०१९

शैलादिरुवाच॥
तं प्रभुं प्रीतमनसं प्रणिपत्य वृषध्वजम्॥
अपृच्छन्मुनयो देवाः प्रीतिकण्टकितत्वचः॥ १९.१ ॥

देवा ऊचुः॥
भगवान् केन मार्गेण पूजनीयो द्विजातिभिः॥
कुत्र वा केन रूपेण वक्तुमर्हसि शङ्करः॥ १९.२ ॥

कस्याधिकारः पूजायां ब्राह्मस्य कथं प्रभो॥
क्षत्रियाणां कथं देव वैश्यानां वृषभध्वज॥ १९.३ ॥

स्त्रीशूद्राणां कथं वापि कुण्डगोलादिनां तु वा॥
हिताय जगतां सर्वमस्माकं वक्तुमर्हसि॥ १९.४ ॥

सूत उवाच॥
तेषां भावं समालोक्य मुनीनां नीललोहितः॥
प्राह गम्भीरया वाचा मण्डलस्थः सदाशिवः॥ १९.५ ॥

मण्डले चाग्रतो पश्यन्देवदेवं सहोमया॥
देवाश्च मुनयः सर्वे विद्युत्कोटिसमप्रभम्॥ १९.६ ॥

अष्टबाहुं चतुर्वक्त्रं द्वादशाक्षं महाभुजम्॥
अर्धनारीश्वरं देवं जटामुकुटधारिणम्॥ १९.७ ॥

सर्वाभरणसंयुक्तं रक्तमाल्यानुलेपनम्॥
रक्ताम्बरधरं सृष्टिस्थितिसंहारकारकम्॥ १९.८ ॥

तस्य पूर्वमुखं पीतं प्रसन्नं पुरुषात्मकम्॥
अघोरं दक्षिणं वक्त्रं नीलाञ्जनचयोपमम्॥ १९.९ ॥

दंष्ट्राकरालमत्युग्रं ज्वालामालासमावातम्॥
रक्तश्मश्रुञ्जटायुक्तं चोत्तरे विद्रुमप्रभम्॥ १९.१० ॥

प्रसन्नं वामदेवाख्यं वरदं विश्वरूपिणम्॥
पश्चिमं वदनं तस्य गोक्षीरधवलं शुभम्॥ १९.११ ॥

मुक्ताफलमयैर्हारैर्भूषितं तिलकोज्ज्वलम्॥
सद्योजातमुखं दिव्यं भास्करस्य स्मरारिणः॥ १९.१२ ॥

आदित्यमग्रतो पश्यन्पूर्ववच्चतुराननम्॥
भास्करं पुरतो देवं चतुर्वक्रं च पूर्ववत्॥ १९.१३ ॥

भानुं दक्षिणतो देवं चतुर्वक्त्रं च पूर्ववत्॥
रविमुत्तरतोऽपश्यन्पूर्ववच्चतुराननम्॥ १९.१४ ॥

विस्तारां मण्डले पूर्वे उत्तरां दक्षिणे स्थिताम्॥
बोधनीं पश्चिमे भागे मण्डलस्य प्रजापतेः॥ १९.१५ ॥

अध्यायनीं च कौबेर्यामेकवक्त्रां चतुर्भुजाम्॥
सर्वाभरणसम्पन्नाः शक्तयः सर्वसम्मताः॥ १९.१६ ॥

ब्रह्माणं दक्षिणे भागे विष्णुं वामे जनार्दनम्॥
ऋग्यजुः साममार्गेण मूर्तित्रयमयंशिवम्॥ १९.१७ ॥

ईशानं वरदं देवमीशानं परमेश्वरम्॥
ब्रह्मासनस्थं वदरं धर्मज्ञानासनोपरि॥ १९.१८ ॥

वैराग्यैश्वर्यसंयुक्ते प्रभूते विमले तथा॥
सारं सर्वेश्वरं देवमाराध्यं परमं सुखम्॥ १९.१९ ॥

सितपङ्कजमध्यस्थं दीप्ताद्यैरभिसंवृतम्॥
दीप्तां दीपशिखाकारां सूक्ष्मां विद्युत्प्रभां शुभाम्॥ १९.२० ॥

जयामग्निशीखाकारां प्रभां कनकसप्रभाम्॥
विभूतिं विद्रुमप्रख्यां विमलां पद्मसन्निभाम्॥ १९.२१ ॥

अमोघां कर्णिकाकारां विद्युतं विश्ववर्णिनीम्॥
चतुर्वक्त्रां चतुर्वर्णां देवीं वै सर्वतोमुखीम्॥ १९.२२ ॥

सोममङ्गारकं देवं बुधं बुद्धिमतां वरम्॥
बृहस्पतिं बृहद्वुद्धिं भार्गवं तेजसां निधिम्॥ १९.२३ ॥

