०१८

देवा ऊचुः॥
य एष भगवान् रुद्रो ब्रह्मविष्णुमहेश्वराः॥
स्कन्दश्चापि तथा चेद्रो भुवनानि चतुर्दश॥
अश्विनौ ग्रहतारास्च नक्षत्राणि च खं दिशः॥ १८.१ ॥

भूतानि च तथा सूर्यः सोमश्चाष्टौ ग्रहास्तथा॥
प्राणः कालो यमो मृत्युरमृतः परमेश्वरः॥ १८.२ ॥

भूतं भव्यं भविष्यच्च वर्तमानं महेश्वरः॥
विश्वं कृत्स्नं जगत्सर्वं सत्यं तस्मै नमोनमः॥ १८.३ ॥

त्वमादौ च तथा भूतो भूर्भुवः स्वस्तथैव च॥
अन्ते त्वं विश्वरूपोऽसि शीर्षं तु जगतः सन्दा॥ १८.४ ॥

ब्रह्मैकस्त्वं द्वित्रिधार्थमधश्च त्वं सुरेश्वरः॥
शान्तिश्च त्वं तथा पुष्टिस्तुष्टिश्चाप्यहुतं हुतम्॥ १८.५ ॥

विश्वं चैव तथाविश्वं दत्तं वादत्तमीश्वरम्॥
कृतं चाप्यकृतं देवं परमप्यपरं ध्रुवम्॥
परायणं सतां चैव ह्यसतामपि शङ्करम्॥ १८.६ ॥

अपामसोमममृता अभूमागन्म ज्योति रविदाम देवान्॥
किं नूनमस्मान्कृणवदरातिः किमु धूर्तिरमृतं मर्त्यस्य॥ १८.७ ॥

एतज्जगद्धितं दिव्यमक्षरं सूक्ष्ममव्ययम्॥ १८.८ ॥

प्राजा पत्यं पवित्रं च सौम्यमग्राह्यमव्ययम्॥
अग्राह्येणापि वा ग्राह्यं वायव्येन समीरणः॥ १८.९ ॥

सौम्येन सौम्यं ग्रसति तेजसा स्वेन लीलया॥
तस्मै नमोऽपसंहर्त्रे महाग्रासाय शूलिने॥ १८.१० ॥

हृदिस्था देवताः सर्वा हृदि प्राणे प्रतिष्ठिताः॥
हृदि त्वमसि यो नित्यं तिस्रो मात्राः परस्तु सः॥ १८.११ ॥

शिरश्चोत्तरतश्चैव पादौ दक्षिणतस्तथा॥
यो वै चोत्तरतः साक्षात्स ओङ्कारः सनातनः॥ १८.१२ ॥

ओङ्कारो यः स एवेह प्रणवो व्याप्य तिष्ठति॥
अनन्तस्तारसूक्ष्मं च शुक्लं वैद्युतमेव च॥ १८.१३ ॥

परं ब्रह्मा स ईशान एकोरुद्रः स एव च॥
भवान्महेश्वरः साक्षान्महादेवो न संशयः॥ १८.१४ ॥

ऊर्ध्वमुन्नामयत्येव स ओङ्कारः प्रकीर्तितः॥
प्राणानवति यस्तस्मात् प्रणवः परिकीर्तितः॥ १८.१५ ॥

सर्वं व्याप्नोति यस्तस्मात्सर्वव्यापी सनातनः॥
ब्रह्मा हरिश्च भगवानाद्यन्तं नोपलब्धवान्॥ १८.१६ ॥

तथान्ये च ततोऽनन्तो रुद्रः परमकारणम्॥
यस्तारयति संसारात्तार इत्यभिधीयते॥ १८.१७ ॥

सूक्ष्मो भूत्वा शरीराणि सर्वदा ह्यधितिष्ठिति॥
तस्मात्सूक्ष्मः समाख्यातो भगवन्नीललोहितः॥ १८.१८ ॥

नीलश्च लोहितश्चैव प्रधानपुरुषान्वयात्॥
स्कन्दतेऽस्य यतः शुक्रं तथा शुक्रमपैतिच॥ १८.१९ ॥

विद्योतयति यस्तस्माद्वैद्युतः परिगीयते॥
बृहत्त्वाद्बृंहणत्वाच्च बृहते च परापरे॥ १८.२० ॥

तस्माद्बृंहति यस्माद्धि परं ब्रह्मेति कीर्तितम्॥
अद्वितीयोऽथ भगवांस्तुरीयः परमेश्वरः॥ १८.२१ ॥

ईशानमस्य जगतः सर्वदृशां चक्षुरीश्वरम्॥
ईशानमिन्द्रसूरयः सर्वेषामपि सर्वदा॥ १८.२२ ॥

