ऋषय ऊचुः॥
देवैः पुरा कृतं दिव्यं व्रतं पाशुपतं शुभम्॥
ब्रह्मणा च स्वयं सूत कृष्णेनाक्लिष्टकर्मणा॥ ९.१ ॥
पतितेन च विप्रेण धौन्धुमूकेन वै तथा॥
कृत्वा जप्त्वा गतिः प्राप्ता कथं पाशुपतं व्रतम्॥ ९.२ ॥
कथं पशुपतिर्देवः शङ्करः परमेश्वरः॥
वक्तुमर्हसि चास्माकं परं कौतूहलं हि नः॥ ९.३ ॥
सूत उवाच॥
पुरा शापाद्विनिर्मुक्तो ब्रह्मपुत्रो महायशाः॥
रुद्रस्य देवदेवस्य मरुदेशादिहागतः॥ ९.४ ॥
त्यक्त्वा प्रसादाद्रुद्रस्य उष्ट्रदेहमजाज्ञया॥
शिलादपुत्रमासाद्य नमस्कृत्य विधानतः॥ ९.५ ॥
मेरुष्टष्ठे मुनिवरः श्रुत्वा धर्ममनुत्तमम्॥
माहेश्वरं मुनिश्रेष्ठा ह्यपृच्छच्च पुनः पुनः॥ ९.६ ॥
नन्दिनं प्रणिपत्यैनं कथं पशुपतिः प्रभुः॥
वक्तुमर्हसि चास्माकं तत्सर्वं च तदाह सः॥ ९.७ ॥
तत्सर्वं श्रुतवान् व्यासः कृष्णद्वैपायनः प्रभुः॥
तस्मादहनुमश्रुत्य युष्माकं प्रवदामि वै॥ ९.८ ॥
सर्वे श्रृण्वं तु वचनं नमस्कृत्वा महेश्वरम्॥
सनत्कुमार उवाच॥
कथं पशुपतिर्देवः पशवः के प्रकीर्तिताः॥ ९.९ ॥
कैः पाशैस्ते निबध्यन्ते विमुच्यन्ते च ते कथम्॥
शैलादिरुवाच॥
सनत्कुमार वक्ष्यामि सर्वतद्यथातथम्॥ ९.१० ॥
रुद्रभक्तस्य शान्तस्य तव कल्यामचेतसः॥
ब्रह्माद्याः स्थावरान्ताश्च देवदेवस्य धीमतः॥ ९.११ ॥
पशवः परिकीर्त्यन्ते संसारवशवर्तिनः॥
तेषां पतित्वाद्भगवान् रुद्रः पशुपतिः स्मृतः॥ ९.१२ ॥
अनादिनिधनो धाता भगवान्विष्णुरव्ययः॥
मायापाशेन बध्नाति पशुवत्परमेश्वरः॥ ९.१३ ॥
स एव मोचकस्तेषां ज्ञानयोगेन सेवितः॥
अविद्यापाशबद्धानां नान्यो मोचक इष्यते॥ ९.१४ ॥
तमृते परमात्मानं शङ्करं परमेश्वरम्॥
चतुर्विंशतितत्त्वानि पाशा हि परमेष्ठिनः॥ ९.१५ ॥
तैः पाशैर्मोचयत्येकः शिवो जीवैरुपासितः॥
निबध्नाति पशूनेकश्चतुर्विंशतिपाशकैः॥ ९.१६ ॥
स एव भगवान्रुद्रो मोचयत्यपि सेवितः॥
दशेन्द्रियमयैः पाशैरन्तः करणसम्भवैः॥ ९.१७ ॥
भूततन्मात्रपाशैश्च पशून्मोचयति प्रभुः॥
इन्द्रियार्थमयैः पाशैर्बद्ध्व रभुः॥ ९.१८ ॥
आशु भक्ता भवन्त्येवं परमेश्वरसेवया॥
भजइत्येष धातुर्वै सेवायां परिकीर्तितः॥ ९.१९ ॥
तस्मात्सेवा बुधैः प्रोक्ता भक्तिशब्देन भूयसी॥
