००८

सुत उवाच॥
अष्टाक्षरो द्विजश्रेष्ठा नमो नारायणेति च॥
द्वादशाक्षरमन्त्रश्च परमः परमात्मनः॥ ८.१ ॥

मन्त्र षडक्षरो विप्राः सर्ववेदार्थसञ्चयः॥
यश्चोन्नमः शिवायेति मन्त्रः सर्वार्थसाधकः॥ ८.२ ॥

तथा शिवतरायेति दिव्यः पञ्चाक्षरः शुभः॥
मयस्कराय चेत्येवं नमस्ते शङ्कराय च॥ ८.३ ॥

सप्ताक्षरोयं रुद्रस्य प्रधानपुरुषस्य वै॥
ब्रह्मा च भगवान्विष्णुः सर्वे देवाः सवासवाः॥ ८.४ ॥

मन्त्रैरेतैर्द्विजश्रेष्ठा मुनयश्च यजन्ति तम्॥
शङ्करं देवदेवशं मयस्करमजोद्भवम्॥ ८.५ ॥

शिवं च शङ्करं रुद्रं देवदेवमुमापतिम्॥
प्राहुर्नमः शिवायोति नमस्ते शङ्कराय च॥ ८.६ ॥

मयस्कराय रुद्राय तथा शिवतराय च॥
जप्त्वा मुच्येत वै विप्रो ब्रह्महत्यादिभिः क्षणात्॥ ८.७ ॥

पुरा कश्चिद्द्विजः शक्तो धुन्धुमूक इति श्रुतः॥
आसीत्तृतीये त्रेतायामावर्त्ते च मनोः प्रभोः॥ ८.८ ॥

मेघवाहनकल्पे वै ब्रह्मणः परमात्मनः॥
मेघो भूत्वा महादेवं कृत्तिवाससमीश्वरम्॥ ८.९ ॥

बहुमानेन वै रुद्रं देवदेवो जनार्दनः॥
खिन्नोऽतिभाराद्रुद्रस्य निःश्वासोच्छ्वासवर्जितः॥ ८.१० ॥

विज्ञाप्य शितिकण्ठाय तपश्चक्रेम्बुजेक्षणः॥
तपसा परमैश्वर्यं बलं चैव तथाद्भुतम्॥ ८.११ ॥

लब्धवान्परमेशानाच्छङ्करात्परमात्मनः॥
तस्मात्कल्पस्तदा चासीन्मेघवाहनसञ्ज्ञया॥ ८.१२ ॥

तस्मिन्कल्पे मुनेः शापद्धुन्धुमूकसमुद्भवः॥
धुन्धुमूकात्मजस्तेन दुरात्मा च बभूव सः॥ ८.१३ ॥

धुन्धुमूकः पुरासक्तो भार्यया सह मोहितः॥
तस्यां वै स्थापितो गर्भः कामासक्तेन चेतसा॥ ८.१४ ॥

अमावास्यामहन्येव मुहूर्ते रुद्रदैवते॥
अन्तर्वत्नी तदा भार्या भुक्ता तेन यथासुखमा॥ ८.१५ ॥

असूत सा च तनयं विशल्याख्या प्रयत्नतः॥
रुद्रे मुहुर्ते मन्देन वीक्षिते मुनिसत्तमाः॥ ८.१६ ॥

मातुः पितुस्तथारिष्टं स सञ्जातस्तथात्मनः॥
ऋषी तमूचतुर्विप्रा धुन्धुमूकं मिथस्तदा॥ ८.१७ ॥

मित्रावरुणानामनौ दुष्पुत्र इति सत्तमौ॥
वसिष्ठः प्राह नीचोऽपि प्रभावाद्वै बृहस्पतेः॥ ८.१८ ॥

पुत्रस्तवासौ दुर्बुद्धिरपि मुच्यति किल्बिषात्॥
दुःखितो धुन्दुमूकोऽसौ दृष्ट्वा पुत्रमस्थितम्॥ ८.१९ ॥

जातकर्मादिकं कृत्वा विधिवत्स्वयमेव च॥
अध्यापयामास च तं विधिनैव द्विजोत्तमाः॥ ८.२० ॥

तेनाधीनं यथान्यायं धौन्धुमूकेन सुव्रताः॥
कृतोद्वाहस्तदा गत्वा गुरुशुश्रुषणे रतः॥ ८.२१ ॥

अनेनैव मुनिश्रेष्ठा धौन्धुमूकेन दुर्मदात्॥
भुक्त्वान्यां वृषलीं दृष्ट्वा स्वभार्यावाद्दिवानिशम्॥ ८.२२ ॥

एकशय्यासनगतो धौन्धुमूको द्विजाधमः॥
तथा चचार दुर्बुद्धिस्त्यक्त्वा धर्मगतिं पराम्॥ ८.२३ ॥

माध्वी पीता तया सार्धं तेन रागविवृद्धये॥
केनापि कारणेनैव तामुद्दिस्य द्विजोत्तमाः॥ ८.२४ ॥

निहता सा च पापेन वृषली गतमङ्गला॥
ततस्तस्यास्तदा तस्य भ्रातृभिर्निहतः पिता॥ ८.२५ ॥

माता च तस्य दुर्बुद्धेर्धौन्धुमूकस्य शोभना॥
भार्या च तस्य दुर्बुद्धेः श्यालास्ते चापि सुव्रताः॥ ८.२६ ॥

राज्ञा क्षणादहो नष्ट कुलं तस्याश्च तस्य च॥
गत्वासौ धौन्धुमूकश्च येन केनापि लीलया॥ ८.२७ ॥

दृष्ट्वा तु तं मुनिश्रेष्ठं रुद्रजाप्यपरायणम्॥
लब्ध्वा पाशुपतं तद्वै पुरा देवान्महेश्वरात्॥ ८.२८ ॥

लब्ध्वा पञ्चाक्षरं चैव षडक्षरमनुत्तमम्॥
पुनः पञ्चाक्षरं चैव जप्त्वा लक्षं पृथक् पृथक्॥ ८.२९ ॥

व्रतं कृत्वा च विधिना दिव्यं द्वादशमासिकम्॥
कालधर्मं गतः कल्पे पूजितश्च यमेन वै॥ ८.३० ॥

उद्धृता च तथा माता पिता श्यालाश्च सुव्रताः॥
पत्नी च सुभगा जाता सुस्मिता च पतिव्रता॥ ८.३१ ॥

ताभिर्विमानामारुह्य देवैः सेन्द्रैरभिष्टुतः॥
गाणपत्यमनु प्राप्य रुद्रस्य दयितोऽभवत्॥ ८.३२ ॥

तस्मादष्टाक्षरान्न्मन्त्रात्तथा वै द्वादशाक्षरात्॥
भवेत्कोटिगुणं पुण्यं नात्र कार्या विचारणा॥ ८.३३ ॥

तस्माज्जपेद्धियो नित्यं प्रागुक्तेन विधानतः॥
शक्तिबीजसमायुक्तं स याति परमां गतिम्॥ ८.३४ ॥

एतद्वः कथितं सर्वं कथासर्वस्वमुत्तमम्॥
यः पठेच्छृणुयाद्वापि श्रावयेद्वा द्विजोत्तमान्॥ ८.३५ ॥

स याति ब्रह्मलोकं तु रुद्रजाप्यमनुत्तमम्॥ ८.३६ ॥

इति श्रीलिङ्गमहापुराणे उत्तरभागे अष्टमोऽध्यायः॥ ८ ॥