ईशानः सर्वविद्यानां यत्तदीशान उच्यते॥
यदीक्षते च भगवान्निरीक्ष्यमिति चाज्ञया॥ १८.२३ ॥

आत्मज्ञानं महादेवो योगं गमयति स्वयम्॥
भगवांश्चोच्यते देवो देवदेवो महेश्वरः॥ १८.२४ ॥

सर्वांल्लोकान्क्रमेणैव यो गृह्णति महेश्वरः॥
विसृजत्येप देवेशो वासयत्यपि लीलया॥ १८.२५ ॥

एषो हि देवः प्रदिशोऽनुसर्वाः पूर्वो हि जातः स उ गर्भे अन्तः॥
स एव जातः स जनिष्यमाणः प्रत्यङ्मुखास्तिष्ठति सर्वतोमुखः॥ १८.२६ ॥

उपासितव्यं यत्नेन तदेतत्सद्भिरव्ययम्॥
यतो वाचो निवर्तन्ते ह्यप्राप्य मनसा सह॥ १८.२७ ॥

तदग्रहणमेवेह यद्वाग्वदति यत्नतः॥
अपरं च परं वेति परायणमिति स्वयम्॥ १८.२८ ॥

वदन्ति वाचः सर्वज्ञः शङ्करं नीललोहितम्॥
एष सर्वो नमस्तस्मै पुरुषः पिङ्गलः शिवः॥ १८.२९ ॥

स एष स महारुद्रो विश्वं भूतं भविष्यति॥
भुवनं बहुधा जातं जायमानमितस्ततः॥ १८.३० ॥

हिरण्यबाहुर्भगवान् हिरण्यपतिरीश्वरः॥
अम्बिकापतिरीशानो हेमरेता वृषध्वजः॥ १८.३१ ॥

उमापतिर्विरूपाक्षो विश्वसृग्विश्ववाहनः॥
ब्रह्माणं विदधे योऽसौ पुत्रमग्रे सनातनम्॥ १८.३२ ॥

प्रहिणोति स्म तस्यैव ज्ञानमात्मप्रकाशकम्॥
तमेकं पुरुषं रुद्रं पुरुहुतं पुरुष्टुतम्॥ १८.३३ ॥

बालाग्रमात्रं हृदयस्य मध्ये विश्वन्देवं वह्निरूपं वरेण्यम्॥
तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां शान्तिः शाश्वती नेतरेषाम्॥ १८.३४ ॥

महतो यो महीयांश्च ह्यणोरप्यणुरव्ययः॥
गुहायां निहितश्चात्मा जन्तोरस्य महेश्वरः॥ १८.३५ ॥

वेश्मभूतोऽस्य विश्वस्य कमलस्थो हृति स्वयम्॥
गह्वरं गहनं तत्स्थं तस्यान्तश्चोर्ध्वतः स्थितः॥ १८.३६ ॥

तत्रापि दह्रं गगनमोङ्कारं परमेश्वरम्॥
बालाग्रमात्रं तन्मध्ये ऋतं परमकारणम्॥ १८.३७ ॥

सत्यं ब्रह्म महादेवं पुरुषं कृष्णपिङ्गलम्॥
ऊर्ध्वरतेसमीशानं विरूपाक्षमजोद्भवम्॥ १८.३८ ॥

अधितिष्ठति योनिं यो योनिं वाचैक ईश्वरः॥
देहं पञ्चविधं येन तमीशानं पुरातनम्॥ १८.३९ ॥

प्राणेष्वन्तर्मनसो लिङ्गमाहुर्यस्मिन्क्रोधो या च तृष्णा क्षमा च॥
तृष्णां छित्त्वा हेतुजालस्य मूलं बुद्ध्याचिन्त्यं स्थापयित्वा च रुद्रे॥ १८.४० ॥

एकं तमाहुर्वै रुद्रं शाश्वतं परमेश्वरम्॥
परात्परतरं वापि परात्परतरं ध्रुवम्॥ १८.४१ ॥

ब्रह्मणो जनकं विष्णोर्वह्नेर्वायोः सदाशिवम्॥
ध्यात्वाग्निना च शोध्याङ्गं विशोध्य च पृथक्पृथक्॥ १८.४२ ॥

पञ्चभूतानि संयम्य मात्राविधिगुणक्रमात्॥
मात्राः पञ्च चतस्रश्च त्रिमात्रादिस्ततः परम्॥ १८.४३ ॥

एकमात्रममात्रं हि द्वादशान्ते व्यवस्थितम्॥
स्थित्वा स्थाप्यामृतो भूत्वा व्रतं पाशुपतं चरेत्॥ १८.४४ ॥

