०१३

सनत्कुमार उवाच॥
भूयोऽपि वद मे नन्दिन् महिमानमुमापते॥
अष्टमूर्तेर्महेशस्य शिवस्य परमेष्ठिनः॥ १३.१ ॥
नन्दिकेश्वर उवाच॥
वक्ष्यामि ते महेशस्य महिमानमुमापतेः॥
अष्टमूर्तेर्जगद्व्याप्य स्थितस्य परमेष्ठिनः॥ १३.२ ॥
चराचराणां भूतानां धाता विश्वम्भरात्मकः॥
शर्व इत्युच्यते देवः सर्वशास्त्रार्थपारगैः॥ १३.३ ॥
विश्वम्भरात्मनस्तस्य सर्वस्य परमेष्ठिनः॥
विकेशी कथ्यते पत्नी तनयोङ्गारकः स्मृतः॥ १३.४ ॥
भव इत्युच्यते देवो भगवान्वेदवादिभिः॥
सञ्जीवनस्य लोकानां भवस्य परमात्मनः॥ १३.५ ॥
उमा सङ्कीर्तिता देवी सुतः शुक्रश्च सूरिभिः॥
सप्तलोकाण्डकव्यापी सर्वलोकैकरक्षिता॥ १३.६ ॥
वह्न्यात्मा भगवान्देवः स्मृतः पशुपतिर्बुधैः॥
स्वाहा पत्न्यात्मनस्तस्य प्रोक्ता पशुपतेः प्रिया॥ १३.७ ॥
षणमुखो भगवान्देवो बुधैः पुत्र उदाहृतः॥
समस्तभुवनव्यापी भर्ता सर्वशरीरिणाम्॥ १३.८ ॥
पवनात्मा बुधैर्देव ईशान इति कीर्त्यते॥
ईशानस्य जगत्कर्तुर्देवस्य पवनात्मनः॥ १३.९ ॥
शिवा देवी बुदैरुक्ता पुत्रश्चास्य मनोजवः॥
चराचराणां भूतानां सर्वेषां सर्वकामदः॥ १३.१० ॥
व्योमात्मा भगवान्देवो भीम इत्युच्यते बुधैः॥
महामहिम्नो देवस्य भीमस्य गगनात्मनः॥ १३.११ ॥
दिशो दश स्मृता देव्यः सुतः सर्गश्च सूरिभिः॥
सूर्यात्मा भगवान्देवः सर्वेषां च विभूतिदः॥ १३.१२ ॥
रुद्र इत्युच्यते देवैर्भगवान् भुक्तिमुक्तिदः॥
सूर्यात्म कस्य रुद्रस्य भक्तानां भक्तिदायिनः॥ १३.१३ ॥
सुवर्चला स्मृता देवी सुतश्चास्य शनैश्चरः॥
समस्तसौम्यवस्तूनां प्रकृतित्वेन विश्रुतः॥ १३.१४ ॥
सोमात्मको बुधैर्देवो महादेव इति स्मृतः॥
सोमात्मकस्य देवस्य महादेवस्य सूरिभिः॥ १३.१५ ॥
दयिता रोहिणी प्रोक्ता बुधश्चैव शरीरजः॥
हव्यकव्यस्थितिं कुर्वन् हव्यकव्याशिनां तदा॥ १३.१६ ॥
यजमानात्मको देवो महादेवो बुधैः प्रभुः॥
उग्र इत्युच्यते सद्भिरीशानश्चेति चापरैः॥ १३.१७ ॥
उग्राह्वयस्य देवस्य यजमानात्मनः प्रभोः॥
दीक्षा पत्नी बुधैरुक्ता सन्तानाख्यः सुतस्तथा॥ १३.१८ ॥
शरीरिणां शरीरेषु कठिनं कोङ्कणादिवत्॥
पार्थिवं तद्वपुर्ज्ञेयं शर्वतत्त्वं बुभुत्सुभिः॥ १३.१९ ॥
देहेदेहे तु देवेशो देहभाजां यदव्ययम्॥
वस्तुद्रव्यात्मकं तस्य भवस्य परमात्मनः॥ १३.२० ॥
ज्ञेयं च तत्त्वविद्भिर्वै सर्ववेदार्थपारगैः॥
आग्नेयः परिणामो यो विग्रहेषु शरीरिणाम्॥ १३.२१ ॥
मूर्तिः पशुपतिर्ज्ञेया सा तत्त्वं वेत्तुमिच्छुभिः॥
वायव्यः परिणामो यः शरीरेषु शरीरिणाम्॥ १३.२२ ॥
बुधैरीशोति सा तस्य तनुर्ज्ञेया न संशयः॥
सुषिरं यच्छरीरस्थमशेषाणां शरीरिणाम्॥ १३.२३ ॥
भीमस्य सा तनुर्ज्ञेया तत्त्वविज्ञानकाङ्क्षिभिः॥
चक्षुरादिगतं तेजो यच्छरीरस्थमङ्गिनाम्॥ १३.२४ ॥
रुद्रस्यापि तनुर्ज्ञेया परमार्थं बुभुत्सुभिः॥
सर्वभूतशरीरेषु मनश्चन्द्रात्मकं हि यत्॥ १३.२५ ॥
महादेवस्य सा मूर्तिर्बोद्धव्या तत्त्वचिन्तकैः॥
आत्मा यो यजमानाख्यः सर्वभूतशरीरगः॥ १३.२६ ॥
मूर्तिरुग्रस्य सा ज्ञेया परमात्मबुभुत्सुभिः॥
जातानां सर्व भूतानां चतुर्दशसु योनिषु॥ १३.२७ ॥
अष्टमूर्तेरनन्यत्वं वदन्ति परमर्षयः॥
सप्तमूर्तिमयान्याहुरीशस्याङ्गानि देहिनाम्॥ १३.२८ ॥
आत्मा तस्याष्टमी मूर्तिः सर्वभूतशरीरगा॥
अष्टमूर्तिममुं देवं सर्वलोकात्मकं विभुम्॥ १३.२९ ॥
भजस्व सर्वभावेन श्रेयः प्राप्तुं यदीच्छसि॥
प्राणिनो यस्य कस्यापि क्रियते यद्यनुग्रहः॥ १३.३० ॥
अष्टमूर्तेर्महेशस्य कृतमाराधनं भवेत्॥
निग्रहश्चेत् कृतो लोके देहिनो यस्य कस्यचित्॥ १३.३१ ॥
अष्टमूर्तेर्महेशस्य स एव विहितो भवेत्॥
यद्यवज्ञा कृता लोके यस्य कस्य चिदङ्गिनः॥ १३.३२ ॥
अष्टमूर्तेर्महे शस्य विहिता सा भवेद्विभोः॥
अभयं यत् प्रदत्तं स्यादङ्गिनो वस्य कस्यचित्॥ १३.३३ ॥
आराधनं कृतं तस्मादष्टमूर्तेर्न संशयः॥
सर्वोपकारकरणं प्रदानमभयस्य च॥ १३.३४ ॥
आराधनं तु देवस्य अष्टमूर्तेर्न संशयः॥
सर्वोपकारकरणं सर्वानुग्रह एव च॥ १३.३५ ॥
तदर्चनं परं प्राहुरष्टमूर्तेर्मुनीश्वराः॥
अनुग्रहणमन्येषां विधातव्यं त्वयाङ्गिनाम्॥ १३.३६ ॥
सर्वाभयप्रदानं च शिवाराधनमिच्छता॥ १३.३७ ॥
इति श्रीलिङ्गमहापुराणे उत्तरभागे त्रयोदशोऽध्यायः॥ १३ ॥