सनत्कुमार उवाच॥
भूयो देवगणश्रेष्ठ शिवमाहात्म्यमुत्तमम्॥
श्रृण्वतो नास्ति मे तृप्तिस्त्व द्वाक्यामृतपानतः॥ १७.१ ॥
कथं शरीरी भगवान् कस्माद्रुद्रः प्रतापवान्॥
सर्वात्मा च कथं शम्भुः कथं पाशुपतं व्रतम्॥ १७.२ ॥
कथं वा देवमुख्यैश्च श्रुतो दृष्टश्च शङ्करः॥
शैलादिरुवाच॥
अव्यक्तादभवत्स्थाणुः शिवः परमकारणम्॥ १७.३ ॥
स सर्वकारणोपेत ऋपिर्विश्वाविकः प्रभुः॥
देवानां प्रथमं देवं जायमानं मुखाम्बुजात्॥ १७.४ ॥
ददर्श चाग्रे ब्रह्माणं चाज्ञया तमवैक्षत॥
दृष्टो रुद्रेण देवेशः ससर्ज सकलं च सः॥ १७.५ ॥
वर्णाश्रमव्यवस्थाश्च स्थापयामास वै विराट्॥
सोमं ससर्ज यज्ञार्थं सोमादिदमजायत॥ १७.६ ॥
चरुश्च वह्निर्यज्ञश्च वज्रपाणिः शचीपतिः॥
विष्णुर्नारायणः श्रीमान् सर्वं सोममयं जगत्॥ १७.७ ॥
रुद्राध्यायेन ते देवा रुद्रं तुष्टुवुरीश्वरम्॥
प्रसन्नवदनस्तस्थौ देवानां मध्यतः प्रभुः॥ १७.८ ॥
अपहृत्य च विज्ञानमेषामेव महेश्वरः॥
देवा ह्यपृच्छंस्तं देवं को भवानिति शङ्करम्॥ १७.९ ॥
अब्रवीद्भगवान्रुद्रो ह्यहमेकः पुरातनः॥
आसं प्रथम एवाहं वर्तामि च सुरोत्तमाः॥ १७.१० ॥
भविष्यामि च लोकेऽस्मिन्मत्तो नान्यः कुतश्चन॥
व्यतिरिक्तं न मत्तोऽस्ति नान्यत्किञ्चित्सुरोत्तमाः॥ १७.११ ॥
नित्योऽनित्योऽहमनघो ब्राह्माहं ब्रह्मणस्पतिः॥
दिशश्च विदिशश्चाहं प्रकृतिश्च पुमानहम्॥ १७.१२ ॥
त्रिष्टुब्जगत्यनुष्टुप् च च्छन्दोहं तन्मयः शिवः॥
सत्योहं सर्वगः शान्तस्त्रेताग्निर्गौरवं गुरुः॥ १७.१३ ॥
गौरहं गह्वरश्चाहं नित्यं गहनगोचरः॥
ज्येष्ठोहं सर्वतत्त्वानां वरिष्ठोहमपां पतिः॥ १७.१४ ॥
आपोहं भगवानीशस्तेजोहं वेदिरप्यहम्॥
ऋग्वेदोहं यजुर्वेदः सामवेदोहमात्मभूः॥ १७.१५ ॥
अथर्वणोहं मन्त्रोहं तथा चाङ्गिरसां वरः॥
इतिहासपुराणानि कल्पोहं कल्पनाप्यहम्॥ १७.१६ ॥
अक्षरं च क्षरं चाहं क्षान्तिः शान्तिरहं क्षमा॥
गुह्योहं सर्ववेदेषु वरेण्योहमजोप्यहम्॥ १७.१७ ॥
पुष्करं च पवित्रं च मध्यं चाहं ततः परम्॥
बहिश्चाहं तथा चान्तः पुरस्तादहमव्ययः॥ १७.१८ ॥
ज्योतिश्चाहं तमश्चाहं ब्रह्मा विष्णुर्महेश्वरः॥
बुद्धिश्चाहमहङ्कारस्तन्मात्राणीन्द्रियाणि च॥ १७.१९ ॥
एवं सर्वं च मामेव यो वेद सुर सत्तमाः॥
स एव सर्ववित्सर्वं सर्वात्मा परमेश्वरः॥ १७.२० ॥
गां गोभिर्ब्राह्मणान्सर्वान्ब्रह्मण्येन हवींषि च॥
आयुषायुस्तथा सत्यं सत्येन सुरसत्तमाः॥ १७.२१ ॥
धर्मं धर्मेण सर्वांश्च तर्पयामि स्वतेजसा॥
इत्यादौ भगवानुक्त्वा तत्रैवान्तरधीयत॥ १७.२२ ॥
नापश्यन्त ततो देवं रुद्रं परमकारणम्॥
ते देवाः परमात्मानं रुद्रं ध्यायन्ति शङ्करम्॥ १७.२३ ॥
सनारायणका देवाः सेन्द्राश्च मुनयस्तथा॥
तथोर्ध्वबाहवो देवा रुद्रं स्तुन्वन्ति सङ्करम्॥ १७.२४ ॥
इति श्रीलिङ्गमहापुराणे उत्तरभागे सप्तदशोऽध्यायः॥ १७ ॥