सनत्कुमार उवाच॥
भूयोऽपि शिवमाहात्म्यं समाचक्ष्व महामते॥
सर्वज्ञो ह्यसि भूताना मधिनाथ महागुण॥ १५.१ ॥
शैलादिरुवाच॥
शिवमाहात्म्यमेकाग्रः श्रृणु वक्ष्यामि ते मुने॥
बहुभिर्बहुधा शब्दैः कीर्तितं मुनिसत्तमैः॥ १५.२ ॥
सदसद्रूपमित्याहुः सदसत्पतिरित्यपि॥
तं शिवं मुनयः केचित्प्रवदन्ति च सूरयः॥ १५.३ ॥
भूतभावविकारेण द्वितीयेन स उच्यते॥
व्यक्तं तेन विहीनत्वादव्यक्तमसदित्यपि॥ १५.४ ॥
उभे ते शिवरूपे हि शिवादन्यं न विद्यते॥
तयोः पतित्वाच्च शिवः सदसत्पतिरुच्यते॥ १५.५ ॥
क्षराक्षरात्मकं प्राहुः क्षराक्षरपरं तथा॥
शिवं महेश्वरं केचिन्मुनयस्तत्त्वचिन्तकाः॥ १५.६ ॥
उक्तमक्षरमव्यक्तं व्यक्तं क्षरमुदाहृतम्॥
रूपे ते शङ्करस्यैव तस्मान्न पर उच्यते॥ १५.७ ॥
तयोः परः शिवः शान्तः क्षराक्षरपरो बुधैः॥
उच्यते परमार्थेन महादेवो महेश्वरः॥ १५.८ ॥
समस्तव्यक्तरूपं तु ततः स्मृत्वा स मुच्यते॥
समष्टिव्यष्टिरूपं तु समष्टिव्यष्टिकारणम्॥ १५.९ ॥
वदन्ति केचिदाचार्याः शिवं परमकारणम्॥
समष्टिं विदुरव्यक्तं व्यक्तं मुनीश्वराः॥ १५.१० ॥
रूपे ते गदिते शम्भोर्नास्त्यन्यद्वस्तुसम्भवम्॥
तयोः कारमभावेन शिवो हि परमेश्वरः॥ १५.११ ॥
उच्यते योगशास्त्रज्ञैः समष्टिव्यष्टिकारणम्॥
क्षेत्रक्षेत्रज्ञरूपी च शिवः कैश्चिदुदाहृतः॥ १५.१२ ॥
परमात्मा परं ज्योतिर्भगवान्परमेश्वरः॥
चतुर्विशतितत्त्वानि समष्टिव्यष्टिकारणम्॥ १५.१३ ॥
प्राहुः क्षेत्रज्ञशब्देन भोक्तारं पुरुषं तथा॥
क्षेत्रक्षेत्रविदावेते रूपे तस्य स्वयम्भुवः॥ १५.१४ ॥
न किञ्चिच्च शिवादन्यदिति प्राहुर्मनीषिणः॥
अपरब्रह्मरूपं तं परब्रह्मात्मकं शिवम्॥ १५.१५ ॥
केचिदाहुर्महादेवमनादि निधनं प्रभुम्॥
भूतेन्द्रियान्तः करणप्रधानविषयात्मकम्॥ १५.१६ ॥
अपरं ब्रह्म निर्दिष्टं परं ब्रह्म चिदात्मकम्॥
ब्रह्मणी ते महेशस्य शिवस्यास्य स्वयम्भुवः॥ १५.१७ ॥
शङ्करस्य परस्यैव शिवादन्यन्न विद्यते॥
विद्याविद्यास्वरूपी च शङ्करः कैश्चिदुच्यते॥ १५.१८ ॥
धाता विधाता लोकानामादिदेवो महेश्वरः॥
विद्येति च तमेवाहुरविद्येति मुनीश्वराः॥ १५.१९ ॥
प्रपञ्चजातमखिलं ते स्वरूपे स्वयम्भुवः॥
भ्रान्तिर्विद्या परं चेति शिवरूपमनुत्तमम्॥ १५.२० ॥
अवापुर्मुनयो योगात्केचिदागमवेदिनः॥
अर्थेषु बहुरूपेषु विज्ञानं भ्रान्तिरुच्यते॥ १५.२१ ॥
आत्माकारेण संवित्तिर्बुधैर्विद्येति कीर्त्यते॥
विकल्परहितं तत्त्वं परमित्यभिधीयते॥ १५.२२ ॥
तृतीयरूपमीशस्य नान्यत्किञ्चन सर्वतः॥
व्यक्ताव्यक्तज्ञरूपीति शिवः कैश्चिन्निगद्यते॥ १५.२३ ॥
विधाता सर्व लोकानां धाता च परमेश्वरः॥
त्रयोविंशतितत्त्वानि व्यक्तशब्देन सूरयः॥ १५.२४ ॥
वदन्त्यव्यक्तशब्देन प्रकृतिः च परां तथा॥
कथयन्ति ज्ञशब्देन पुरुषं गुमभोगिनम्॥ १५.२५ ॥
तत्त्रयं शाङ्करं रूपं नान्यत्किञ्चिदशाङ्करम्॥ १५.२६ ॥
इति श्रीलिङ्गमहापुराणे उत्तरभागे पञ्चदशोऽध्यायः॥ १५ ॥