ब्रह्मदिस्तम्बपर्यन्तं पशून्बद्ध्वा महेश्वरः॥ ९.२० ॥
त्रिभिर्गुणमयैः पाशैः कार्यं कारयति स्वयम्॥
दृढेन भक्तियोगेन पशुभिः समुपासितः॥ ९.२१ ॥
मोचयत्येव तान्सद्यः शङ्करः परमेश्वरः॥
भजनं भक्तिरित्युक्ता वाङमनः कायकर्मभिः॥ ९.२२ ॥
सर्वकार्येणहेतुत्वात्पाशच्छेदपटीयसी॥
सत्यः सर्वग इत्यादि शिवस्य गुणचिन्तना॥ ९.२३ ॥
रुपोपादानचिन्ता च मानसं भजनं विदुः॥
वाचिकं भजनं धीराः प्रणवादिजपं विदुः॥ ९.२४ ॥
कायिकं भजनं सद्भिः प्राणायामादि कथ्यते॥
धर्माधर्ममयैः पाशैर्बन्धनं देहिनामिदम्॥ ९.२५ ॥
मोचकः शिव एवैको भगवान्परमेश्वरः॥
चतुर्विशतितत्त्वानि मायाकर्मगुणा इति॥ ९.२६ ॥
कीर्त्यन्ते विषयाश्चेति पाशा जीवनिबन्धनात्॥
तैर्बद्धाः शिवभक्त्यैव मुच्यन्ते सर्वदेहिनः॥ ९.२७ ॥
पञ्चक्लेशमयैः पाशैः पशून्बध्नाति शङ्करः॥
स एव मोचकस्तोषां भक्त्या सम्यगुपासितः॥ ९.२८ ॥
अविद्यामस्मितां रागं द्वेषं च द्विपदां वराः॥
वदन्त्यभिनिवेशं च क्लेशान्पाशत्वमागतान्॥ ९.२९ ॥
तमोमोहोमहामोहस्तामिस्र इति पण्डिताः॥
अन्धतामिस्र इत्याहुरविद्यां पञ्चधा स्थिताम्॥ ९.३० ॥
ताञ्जीवान्मुनिशार्दूलाः सर्वांश्चैवाप्यविद्यया॥
शिवो मोचयति श्रीमान्नान्यः कश्चिद्विमोचकः॥ ९.३१ ॥
अविद्यां तम इत्याहुरस्मितां मोह इत्यपि॥
महामोह इति प्राज्ञा रागं योगपरायणाः॥ ९.३२ ॥
द्वेषं तामिस्र इत्याहुरन्धतामिस्र इत्यपि॥
तथैवाभिनिवेशं च मिथ्याज्ञानं विवेकिनः॥ ९.३३ ॥
तमसोऽष्टविधा भेदा मोहश्चाष्टविधः स्मृतः॥
महामोहप्रभेदाश्च बुधैर्दश विचिन्तिताः॥ ९.३४ ॥
अष्टादशविधं चाहुस्तामिस्रं च विचक्षणाः॥
अन्धतामिस्रभेदाश्च तथाष्टादशधा स्मृताः॥ ९.३५ ॥
अविद्ययास्य सम्बन्धो नातीतो नास्त्यनागतः॥
भवेद्रागेण देवस्य शम्भोरङ्गनिवासिनः॥ ९.३६ ॥
कालेषु त्रिषु सम्बन्धस्तस्य द्वेषेण नो भवेत्॥
मायातीतस्य देवस्य स्थाणोः पशुपतेर्विभोः॥ ९.३७ ॥
तथैवाभिनिवेशेन सम्बन्धो न कदाचन॥
शङ्करस्य शरण्यस्य शिवस्य परमात्मनः॥ ९.३८ ॥
कुशलाकुशलैस्तस्य सम्बन्धो नैव कर्मभिः॥
भवेत्कालत्रये शम्भोरविद्यामतिवर्तिनः॥ ९.३९ ॥
विपाकैः कर्मणां वापि न भवेदेव सङ्गमः॥
कालेषु त्रिषु सर्वस्य शिवस्य शिवदायिनः॥ ९.४० ॥
