०१४

सनत्कुमार उवाच॥
पञ्च ब्रह्माणि मे नन्दिन्नाचक्ष्व गणसत्तम॥
श्रेयःकरणभूतानि पवित्राणि शरीरिणाम्॥ १४.१ ॥
नन्दिकेश्वर उवाच॥
शिवस्यैव स्वरूपाणि पञ्च ब्रह्माह्वयानि ते॥
कथयामि यथातत्त्वं पद्मयोनेः सुतोत्तम॥ १४.२ ॥
सर्वलोकैकसंहर्ता सर्वलोकैकरक्षिता॥
सर्वलोकैकनिर्माता पञ्चब्रह्मात्मकः शविः॥ १४.३ ॥
सर्वेषामेव लोकानां यदुपादानकारणम्॥
निमित्तकारणं चाहुस्स शिवः पञ्चधा स्मृतः॥ १४.४ ॥
मूर्तयः पञ्च विख्याताः पञ्च ब्रह्माह्वयाः पराः॥
सर्वलोकशरण्यस्य शिवस्य परमात्मनः॥ १४.५ ॥
क्षेत्रज्ञः प्रथमा मूर्तिशिवस्य परमेष्ठिनः॥
भोक्ता प्रकृतिवर्गस्य भोग्यस्येशानसञ्ज्ञितः॥ १४.६ ॥