सनत्कुमार उवाच॥
मूर्तयोऽष्ठौ ममाचक्ष्वशङ्करस्य महात्मनः॥
विश्वरूपस्य देवस्य गणेश्वर महामते॥ १२.१ ॥
नन्दिकेश्वर उवाच॥
हन्त ते कथयिष्यामि महिमानमुमापतेः॥
विश्वरूपस्य देवस्य सरोजभवसम्भव॥ १२.२ ॥
भूरापोग्निर्मरुद्रव्योम भास्करो दीक्षितः शशी॥
भवस्य मूर्तयः प्रोक्ताः शिवस्य परमेष्ठनः॥ १२.३ ॥
खात्मेन्दुवह्निसूर्याम्भोधराः पवन इत्यपि॥
तस्याष्ट मूर्तयः प्रोक्ता देवदेवस्य धीमतः॥ १२.४ ॥
अग्निहोत्रेर्पिते तेन सूर्यात्मनि महात्मनि॥
तद्विभूतिस्तथा सर्वे देवास्तृप्यन्ति सर्वदाः॥ १२.५ ॥
वृक्षस्य मूलसेकेन यथा शाखोपशाखिकाः॥
तथा तस्यार्चया देवास्तथा स्युस्तथा स्युस्तद्विभूतयः॥ १२.६ ॥
तस्य द्वादशधा भिन्नं रूपं सूर्यात्मकं प्रभोः॥
सर्वदेवात्मकं याज्यं यजान्ति मुनिपुङ्गवाः॥ १२.७ ॥
अमृताख्या कला तस्य सर्वस्यादित्यरूपिणः॥
भूतसञ्जीवनी चेष्टा लोकोस्मिन् पीयते सदा॥ १२.८ ॥
चन्द्राख्यकिरणास्तस्य धूर्जटेर्भास्करात्मनः॥
ओषधीनां विवृद्ध्यर्थं हिमवृष्टिं वितन्वते॥ १२.९ ॥
सुक्लाख्यारश्मयस्तस्य शम्भोर्मार्तण्डरूपिणः॥
धर्मं वितन्वते लोके सस्यपाकादिकारणम्॥ १२.१० ॥
दिवाकरात्मनस्तस्य हरिकेशाह्वयः करः॥
नक्षत्रपोषकश्चैव प्रसिद्धः परमेष्ठिनः॥ १२.११ ॥
विश्वकर्माह्वयस्तस्य किरणो बुधपोषकः॥
सर्वेश्वरस्य देवस्य सप्तसप्तिस्वरूपिणः॥ १२.१२ ॥
विश्वव्यच इति ख्यातः किरणस्तस्य शूलिनः॥
शुक्रपोषकभावेन प्रतीतः सूर्यरूपिणः॥ १२.१३ ॥
संयद्वसुरीति ख्यातो यस्य रश्मिस्त्रिशूलिनः॥
लोहिताङ्गं प्रपुष्णाति सहस्रकिरणात्मनः॥ १२.१४ ॥
अर्वावसुरीति ख्यातो रश्मिस्तस्य पिनाकिनः॥
बृहस्पतिं प्रपुष्णाति सर्वदा तपनात्मनः॥ १२.१५ ॥
स्वराडिति समाख्यातः शिवस्यांशुः शनैश्चरम्॥
हरिदश्वात्मनस्तस्य प्रपुष्णाति दिवानिशम्॥ १२.१६ ॥
सूर्यात्मकस्य देवस्य विश्वयोनेरुमापतेः॥
सुषुम्णाख्यः सदा रश्मिः पुष्णाति शिशिरद्युतिम्॥ १२.१७ ॥
सौम्यानां वसुजातानां प्रकृतित्वमुपागता॥
तस्य सोमाह्वया मूर्तिः शङ्करस्य जगद्गुरोः॥ १२.१८ ॥
तस्य सोमात्मक रूप शुक्रत्वेन व्यवस्थितम्॥
शरीरभाजां सर्वेषां देवस्यान्तकशासिनः॥ १२.१९ ॥
शरीरिणामशेषाणां मनस्येव व्यवस्थितम्॥
वपुः सोमात्मकं शम्भोस्तस्य सर्वजगद्गुरोः॥ १२.२० ॥
शम्भोः षोडशधाभिन्ना स्थितामृतकलात्मनः॥
सर्वभूतशरीरेषु सोमाख्या मूर्तिरुत्तमा॥ १२.२१ ॥
देवान्पितॄंश्च पुष्णाति सुधयामृतया सदा॥
मूर्तिः सोमाह्वया तस्य देवदेवस्य शासितुः॥ १२.२२ ॥
पुष्णात्योषधिजातानि देहिनामात्मशुद्धये॥
सोमाह्वया तनुस्तस्य भवानीमिति निर्दिशेत्॥ १२.२३ ॥
