०१०

सनत्कुमार उवाच॥
भूय एव ममाचक्ष्व महिमानमुमापतेः॥
भवभक्त महाप्राज्ञ भगवन्नन्दिकेश्वर॥ १०.१ ॥

शैलादिरुवाच॥
सनत्कुमार सङ्क्षेपात्तव वक्ष्याम्यशेषतः॥
महिमानं महेशस्य भवस्य परमेष्ठिनः॥ १०.२ ॥

नास्य प्रकृतिबन्धोऽभूद्बुद्धिबन्धो न कश्चन॥
न चाहङ्कारबन्धश्च मनोबन्धश्च नोऽभवत्॥ १०.३ ॥

चित्तबन्धो न तस्याभूच्छ्रोत्रबन्धो न चाभवत्॥
न त्वचां चक्षुषां वापि बन्धो जज्ञे कदाचन॥ १०.४ ॥

जिह्वाबन्धो न तस्याभूद्घ्राणबन्धो न कश्चन॥
पादबन्धः पाणिबन्धो वाग्बन्धश्चैव सुव्रत॥ १०.५ ॥

उपस्थेन्द्रिय बन्धश्च भूततन्मात्रबन्धनम्॥
नित्यशुद्धस्वभावेन नित्यबुद्धो निसर्गतः॥ १०.६ ॥

नित्यमुक्त इति प्रोक्तो मुनिभिस्तत्त्ववेदिभिः॥
अनादि मध्यनिष्ठस्य शिवस्य परमेष्ठिनः॥ १०.७ ॥

बुद्धिं सूते नियोगेन प्रकृतिः पुरुषस्य च॥
अहङ्कारं प्रसूतेऽस्या बुद्धिस्तस्य नियोगतः॥ १०.८ ॥

अन्तर्यामीति देहेषु प्रसिद्धस्य स्वयम्भुवः॥
इन्द्रियाणि दशैकं च तन्मात्राणि च शासनात्॥ १०.९ ॥

अहङ्कारोऽतिसंसूते शिवस्य परमेष्ठिनः॥
तन्मात्राणि नियोगेन तस्य संसुक्ते प्रभो॥ १०.१० ॥

महाभूतान्यशेषेण महादेवस्य धीमतः॥
ब्रह्मादीनां तृणान्तं हि देहिनां देहसङ्गतिम्॥ १०.११ ॥

महाभूतान्यशेषाणि जनयन्ति शिवाज्ञया॥
अध्यवस्यति सर्वार्थान्बुद्धिस्तस्याज्ञया विभोः॥ १०.१२ ॥

अन्तर्यामीति देहेषु प्रसिद्धस्य स्वयम्भुवः॥
स्वभावसिद्धमैश्वर्यं स्वभावादेव भूतयः॥ १०.१३ ॥

तस्याज्ञया समस्तार्थानहङ्कारोऽतिमन्यते॥
चित्तं चेतयते चापि मनः सङ्कल्पयत्यपि॥ १०.१४ ॥

श्रोत्रं श्रृणोति तच्छक्त्या शब्दस्पर्शादिकं च यत्॥
शम्भोराज्ञबलेनैव भवस्य परमेष्ठिनः॥ १०.१५ ॥

वचनं कुरुते वाक्यं नादानादि कदाचन॥
शरीराणामशेषाणां तस्य देवस्य शासनात्॥ १०.१६ ॥

करोति पाणिरादानं न गत्यादि कदाचन॥
सर्वेषामेव जन्तूनां नियमादेव वेधसः॥ १०.१७ ॥

विहारं कुरुते पादो नोत्सर्गादि कदाचन॥
समस्तदेहिवृन्दानां शिवस्यैव नियोगतः॥ १०.१८ ॥

उत्सर्गं कुरुते पायुर्न वदेत कदाचन॥
जन्तोर्जातस्य सर्वस्य परमेश्वरशानात्॥ १०.१९ ॥

आनन्दं कुरुते शश्वदुपस्थं वचनाद्विभोः॥
सर्वेषामेव भूतानामीश्वरस्यैव शासनात्॥ १०.२० ॥

अवकाशमशेषाणां भूतानां सम्प्रयच्छति॥
आकाशं सर्वदा तस्य परमस्यैव शासनात्॥ १०.२१ ॥

निर्देशेन शिवस्यैव भेदैः प्राणादिभिर्निजैः॥
बिभर्त्ति सर्वभूतानां शरीराणि प्रभञ्जनः॥ १०.२२ ॥

निर्देशाद्देवदेवस्य सप्तस्कन्धगतो मरुत्॥
लोकयात्रां वहत्येव भेदैः स्वैरावहादिभिः॥ १०.२३ ॥

