०१६

सनत्कुमार उवाच
पुनरेव महाबुद्धे श्रोतुमिच्छामि तत्त्वतः॥
बहुभिर्बहुधा शब्दैः शब्दितानि मुनीश्वरैः॥ १६.१ ॥

शैलादिरुवाच॥
पुनः पुनः प्रवक्ष्यामि शिवरूपाणि ते मुने॥
बहुभिर्बहुधा शब्दैः शब्दितानि मुनीश्वरैः॥ १६.२ ॥

क्षेत्रज्ञः प्रकृतिर्व्यक्तं कालात्मेति मुनीश्वरैः॥
उच्यते कैश्चिदाचार्यैरागमार्णवपारगैः॥ १६.३ ॥

क्षेत्रज्ञं पुरुषं प्राहुः प्रधानं प्रकृतिं बुधाः॥
विकारजातं निःशेषं प्रकृतेर्व्यक्तमित्यपि॥ १६.४ ॥

प्रधानव्यक्तयोः कालः परिणामैककारणम्॥
तच्चतुष्टयमीशस्य रूपाणां हि चतुष्टयम्॥ १६.५ ॥

हिरण्यगर्भं पुरुषं प्रधानं व्यक्तरूपिणम्॥
कथयन्ति शिवं केचिदाचार्याः परमेश्वरम्॥ १६.६ ॥

हिरण्यगर्भः कर्तास्य भोक्ता विश्वस्य पूरुषः॥
विकारजातं व्यक्ताख्यं प्रधानं कारणं परम्॥ १६.७ ॥

तेषां चतुष्टयं बुद्धेः शिवरूपचतुष्टयम्॥
प्रोच्यते शङ्करादन्यदस्ति वस्तु न किञ्चन॥ १६.८ ॥

पिण्डजातिस्वरूपी तु कथ्यते कौश्चिदीश्वरः॥
चराचरशंरीरामि पिण्डाख्याखिलान्यपि॥ १६.९ ॥

सामान्यानि समस्तानि महासामान्यमेव च॥
कथ्यन्ते जातिशब्देन तानि रूपाणि धीमतः॥ १६.१० ॥

विराट्र हिरण्यगर्भात्मा कैश्चिदीशो निगद्यते॥
हिरण्यगर्भो लोकानां हेतुर्लोकात्मको विराट्॥ १६.११ ॥

सूत्राव्याकृतरूपं तं शिवं शंसन्ति केचन॥
अव्याकृतं प्रधानं हि तद्रूपं परमेष्ठनः॥ १६.१२ ॥

लोका येनैव तिष्ठन्ति सूत्रे मणिगणा इव॥
तत्सूत्रमिति विज्ञेयं रूपमद्भुतविक्रमम्॥ १६.१३ ॥

अन्तर्यामी परः कैश्चित्कैश्चिदीशः प्रकीर्त्यते॥
स्वयञ्ज्योतिः स्वयंवेद्यः शिवः शम्भुर्महेश्वरः॥ १६.१४ ॥

सर्वेषामेव भूतानामन्तर्यामी शिवः स्मृतः॥
सर्वेषामेव भूतानां परत्वात्पर उच्यते॥ १६.१५ ॥

परमात्मा शिवः शम्भुः शङ्करः परमेश्वरः॥
प्राज्ञतैजसविश्वाख्यं तस्य रूपत्रयं विदुः॥ १६.१६ ॥

सुषुप्तिस्वप्नजाग्रन्तमवस्थात्रयमेव तत्॥
विराट् हिरण्यगर्भाख्यमव्याकृतपदाह्वयम्॥ १६.१७ ॥

तुरीयस्य शिवस्यास्य अवस्थात्रयगामिनः॥
हिरण्यगर्भः पुरुषः कालइत्येव कीर्तिताः॥ १६.१८ ॥

तिस्रोऽवस्था जगत्सृष्टिस्थितिसंहारहेतवः॥
भवविष्णुविरिञ्चाख्यमवस्थात्रयमीशितुः॥ १६.१९ ॥

आराध्य भक्त्या मुक्तिं च प्राप्नुवन्ति शरीरिणः॥
कर्ता क्रिया च कार्यं च करणं चेति सूरिभिः॥ १६.२० ॥

शम्भोश्चत्वारि रूपाणि कीर्त्यन्ते परमेष्ठिनः॥
प्रमाता च प्रमाणं च प्रमेयं प्रमितिस्तथा॥ १६.२१ ॥

चत्वार्येतानि रूपाणि शिवस्यैव न संशयः॥
ईश्वराव्याकृतप्राणविराट्भूतेन्द्रियात्मकम्॥ १६.२२ ॥

शिवस्यैव विकारोऽयं समुद्रस्येव वीचयः॥
ईश्वरं जगतामाहुर्निमित्तं कारणं तथा॥ १६.२३ ॥

अव्याकृतं प्रधानं हि तदुक्तं वेदवादिभिः॥
हिरण्यगर्भः प्राणाख्यो विराट् लोकात्मकः स्मृतः॥ १६.२४ ॥

महा भूतानि भूतानि कार्याणि इन्द्रियाणि च॥
शिवस्यैतानि रूपाणि शंसन्ति मुनिसत्तमाः॥ १६.२५ ॥

परमात्मा शिवादन्यो नास्तीति कवयोविदुः॥
शिवजातानि तत्त्वानि पञ्चविंशन्मनीषिभिः॥ १६.२६ ॥

उक्तानि न तदन्यानि सलिलादूर्मिवृन्दवत्॥
पञ्चविंशत्पदार्थेभ्यः शिवतत्त्वं परं विदुः॥ १६.२७ ॥

तानि तस्मादनन्यानि सुवर्णकटकादिवत्॥
सदाशिवेश्वराद्यानि तत्त्वानि शिवतत्त्वतः॥ १६.२८ ॥

जातानि न तदन्यानि मृद्द्रव्यं कुम्भभेदवत्॥
माया विद्या क्रिया शक्तिर्ज्ञानशक्तिः क्रियामयी॥ १६.२९ ॥

जाताः शिवान्न सन्देहः किरणा इव सूर्यतः॥
सर्वात्मकं शिवं देवं सर्वाश्रयविधायिनम्॥ १६.३० ॥

भजस्व सर्वभावेन श्रेयश्चेत्प्राप्तुमिच्छसि॥ १६.३१ ॥

इति श्रीलिङ्गमहापुराणे उत्तरभागे षोडशोऽध्यायः॥ १६ ॥