०११

सनत्कुमार उवाच॥
विभूतीः शिवयोर्मह्यमाचक्ष्व त्वं गणाधिप॥
परापरविदां श्रेष्ठ परमेश्वरभावित॥ ११.१ ॥

नन्दिकेश्वर उवाच॥
हन्त ते कथयिष्यामि विभूतीः शिवयोरहम्॥
सनत्कुमार योगीन्द्र ब्रह्मणस्तनयोत्तम॥ ११.२ ॥

परमात्मा शिवः प्रोक्तः शिवासा च प्रकीर्तिता॥
शिवमेवेश्वरं प्राहुर्मायां गौरीं विदुर्बुधाः॥ ११.३ ॥

पुरुषं शङ्करं प्राहुर्गौरीं च प्रकृतिं द्विजाः॥
अर्थः शम्भुः शिवा वाणी दिवसोऽजः शिवा निशा॥ ११.४ ॥

सप्ततन्तुर्महादेवो रुद्राणी दक्षिणा स्मृता॥
आकाशं शङ्करो देवः पृथिवी शङ्करप्रिया॥ ११.५ ॥

समुद्रो भगवान् रुद्रो वेला शैलेन्द्रकन्यका॥
वृक्षः शूलायुधो देवः शूलपाणिप्रिया लता॥ ११.६ ॥

ब्रह्मा हरोपि सावित्री शङ्करार्धसरीरिणी॥
विष्णुर्महेश्वरो लक्ष्मीर्भवानी परमेश्वरी॥ ११.७ ॥

वज्रपाणिर्महादेवः शची शैलेन्द्रकन्यका॥
जातवेदाः स्वयं रुद्रः स्वाहा शर्वार्धकायिनी॥ ११.८ ॥

यमस्त्रियम्बको देवस्तात्प्रिया गिरिकन्यका॥
वरुणो भगवान् रुद्रो गौरी सर्वार्थदायिनी॥ ११.९ ॥

बालेन्दुशोखरो वायुः शिवा शिवमनोरमा॥
चन्द्रार्धमौलिर्यक्षेन्द्रः स्वयमृद्धिः शिवा स्मृता॥ ११.१० ॥

चन्द्रार्धशेखरश्चन्द्रो रोहिणी रुद्रवल्लभा॥
सप्तसप्तिः शिवः कान्ता उमादेवी सुवर्चला॥ ११.११ ॥

पण्मुखस्त्रिपुरध्वंसी देवसेना हरप्रिया॥
उमा प्रसूतीर्वै ज्ञेया दक्षो देवो महेश्वरः॥ ११.१२ ॥

पुरुषाख्यो मनुः शम्भुः शतरूपा शिवप्रिया॥
विदुर्भवानीमाकूतिं रुचिं च परमेश्वरम्॥ ११.१३ ॥

भृगुर्भगाक्षिहा देवः ख्यातिस्त्रिनयनप्रियः॥
मरीचिर्भगवान्रुद्रः सम्भूतिर्वल्लभा विभोः॥ ११.१४ ॥

विदुर्भवानीं रुचिरां कविं च परमेश्वरम्॥
गङ्गाधरेङ्गिरा ज्ञेयः स्मृतिः साक्षादुमा स्मृता॥ ११.१५ ॥

पुलस्त्यः शशभृन्मौलिः प्रीतिः कान्ता पिनाकिनः॥
पुलहस्त्रिपुरध्वंसी दया कालरिपुप्रिया॥ ११.१६ ॥

क्रतुर्दक्षक्रतुध्वंसी सन्नतिर्दायिताविभोः॥
त्रिनेत्रोऽत्रिरुमा साक्षादनसूया स्मृता बुधैः॥ ११.१७ ॥

ऊर्जामाहुरुमां वृद्धां वसिष्ठं च महेश्वरम्॥
शङ्करः पुरुषाः सर्वे स्त्रियः सर्वा महेश्वरी॥ ११.१८ ॥

पुल्लिङ्गशब्दवाच्या ये ते च रुदाः प्रकीर्तिताः॥
स्त्रीलिङ्गशब्दवाच्या याः सर्वा गौर्या विभूतयः॥ ११.१९ ॥

सर्वेस्त्रीपुरुषाः प्रोक्तास्तयोरेव विभूतयः॥
पदार्थशक्तयो यायास्ता गौरीति विदुर्बुधाः॥ ११.२० ॥