मन्दं मन्दगतिं चैव समन्तात्तस्य ते सदा॥
सूर्यं शिवो जगन्नाथः सोमः साक्षादुमा स्वयम्॥ १९.२४ ॥

पञ्चभूतानि शेषाणि तन्मयं च चराचरम्॥
दृष्टैव मुनयः सर्वे देवदेवमुमापतिम्॥ १९.२५ ॥

कृताञ्जलिपुटाः सर्वे मुनयो देवतास्तथा॥
अस्तु वन्वाग्भिरिष्टभिर्वरदं नीललोहितम्॥ १९.२६ ॥

ऋषय ऊचुः॥
नमः शिवाय रुद्राय कद्रुद्राय प्रचेतसे॥
मीढुष्टमाय सर्वाय शिपिविष्टायरंहसे॥ १९.२७ ॥

प्रभूते विमले सारे ह्याधारे परमे सुखे॥
नवशक्त्यावृतं देवं पद्मस्थं भास्करं प्रभुम्॥ १९.२८ ॥

आदित्यं भास्करं भानुं रविं देवं दिवाकरम्॥
उमां प्रभां तथा प्रज्ञां सन्ध्यां सावित्रिकामपि॥ १९.२९ ॥

विस्तारामुत्तरां देवीं बोदनीं प्रणमाम्यहम्॥
आप्यायनीं च वरदां ब्रह्माणं केशवं हरम्॥ १९.३० ॥

सोमादिवृन्दं च यथाक्रमेम सम्पूज्य मन्त्रैर्विहितक्रमेण॥
स्मरामि देवं रविमण्डलस्थं सदाशिवं शङ्करमादिदेवम्॥ १९.३१ ॥

इन्द्रादिदेवांश्च तथेश्वरांश्च नारायणं पद्मजमादिदेवम्॥
प्रागाद्यधोर्ध्वं च यथाक्रमेण वज्रादिपद्मं च तथा स्मरामि॥ १९.३२ ॥

सिन्दूरवर्णाय समण्डलाय सुवर्णवज्राभरणाय तुभ्यम्॥
पद्माभनेत्राय सपङ्कजाय ब्रह्मेन्द्रनारायणकारणाय॥ १९.३३ ॥

रथं च सप्ताश्वमनूरुवीरं गणं तथा सप्तविधं क्रमेण॥
ऋतुप्रवाहेण च वालीखिल्यान्स्मरामि मन्देहगणक्षयं च॥ १९.३४ ॥

हुत्वा तिलाद्यैर्विविधैस्तथाग्नौ पुनः समाप्यैव तथैव सर्वम्॥
उद्वास्य हृत्पङ्कजमध्यसंस्थं स्मरामि बिम्बं तव देवदेव॥ १९.३५ ॥

स्मरामि बिम्बानि यथाक्रमेण रक्तानि पद्मामललोचनानि॥
पद्मं च सव्ये वरदं च वामे करे तथा भूषितभूषणानि॥ १९.३६ ॥

दंष्ट्राकरालं तव दिव्यवक्त्रं विद्युत्प्रभं दैत्ययङ्करं च॥
स्मरामि रक्षाभिरतं द्विजानां मन्देहरक्षोगणभर्त्सनं च॥ १९.३७ ॥

सोमं सितं भूमिजमग्निर्णं चामीकराभं बुधमिन्दुसूनुम्॥
बृहस्पतिं काञ्चनसन्निकाशं शुक्रं सितं कृष्णतरं च मन्दम्॥ १९.३८ ॥

स्मरामि सव्यमभयं वाममूरुगतं वरम्॥
सर्वेषां मन्दपर्यन्तं महादेवं च भास्करम्॥ १९.३९ ॥

पूर्णेन्दुवर्णेन च पुष्पधप्रस्थेन तोयने शुभेन पूर्णम्॥
पात्रं दृढं ताम्रमयं प्रकल्प्य दास्ये तवार्ध्यं भगवन्प्रसीद॥ १९.४० ॥

नमः शिवाय देवाय ईश्वराय कपर्दिने॥
रुद्राय विष्णवे तुभ्यं ब्रह्मणे सूर्यमूर्तये॥ १९.४१ ॥

सूत उवाच॥
यः शिवं मण्डलं देवं सम्पूज्यैवं समाहितः॥
प्रातर्मध्याह्नसायाह्ने पठेत्स्तवमनुत्तमम्॥ १९.४२ ॥

इत्थं शिवेन सायुज्यं लभते नात्र संशयः॥ १९.४३ ॥

इति श्रीलिङ्गमहापुराणे उत्तरभागे एकोनविंशोध्यायः॥ १९ ॥