यज्ञानां पतिभावेन जीवानां तपसामपि॥
प्रसिद्धरूपमेतद्वै मोमात्मकमुमापतेः॥ १२.२४ ॥
जलानामोषधीनां च पतिभावेन विश्रुतम्॥
सोमात्मकं वपुस्तस्य शम्भोर्भगवतः प्रभोः॥ १२.२५ ॥
देवो हिरण्यमयो मृष्टः परस्परविवेकिनः॥
करणानामशेषाणां देवतानां निराकृतिः॥ १२.२६ ॥
जीवत्वेन स्थिते तस्मिञ्छिवे सोमात्मके प्रभौ॥
मधुरा विलयं याति सर्वलोकैकरक्षिणी॥ १२.२७ ॥
यजमानाह्वया मूर्तिः शैवी हव्यैरहर्निशम्॥
पुष्णाति देवताः सर्वाः कव्यैः पितृगणानपि॥ १२.२८ ॥
यजमानाह्वया या सा तनुश्चाहुतिजा तया॥
वृष्ट्या भावयति स्पष्टं सर्वमेव परापरम्॥ १२.२९ ॥
अन्तःस्थं च बहिःस्थं च ब्रह्माण्डानां स्थितं जलम्॥
भूतानां च शरीरस्थं शम्भोर्मूर्तिर्गरीयसी॥ १२.३० ॥
नदीनाममृतं साक्षान्नदानामपि सर्वदा॥
समुद्राणां च सर्वत्र व्यापी सर्वमुमापतिः॥ १२.३१ ॥
सञ्जीविनी समस्तानां भूतानामेव पाविनी॥
अम्बिका प्राणसंस्था या मूर्तिलम्बुमयी परा॥ १२.३२ ॥
अन्तःस्थश्चज बहिःस्थश्च ब्रह्माण्डानां विभावसुः॥
यज्ञानां च शरीरस्थः शम्भोर्मूर्तिर्गरीयसी॥ १२.३३ ॥
शरीरस्था च भूतानां श्रेयसी मूर्तिरैश्वरी॥
मूर्तिः पावक संस्था या शम्भोरत्यन्तपूजिता॥ १२.३४ ॥
भेदा एकोनपञ्चाशद्वेदविद्भिरुदाहृताः॥
हव्यं वहति देवानां शम्भोर्यज्ञात्मकं वपुः॥ १२.३५ ॥
कव्यं पितृगणानां च हूयमानं द्विजातिभिः॥
सर्वदेवमयं शम्भोः श्रेष्ठमग्यात्मकं वपुः॥ १२.३६ ॥
वदन्ति वेदशास्त्रज्ञा यजन्ति च यथाविधि॥
अन्तःस्थो जगदण्डानां बहिःस्थश्च समीरणः॥ १२.३७ ॥
शरीरस्थश्च भूतानां शैवी मूर्तिः पटीयसी॥
प्राणाद्या नागकूर्माद्या आवहाद्याश्च वायवः॥ १२.३८ ॥
ईशानमूर्तेरेकस्य भेदाः सर्वे प्रकीर्तिताः॥
अन्तःस्थं जगदण्डानां बहिःस्थं च वियद्विभोः॥ १२.३९ ॥
शरीरस्थं च भूतानां शम्भोमूर्तिर्गरीयसी॥
शम्भोर्विश्वम्भरा मूर्तिः सर्वब्रह्माधिदेवता॥ १२.४० ॥
चराचराणां भूतानां सर्वेषां धारणे मता॥
चराचराणां भूतानां शरीराणि विदुर्बुधाः॥ १२.४१ ॥
पञ्चकेनेसमूर्तीनां समारब्धानि सर्वथा॥
पञ्चभूतानि चन्द्रार्कावात्मेति मुनिपुङ्गवाः॥ १२.४२ ॥
मूर्तयोऽष्टौ शिवस्याहुर्देवदेवस्य धीमतः॥
आत्मा तस्याष्टमी मूर्तिर्यजमानाह्वया परा॥ १२.४३ ॥
चराचर शरीरेषु सर्वेष्वेव स्थिता तदा॥
दीक्षितं ब्राह्मणं प्राहुरात्मानं च मुनीश्वराः॥ १२.४४ ॥
यजमानाह्वया मूर्तिः शिवस्य शिवदायिनः॥
मूर्तयोऽष्टौ शिवस्यैता वन्दनीयाः प्रयत्नतः॥ १२.४५ ॥
श्रेयोर्थिमिभिर्नरौर्नित्यं श्रेयसामेकहेतवः॥ १२.४६ ॥
इति श्रीलिङ्गमहापुराणे उत्तरभागे द्वादशोऽध्यायः॥ १२ ॥