सुखदुःखैरसंस्पृश्यः कालत्रितयवर्तिभिः॥
स तैर्विश्वरैः शम्भुर्बोधानन्दात्मकः परः॥ ९.४१ ॥
आशयैरपरामृष्टः कालत्रितयगोचरैः॥
धियां पतिः स्वभूरेष महादेवो महेश्वरः॥ ९.४२ ॥
अस्पृश्यः कर्मसंस्कारैः कालत्रितयवर्तिभिः॥
तथैव भोगसंस्कारैर्भगवानन्तकान्तकः॥ ९.४३ ॥
पुंविशेषपरो देवो भगवान्परमेश्वरः॥
चेत नाचेतनायुक्तप्रपञ्चादखिलात्परः॥ ९.४४ ॥
लोके सातिशयत्वेन ज्ञानैश्वर्यं विलोक्यते॥
शिवेनातिशयत्वेन शिवं प्राहुर्मनीषिणः॥ ९.४५ ॥
प्रतिसर्गं प्रसूतानां ब्रह्मणं शास्त्रविस्तरम्॥
उपदेष्टा स एवादौ कालावच्छेदवर्तिनाम्॥ ९.४६ ॥
कालावच्छेदयुक्तानां गुरूणामप्यसौ गुरुः॥
सर्वेषामेव सर्वेशः कालावच्छेदवर्जितः॥ ९.४७ ॥
अनादिरेष सम्बन्धो विज्ञानोत्कर्षयोः परः॥
स्थितयोरीदृशः सर्वः परिशुद्धः स्वभावतः॥ ९.४८ ॥
आत्मप्रयोजनाभावे परानुग्रह एव हि॥
प्रयोजनं समस्तानां कार्याणां परमेश्वरः॥ ९.४९ ॥
प्रणवो वाचकस्तस्य शिवस्य परमात्मनः॥
शिवरुद्रादिशब्दानां प्रणवोपि परः स्मृतः॥ ९.५० ॥
शम्भोः प्रणववाच्यस्य भावना तज्जपादपि॥
या सिद्धिः स्वपराप्राप्या भवत्येव न संशयः॥ ९.५१ ॥
ज्ञानतत्त्वं प्रयत्नेन योगः पाशुपतः परः॥
उक्तस्तु देवदेवेन सर्वेषामनुकम्पया॥ ९.५२ ॥
स होवाचैव याज्ञवल्क्या यदक्षरं गार्ग्ययोगिनः॥
अभिवदन्ति स्थूलमनन्तं महाश्चर्यमदीर्घमलोहितममस्तकमासायमत एवो
पुनानसमसङ्गमगन्धमरसमच्क्षुष्कमश्रोत्रमवाङ्मनोतेजस्कमप्रमाणमनुसुखमनामगोत्रममरमजरमनामयममृतमोंशब्दममृतमसंवृतमपूर्वमनपरमनन्तमबाह्यं तदश्राति किञ्चन न ताश्राति किञ्चन॥ ९.५३ ॥
एतत्कालव्यये ज्ञात्वा परं पाशुपतं प्रभुम्॥
योगे पाशुपते चास्मिन् यस्यार्थः किल उत्तमे॥ ९.५४ ॥
कृत्वोङ्कारं प्रदीपं मृगय गृहपतिं सूक्ष्ममाद्यन्तरस्थं संयम्य द्वारवासं पवनपटुतरं नायकं चोन्द्रियाणाम्॥
वाग्जालैः कस्य हेतोर्विभटसि तु भयं दृश्यते नैव किञ्चिद्देहस्थं पश्य शम्भुं भ्रमसि किमु परे सास्त्रजालेन्धकारे॥ ९.५५ ॥
एवं सम्यग्बुधैर्ज्ञात्वा मुनीनामथ चोक्तं शिवेन॥
असमरसं पञ्चधा कृत्वाभवं चात्मनि योजयेत्॥ ९.५६ ॥
इति श्रीलिङ्ङ्गमहापुराणे उत्तरभागे नवमोऽध्यायः॥ ९ ॥