सासा विश्वेश्वरी देवी स च सर्वो महेश्वरः॥
शक्तिमन्तः पदार्था ये स स सर्वो महेश्वरः॥ ११.२१ ॥

अष्टौ प्रकृतयो देव्या मूर्तयः परिकीर्तिताः॥
तथा विकृतयस्तस्या देहबद्धविभूतयः॥ ११.२२ ॥

विस्फुलिङ्गा यथा तावदग्नौ च बहुधा स्मृताः॥
जीवाः सर्वे तथा शर्वो द्वन्द्वसत्त्वमुपागतः॥ ११.२३ ॥

गौरीरूपाणि सर्वाणिशरीराणि शरीरिणाम्॥
शरीरिणस्तथा सर्वे शङ्करांशा व्यवस्थिताः॥ ११.२४ ॥

श्राव्यं सर्वमुमारूपं श्रोता देवो महेश्वरः॥
विषयित्वं विभुर्धत्ते विषयात्मकतामुमा॥ ११.२५ ॥

स्रष्टव्यं वस्तुजातं तु धत्ते शङ्करवल्लभा॥
स्रष्टा स एव विश्वात्मा बालचन्द्रार्धशेखरः॥ ११.२६ ॥

दृश्यवस्तु प्रजारूपं बिभर्ति भुवनेश्वरी॥
द्रष्टा विश्वेश्वरो देवः शशिखण्डशिखामणिः॥ ११.२७ ॥

रसजातमुमारूपं घ्रेयजातं च सर्वशः॥
देवो रसयिता शम्भुर्घ्राता च भुवनेश्वरः॥ ११.२८ ॥

मन्तव्यवस्तुतां धत्ते महादेवी महेश्वरी॥
मन्ता स एव विश्वात्मा महादेवो महेश्वरः॥ ११.२९ ॥

बोद्धव्यं वस्तु रूपं च बिभर्ति भववल्लभा॥
देवः स एव भगवान् बोद्धा बालेन्दुशेखरः॥ ११.३० ॥

पीठाकृतिरुमा देवी लिङ्गरूपश्च शङ्करः॥
प्रतिष्ठाप्य प्रयत्नेन पूजयन्ति सुरासुराः॥ ११.३१ ॥

येये पदार्था लिङ्गाङ्कास्तेते शर्वविभूतयः॥
अर्था भगाङ्किता येये तेत गौर्या विभूतयः॥ ११.३२ ॥

स्वर्गपाताललोकान्तब्रह्माण्डावरणाष्टकम्॥
ज्ञेयं सर्वमुमारूपं ज्ञाता देवो महेश्वरः॥ ११.३३ ॥

बिभर्ति क्षेत्रतां देवी त्रिपुरान्तकवल्लभा॥
क्षेत्रज्ञात्वमथो धत्ते भगवानन्धकान्तकः॥ ११.३४ ॥

शिवलिङ्गं समुत्सृज्य यजन्ते चान्यदेवताः॥
स नृपः सह देशेन रौरवं नरकं व्रजेत्॥ ११.३५ ॥

शिवभक्तो न यो राजा भक्तोऽन्येषु सुरेषु यः॥
स्वपतिं युवतिस्त्यवत्वा यथा जारेषु राजते॥ ११.३६ ॥

ब्रह्मादयः सुराः सर्वे राजानश्च महर्द्धिकाः॥
मानवा मुनयश्चैव सर्वे लिङ्गं यजन्ति च॥ ११.३७ ॥

विष्णुना रावणं हत्वा ससैन्यं ब्रह्मणः सुतम्॥
स्थापितं विधिवद्भक्त्या लिङ्गं तीरे नदीपतेः॥ ११.३८ ॥

कृत्वा पापसहस्राणि हत्वा विप्रशतं तथा॥
भावात्समाश्रितो रुद्रं मुच्यते नात्र संशयः॥ ११.३९ ॥

सर्वे लिङ्गमया लोकाः सर्वे लिङ्गे प्रतिष्ठिताः॥
तस्मादभ्यर्चयेल्लिङ्गं यदीच्छेच्छाश्वतं पदम्॥ ११.४० ॥

सर्वाकारौ स्थितावेतौ नरैः श्रेयोऽर्थिभिः शिवौ॥
पूजनीयौ नमस्कार्यौ चिन्तनीयौ च सर्वदा॥ ११.४१ ॥

इति श्रीलिङ्गमहापुराणे उत्तरभागे एकादशोऽध्यायः॥ ११ ॥