एतद्व्रतं पाशुपतं चरिष्यामि समासतः॥
अग्निमाधाय विधिवदृग्यजुः सामसम्भवैः॥ १८.४५ ॥

उपोषितः शुचिः स्नातः शुक्लाम्बरधरः स्वयम्॥
शुक्लयज्ञोपवीति च शुक्लमाल्यानुलेपनः॥ १८.४६ ॥

जुहुयाद्विरजोविद्वान् विरजाश्च भविष्यति॥
वायवः शुध्यन्तां वाङ्मनश्चरणादयः॥ १८.४७ ॥

श्रोत्रं जिह्वा ततः प्राणस्ततो बुद्धिस्तथैव च॥
शिरः पाणिस्तथा पार्श्वं पृष्ठोदरमनन्तरम्॥ १८.४८ ॥

जङ्घे शिश्रमुपस्थं च पायुर्मेढ्रं तथैव च॥
त्वचा मांसं च रुधिरं मेदोऽस्थीनि तथैव च॥ १८.४९ ॥

शब्दः स्पर्शं च रूपं च रसो गन्धस्तथैव च॥
भूतानि चैव शुध्यन्तां देहे मेदादयस्तथा॥ १८.५० ॥

अन्नं प्राणे मनो ज्ञानं शुध्यन्तां वै शिवेच्छया॥
हुत्वाज्येन समिद्भिश्च चरुणा च यथाक्रमम्॥ १८.५१ ॥

उपसंहृत्य रुद्राग्निं गृहीत्वा भस्म यत्नतः॥
अग्निरित्यादिना धीमान् विमृज्याङ्गानि संस्पृशेत्॥ १८.५२ ॥

एतत्पाशुपतं दिव्यं व्रतं पाशविमोचनम्॥
ब्राह्मणानां हितं प्रोक्तं क्षत्रियाणां तथैव च॥ १८.५३ ॥

वैश्यानामपि योग्यानां यतीनां तु विशेषतः॥
वानप्रस्थाश्रमस्थानां गृहस्थानां सतामपि॥ १८.५४ ॥

विमुक्तिर्विधिनानेन दृष्ट्वा वै ब्रह्मचारिणाम्॥
अग्निरित्यादिना भस्म गृहीत्वा ह्यग्निहोत्रजम्॥ १८.५५ ॥

सोऽपि पाशुपतो विप्रो विमृज्याङ्गानि संस्पृशेत्॥
भस्माच्छन्नो द्विजो विद्वान् महापातकसम्भवैः॥ १८.५६ ॥

पापौर्विमुच्यते सद्यो मुच्यते च न संशयः॥
वीर्यमग्रेर्यतो भस्म वीर्यवान्भस्मसंयुतः॥ १८.५७ ॥

भस्मास्नानरतो विप्रो भस्मशायी जितेन्द्रियः॥
सर्वपापविनिर्मुक्तः शिवसायुज्यमाप्नुयात्॥ १८.५८ ॥

तस्मात्सर्वप्रयत्नेन भूत्यङ्गं पूजयेद्वुधः॥
रेरेकारो न कर्तव्यस्तुन्तुङ्कारस्तथैव च॥ १८.५९ ॥

न तत्क्षमति देवेशो ब्रह्मा वा यदि केशवः॥
मम पुत्रो भस्मधारी गणेशश्च वरानने॥ १८.६० ॥

तेषां विरुद्धं यत्त्याज्यं स याति नरकार्णवम्॥
गृहस्थो ब्रह्महीनोपि त्रिपुण्ड्रं यो न कारयेत्॥ १८.६१ ॥

पूजा कर्म क्रिया तस्य दानं स्नानं तथैव च॥
निष्फलं जायते सर्वं यथा भस्मनि वै हुतम्॥ १८.६२ ॥

तस्माच्च सर्वकार्येषु त्रिपुण्ड्रं धारयेद्बुधः॥
इत्युक्त्वा भगवान्ब्रह्मा स्तुत्वा देवैः समं प्रभुः॥ १८.६३ ॥

भस्माच्छन्नैः स्वयं छन्नो विरराम विशाम्पते॥
अथ तेषां प्रसादार्थं पशूनां पतिरीश्वरः॥ १८.६४ ॥

सगमश्चाम्बया सार्धं सान्निध्यमकरोत्प्रभुः॥
अथ सन्निहितं रुद्रं तुष्टुवुः सुरपुङ्गवम्॥ १८.६५ ॥

रुद्राध्यायेन सर्वेशं देवदेव मुमापतिम्॥
देवोपि देवानालोक्य घृणया वृषभध्वजः॥ १८.६६ ॥

तुष्टोस्मीत्याह देवेभ्यो वरं दातुं सुरारिहा॥ १८.६७ ॥

इति श्रीलिङ्गमहापुराणे उत्तरभागेष्टादशोध्यायः॥ १८ ॥