय मे॥ २०.१७ ॥

सूत उवाच॥
सम्प्रेक्ष्य भगवान्नन्दी निशम्य वचनं पुनः॥
कालवेलाधिकाराद्यमवदद्वदतां वरः॥ २०.१८ ॥

शैलादेरुवाच॥
गुरुतः शास्त्रतश्चैवमधिकारं व्रवीम्यहम्॥
गौरवादेव सञ्ज्ञैषा शिवाचार्यस्य नान्यथा॥ २०.१९ ॥

स्वयमाचरते यस्तु आचारे स्थापयत्यपि॥
आचिनोति च शास्त्रार्थानाचार्यस्तेन चोच्यते॥ २०.२० ॥

तस्माद्वेदार्थतत्त्वज्ञमाचार्यं भस्मशायिनम्॥
गुरुमन्वेषयेद्भक्तः सुभगं प्रियदर्शनम्॥ २०.२१ ॥

प्रतिपन्नं जनानन्दं श्रुतिस्मृतिपथानुगम्॥
विद्ययाभयदातारं लौल्यचाप्लयवर्जितम्॥ २०.२२ ॥

आचारपालकं धीरं समयेषु कृतास्पदम्॥
तं दृष्ट्वा सर्वभावेन पूजयेच्छिववद्गुरुम्॥ २०.२३ ॥

आत्मना च धनेनैव श्रद्धावित्तानुसारतः॥
तावदाराधयेच्छिष्यः प्रसन्नोऽसौ यथा भवेत्॥ २०.२४ ॥

सुप्रसन्ने महाभागे सद्यः पाशक्षयो भवेत्॥
गुरुर्मान्यो गुरुः पूज्यो गुरुरेव सदाशिवः॥ २०.२५ ॥

संवत्सरत्रयं वाथ शिष्यान्विप्रान्परीक्षयेत्॥
प्राणद्रव्यप्रदानेन आदेशैश्च इतस्ततः॥ २०.२६ ॥

उत्तमश्चाधमे योज्यो नीच उत्तमवस्तुषु॥
आकृष्टास्ताडिता वापि ये विषादं न यान्ति वै॥ २०.२७ ॥

ते योग्याः शिवधर्मिष्ठाः शिवधर्मपरायणाः॥
संयता धर्मसम्पन्नाः श्रुतिस्मृतिपथानुगाः॥ २०.२८ ॥

सर्वद्वन्द्वसहाधीरा नित्यमुद्युक्तचेतसः॥
परोपकारनिरता गुरुशुश्रूषणे रताः॥ २०.२९ ॥

आर्जवा स्वस्था अनुकूलाः प्रियंवदाः॥
अमानिनो बुद्धिमन्तस्त्यक्तस्पर्धा गतस्पृहाः॥ २०.३० ॥

शौचाचारगुणोपेता दम्भमात्सर्यवर्जिताः॥
योग्या एवं द्विजाः सर्वे शिवभक्तिपरायणाः॥ २०.३१ ॥

एवंवृत्तसमोपेता वाङ्मनःकायकर्मभिः॥
शोध्या एवंविधाश्चैव तत्त्वानां च विशुद्धये॥ २०.३२ ॥

शुद्धो विनयसम्पन्नो मिथ्याकटुकवर्जितः॥
गुर्वाज्ञापालकश्चैव शिष्योऽनुग्रहमर्हति॥ २०.३३ ॥

गुरुश्च शास्त्वित्प्राज्ञस्तपस्वी नजवत्सलः॥
लोकाचाररतो ह्येवं तत्त्वविन्मोक्षदः स्मृतः॥ २०.३४ ॥

सर्वलक्षणसम्पन्नः सर्वशास्त्रविशारदः॥
सर्वोपायविधानज्ञस्तत्त्वहीनस्य निष्फलम्॥ २०.३५ ॥

स्वसंवेद्य परे तत्त्वे निश्चयो यस्य नात्मनि॥
आत्मनोऽनुग्रहो नास्ति परस्यानुग्रहः कथम्॥ २०.३६ ॥

प्रबुद्धस्तु द्विजो यस्तु स शुद्धः साधयत्यपि॥
तत्त्वहीने कुतो बोधः कुतो ह्यात्मपरिग्रहः॥ २०.३७ ॥

परिग्रहविनिर्मुक्तास्ते सर्वे पशवोदिताः॥
पशुभिः प्रेरिता ये तु सर्वे ते पशवः स्मृताः॥ २०.३८ ॥

तस्मात्तत्त्वविदो ये तु मुक्ता मोचयन्त्यपि॥
संवित्तिजननं तत्त्वं परानन्दसमुद्भवम्॥ २०.३९ ॥

तत्त्वं तु विदितं येन स एवानन्ददर्शकः॥
न पुनर्नाममात्रेण संवित्तिरहितस्तु यः॥ २०.४० ॥

अन्योऽन्यं तारयेन्नैवन किं शिला तारयेच्छिलाम्॥
येषां तन्नाममात्रेण मुक्तिर्वै नाममात्रिका॥ २०.४१ ॥

योगिनां दर्शनाद्वापि स्पर्शनाद्भाषणादपि॥
सद्यः सञ्जायते चाज्ञा पाशोपक्षयकारिणी॥ २०.४२ ॥

अथवा योगममार्गेण शिष्यदेहं प्रविश्य च॥
बोदयेदेव योगेन सर्वतत्त्वानि शोध्य च॥ २०.४३ ॥

षडर्धशुद्धिर्विहिता ज्ञानयोगेन योगिनाम्॥
शिष्यं परीक्ष्य धर्मज्ञं वेदपारगम्॥ २०.४४ ॥

ब्राह्मणं क्षत्रियं वैश्यं बहुदोषविवर्जितम्॥
ज्ञानेन ज्ञेयमालोक्य कर्णात् कर्णागतेन तु॥ २०.४५ ॥

दीपाद्दीपो यता चान्यः सञ्चरेद्विधिपद्गुरुः॥
भौवनं च पदं चैव वर्णाख्यं मात्रमुत्तमम्॥ २०.४६॥

कालाध्वरं महा भाग तत्त्वाख्यं सर्वसम्मतम्॥
भिद्यते यस्य सामार्थ्यादाज्ञामात्रेण सर्वतः॥ २०.४७ ॥

तस्य सिद्धिश्च मुक्तिश्च गुरुकारुण्यसम्भवा॥
पृथिव्यादीनि भूतानि आविशन्ति च भौवने॥ २०.४८ ॥

शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च भावतः॥
पदं वर्णाख्यकं विप्र बुद्धीन्द्रियविकल्पनम्॥ २०.४९ ॥

कर्मेन्द्रियाणि मात्रं हि मनो बुद्धिरतः परम्॥
अहङ्कारमथाव्यक्तं कालाध्वरमिति स्मृतम्॥ २०.५० ॥

पुरुषादिविरिञ्च्यन्तमुन्मनत्वं परात्परम्॥
तथेशत्वमिति प्रोक्तं सर्वतत्त्वार्थ बोधकम्॥ २०.५१ ॥

अयोगी नैव जानाति तत्त्वशुद्धिं शिवात्मिकाम्॥ २०.५२ ॥

इति श्रीलिङ्गमहापुराणे उत्तरभागे विंशोध्यायः॥ २० ॥