ऋषय ऊचुः॥
किञ्जपान्मुच्यते जन्तुः सर्वलोकभयादिभिः॥
सर्वपापविनिर्मुक्तः प्राप्नोति परमां गतिम्॥ ७.१ ॥
अलक्ष्मींवाथ सन्त्यज्य गमिष्यति जपेन वै॥
लक्ष्मीवासो भवेन्मर्त्यः सूत वक्तुमिहार्हसि॥ ७.२ ॥
सूत उवाच॥
पुरा पितामहेनोक्तं वसिष्ठाय महात्मने॥
वक्ष्ये सङ्क्षेपतः सर्वं सर्वलोकहिताय वै॥ ७.३ ॥
श्रृण्वन्तु वचनं सर्वे प्रणिपत्य जनार्दनम्॥
देवदेवमजं विष्णुं कृष्णमच्युतमव्ययम्॥ ७.४ ॥
सर्वपापहरं शुद्धं मोक्षदं ब्रह्मवादिनम्॥
मनसाकर्मणा वाचा यो विद्वान्पुण्यकर्मकृत्॥ ७.५ ॥
नारायणं जपेन्नित्यं प्रणम्य पुरुषोत्तमम्॥
स्वपन्नारायणं देवं गच्छन्नारायणं तथा॥ ७.६ ॥
भुञ्जन्नारायणं विप्रास्तिष्ठञ्जाग्रत्सनातनम्॥
उन्मिषन्निमिषन्वापि नमो नारायणेति वै॥ ७.७ ॥
भोज्यं पेयं च लेह्यं च नमो नारायणेति च॥
अभिमन्त्र्य स्पृशन्भुङ्क्ते स याति परमां गतिम्॥ ७.८ ॥
सर्वपापविनिर्मुक्तः प्राप्नोति च सतां गतिम्॥
अलक्ष्मीश्च मया प्रोक्ता पत्नी या दुःसहस्य च॥ ७.९ ॥
नारायणपदं श्रुत्वा गच्छत्येव न संशयः॥
या लक्ष्मीर्देवदेवस्य हरेः कृष्णस्य वल्लभा॥ ७.१० ॥
गृहे क्षेत्रे तथावासे तनौवसति सुव्रताः॥
आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः॥ ७.११ ॥
इतमेकं सुनिष्पन्नं ध्येयो नारायणः सदा॥
किं तस्य बहुभिर्मन्त्रैः किं तस्य बहुभिर्व्रतैः॥ ७.१२ ॥
नमो नारायणायेति मन्त्रः सर्वार्थसाधकः॥
तस्मात्सर्वेषु कालेषु नमो नारायणेति च॥ ७.१३ ॥
जपेत्स याति विप्रेन्द्रा विष्णुलोकं सबान्धवः॥
अन्यच्च देवदेवस्य श्रृण्वन्तु मुनिसत्तमाः॥ ७.१४ ॥
मन्त्रो मया पुराभ्यस्तः सर्ववेदार्थसाधकः॥
द्वादशाक्षरसंयुक्तो द्वादशात्मा पुरातनः॥ ७.१५ ॥
तस्यैवेह च माहात्म्यं सङ्क्षेपात्प्रवदामि वः॥
कश्चिद्द्विजो महाप्राज्ञस्तपस्तप्त्वा कथञ्चन॥ ७.१६ ॥
पुत्रमेकं तयोत्पाद्य संस्कारैश्च यथाक्रमम्॥
योजयित्वा यताकालं कृतोपनयनं पुनः॥ ७.१७ ॥
अध्यापयामास तदा स च नोवाच किञ्चन॥
न जिह्वा स्पन्दते तस्य दुःखितोऽभूद्द्विजोत्तमः॥ ७.१८ ॥
वासुदेवेति नियतमैतरेयो वदत्यसौ॥
पिता तस्य तथा चान्यां परिणीय यथाविधि॥ ७.१९ ॥
पुत्रानुत्पादयामास तथैव विधिपूर्वकम्॥
वेदानधीत्य सम्पन्ना बभूवुः सर्वसम्मताः॥ ७.२० ॥
ऐतरेयस्य सा माता दुःखिता शोकमूर्च्छिता॥
उवाच पुत्राः सम्पन्ना वेदवेदाङ्गपारगाः॥ ७.२१ ॥
ब्राह्मणैः पूज्यमाना वै मोदयन्ति च मातरम्॥
मम त्वं भाग्यहीनायाः पुत्रो जातो निराकृतिः॥ ७.२२ ॥
ममात्र निधनं श्रेयो न कथञ्चन जीवितम्॥
इत्युक्तः स च निर्गम्य यज्ञवाटं जगाम वै॥ ७.२३ ॥
तस्मिन्याते द्विजानां तु न मन्त्राः प्रतिपेदिरे॥
ऐतरेये स्थितेतत्र ब्राह्मणा मोहितास्तदा॥ ७.२४ ॥
ततो वाणी समुद्भूता वासुदेवेति कीर्तनात्॥
ऐतरेयस्य ते विप्राः प्रणिपत्य यतातथम्॥ ७.२५ ॥
पूजां चक्रुस्ततो यज्ञं स्वयमेव समागतम्॥
ततः समाप्य तं यज्ञमैतरेयो धनादिभिः॥ ७.२६ ॥
सर्ववेदान्सदस्याह स षडङ्गान् समाहिताः॥
तुष्टुवुश्च तथा विप्रा ब्रह्माद्याश्च तथा द्विजाः॥ ७.२७ ॥
ससर्जुः पुष्पवर्षाणि खेचराः सिद्धचारणाः॥
एवं समाप्य वै यज्ञमैतरेयो द्विजोत्तमाः॥ ७.२८ ॥
मातरं पूजयित्वा तु विष्णोः स्थानं जगाम ह॥
एतद्वै कथितं सर्वं द्वादशाक्षरवैभवम्॥ ७.२९ ॥
पठतां श्रृण्वतां नित्यं महापातकनाशनम्॥
जपेद्यः पुरुषो नित्यं द्वादशाक्षरमव्ययम्॥ ७.३० ॥
स याति दिव्यमतुलं विष्णोस्तत्परमं पदम्॥
अपि पापसमाचारो द्वादशाक्षरतत्परः॥ ७.३१ ॥
प्राप्नोति परमं स्थानं नात्र कार्या विचारणा॥
किं पुनर्ये स्वधर्मस्था वासुदेवपरायणाः॥ ७.३२ ॥
दिव्यं स्थानं महात्मानः प्राप्नुवन्तीति सुव्रताः॥ ७.३३ ॥
इति श्रीलिङ्गमहापुराणे उत्तरभागे द्वादशाक्षरप्रशंसानाम सप्तमोऽध्यायः॥ ७ ॥