नागाद्यैः पञ्चभिर्भेदैः शरीरेषु प्रवर्तते॥
अपदेशेन देवस्य परमस्य समीरणः॥ १०.२४ ॥

हव्यं वहति देवानां कव्यं कव्याशिनामपि॥
पाकं च कुरुते वह्निः शङ्करस्यैव शासनात्॥ १०.२५ ॥

भुक्तमाहारजातं यत्पचते देहिनां तथा॥
उदरस्थः सदा वह्निर्विश्वेश्वरनियोगतः॥ १०.२६ ॥

सञ्जीवयन्त्यशेषाणि भूतान्यापस्तदाज्ञया॥
अविलङ्घ्या हि सर्वेषामाज्ञा तस्य गरीयसी॥ १०.२७ ॥

चराचराणि भूतानि बिभर्त्येव तदाज्ञया॥
आज्ञया तस्य देवस्य देवदेवः पुरन्दरः॥ १०.२८ ॥

जीवतां व्याधिभिः पीडां मृतानां यातनाशतैः॥
विश्वम्भरः सदाकालं लोकैः सर्वैरलङ्घ्यया॥ १०.२९ ॥

देवान्पात्य सुरान् हन्ति त्रैलोक्यमखिलं स्थितः॥
अधार्मिकाणां वै नाशं करोति शिवशासनात्॥ १०.३० ॥

वरुणः सलिलैर्लोकान्सम्भावयति शासनात्॥
मज्जयत्याज्ञया तस्य पाशैर्बध्नाति चासुरान्॥ १०.३१ ॥

पुण्यानुरपं सर्वेषां प्राणिनां सम्प्रयच्छति॥
वित्तं वित्तेश्वरस्तस्य शासनात्परमोष्ठिनः॥ १०.३२ ॥

उदयास्तमये कुर्वन्कुरुते कालमाज्ञया॥
आदित्यस्तस्य नित्यस्य सत्यस्यपरमात्मनः॥ १०.३३ ॥

पुष्पाण्यौषधिजातानि प्रह्लादयति च प्रजाः॥
अमृतांशुः कलाधारः कालकालस्य शासनात्॥ १०.३४ ॥

आदित्या वसवो रुद्रा अश्विनौ मरुतस्तथा॥
अन्याश्च देवताः सर्वास्तच्छासनविनिर्मिताः॥ १०.३५ ॥

गन्धर्वा देवसंवाश्च सिद्धाः साध्याश्च चारणाः॥
यक्षरक्षःपिशाचाश्च स्थिताः शास्त्रेषु वेधसः॥ १०.३६ ॥

ग्रहनक्षत्रताराश्च यज्ञा वेदास्तपांसि च॥
ऋषीणां च गणाः सर्वे शासनं तस्य धिष्ठिताः॥ १०.३७ ॥

कव्याशिनां गणाः सप्तसमुद्रा गिरिसिन्धवः॥
शासने तस्य वर्तन्ते काननानि सरांसि च॥ १०.३८ ॥

कलाः काष्ठा निमेषाश्चमुहूर्ता दिवसाः क्षपाः॥
ऋत्वब्दपक्षमासाश्च नियोगात्तस्य धिष्ठिताः॥ १०.३९ ॥

युगमन्वन्तराण्यस्य शम्भोस्तिष्ठन्ति शासनात्॥
पराश्चैवपरार्धाश्च कालभेदास्तथापरे॥ १०.४० ॥

देवानां जातयश्चाष्टौ तिरश्चां पञ्च जातयः॥
मनुष्याश्च प्रवर्तन्ते देवदेवस्य धीमतः॥ १०.४१ ॥

जातानि भूतवृन्दानि चतुर्दशसु योनिषु॥
सर्वलोकनिषण्णानि तिष्ठन्त्यस्यैव शासनात्॥ १०.४२ ॥

चतुर्दशसु लोकेषु स्थिता जाताः प्रजाः प्रभोः॥
सर्वेश्वरस्य तस्यैव नियोगवशवर्तिनः॥ १०.४३ ॥

पातालानि समस्तानि भुवनान्यस्य शासनात्॥
ब्रह्माण्डानि च शेषाणि तथा सावरणानि च॥ १०.४४ ॥

वर्तमानानि सर्वाणि ब्रह्माण्डानि तदाज्ञया॥
वर्तन्ते सर्वभूताद्यैः समेतानि समन्ततः॥ १०.४५ ॥

अतीतान्यप्यसङ्ख्यानि ब्रह्माण्डानि तदाज्ञया॥
प्रवृत्तानि पदार्थौघैः सहितानि समन्ततः॥ १०.४६ ॥

ब्रह्माण्डानि भविष्यन्ति सह वस्तुभिरात्मक्तैः॥
करिष्यन्ति शिवस्याज्ञां सर्वैरावरणैः सह॥ १०.४७ ॥

इति श्रीलिङ्गमहापुराणे उत्तरभागे दशमोऽध्यायः॥ १० ॥