ऋष ऊचुः
मायावित्वं श्रुतं विष्णोर्देवदेवस्य धीमतः॥
कथं ज्येष्ठासमुत्पत्तिर्देवदेवाज्जनार्दनात्॥ ६.१ ॥
वक्तुमर्हसि चास्माकं लोमहर्षण तत्त्वतः॥
सूत उवाच॥
अनादिनिधनः श्रीमान्धाता नारायणः प्रभुः॥ ६.२ ॥
जगद्द्वैधमिदं चक्रे मोहनाय जगत्पतिः॥
विष्णुर्वै ब्राह्मणान्वेदान्वेदधर्मान् सनातनान्॥ ६.३ ॥
श्रियं पद्मां तथा श्रेष्ठां भागमेकमकारयत्॥
ज्येष्ठामलक्ष्मीमशुभां वेदबाह्यान्नराधमान्॥ ६.४ ॥
अधर्मं च महातेजा भागमेक मकल्पयत्॥
अलक्ष्मीमग्रतः सृष्ट्वा पश्चात्पद्मां जनार्दनः॥ ६.५ ॥
ज्येष्ठा तेन समाख्याता अलक्ष्मीर्द्विजसत्तमाः॥
अमृतोद्भववेलायां विषानन्तरमुल्बणात्॥ ६.६ ॥
अशुभा सा तथोत्पन्ना ज्येष्ठा इति च वै श्रुतम्॥
ततः श्रीश्च समुत्पन्ना पद्मा विष्णुपरिग्रहः॥ ६.७ ॥
दुःसहो नाम विप्रर्षिरुपयेमेऽशुभां तदा॥
ज्येष्ठां तां परिपूर्णोऽसौ मनसा वीक्ष्य धिष्ठिताम्॥ ६.८ ॥
लोकं चचारं हृष्टात्मा तया सह मुनिस्तदा॥
यस्मिन् घोषो हरेश्चैव हरस्य च महात्मनः॥ ६.९ ॥
वेदघोषस्तथा विप्रा होमधूमस्तथैव च॥
भस्माङ्गिनो वा यत्रासंस्तत्र तत्र भयार्दिता॥ ६.१० ॥
पिधाय कर्णौ संयाति धावमाना इतस्ततः॥
ज्येष्ठामेवंविधां दृष्ट्वा दुःसहो मोहमागतः॥ ६.११ ॥
तया सह वनं गत्वा चचार स महामुनिः॥
तपो महद्वने घोरे याति कन्या प्रतिग्रहम्॥ ६.१२ ॥
न करिष्यामि चेत्युक्त्वा प्रतिज्ञाय च तामृषिः॥
योगज्ञानपरः शुद्धो यत्र योगीश्वरो मुनिः॥ ६.१३ ॥
तत्रायान्तं महात्मानं मार्कण्डेयमपश्यत॥
प्रणिपत्य महात्मानं दुःसहो मुनिमब्रवीत्॥ ६.१४ ॥
भार्येयं भगवन्मह्यं न स्थास्यति कथञ्चन॥
किं करोमीति विप्रर्षे ह्यनया सह भार्यया॥ ६.१५ ॥
प्रविशामि तथा कुत्र कुतो न प्रविशाम्यहम्॥
मार्कण्डेय उवाच॥
श्रृणु दुःसह सर्वत्र अकीर्तिरशुभान्विता॥ ६.१६ ॥
अलक्ष्मीरतुला चेयं ज्येष्ठा इत्यभिशब्दिता॥
नारायणपरा यत्र वेदमार्गानुसारिणः॥ ६.१७ ॥
रुद्रभक्ता महात्मानो भस्मोद्धूलितविग्रहाः॥
स्थिता यत्र जना नित्यं मा विशेथाः कथञ्चन॥ ६.१८ ॥
नारायण हृषीकेश पुण्डरीकाक्ष माधव॥
अच्युतानन्त गोविन्द वासुदेव जनार्दन॥ ६.१९ ॥
रुद्र रुद्रेति रुद्रेति शिवाय च नमो नमः॥
नमः शिवतरायेति शङ्करायेति सर्वदा॥ ६.२० ॥
महादेव महादेव महादेवेति कीर्तयेत्॥
उमायाः पतये चैव हिरण्यपतये सदा॥ ६.२१ ॥
हिरण्यबाहवे तुभ्यं वृषाङ्काय नमो नमः॥
नृसिंहवामनाचिन्त्य माधवेति च ये जनाः॥ ६.२२ ॥
वक्ष्यन्ति सततं हृष्टा ब्राह्मणाः क्षत्रियास्तथा॥
वैश्याः शूद्राश्च ये नित्यं तेषां धनगृहादिषु॥
आरामे चैव गोष्ठेषु न विशेथाः कथञ्चन॥ ६.२३ ॥
ज्वालामालाकरालं च सहस्रादित्यसन्निभम्॥
चक्रं विष्णोरतीवोग्रं तेषां हन्ति सदाशुभम्॥ ६.२४ ॥
स्वाहाकारो वषट्कारो गृहे यस्मिन् हि वर्तते॥
तद्धित्वा चान्यमागच्छ समाघोषेथ यत्र वा॥ ६.२५ ॥
वेदाभ्यासरता नित्यं नित्यकर्मपरायणाः॥
वासुदेवार्चनरता दूरतस्तान्विसर्जयेत्॥ ६.२६ ॥
अग्निहोत्रं गृहे येषां लिङ्गार्चा वा गृहेषु च॥
वासुदेवतनुर्वापि चण्डिका यत्र तिष्ठति॥ ६.२७ ॥
दूरतो व्रज तान् हित्वा सर्वपापविवर्जितान्॥
नित्यनैमित्तिकैर्यज्ञैर्यजन्ति च महेश्वरम्॥ ६.२८ ॥
तान् हित्वा व्रज चान्यत्र दुःसहत्वं सहानया॥
श्रोत्रिया ब्राह्मणा गावो गुरवोऽतिथयः सदा॥ ६.२९ ॥
रुद्रभक्ताश्च पूज्यन्ते यैर्नित्यं तान्विवर्जयेत्॥
दुःसह उवाच॥
यस्मिन्प्रवेशो योग्यो मे तद्ब्रूहि मुनिसत्तम॥ ६.३० ॥
त्वद्वाक्याद्भयनिर्मुक्तो विशान्मेषां गृहे सदा॥
मार्कण्डेय उवाच॥
न श्रोत्रिया द्विजा गावो गुरवोऽतिथयः सदा॥
यत्र भर्ता च भार्या च परस्परविरोधिनौ॥ ६.३१ ॥
सभार्यस्त्वं गृहं तस्य विशेथा भयवर्जितः॥
देवदेवो महादेवो रुद्रस्त्रिभुवनेश्वरः॥ ६.३२ ॥
विनिन्द्यो यत्र भगवान् विशस्व भयवर्जितः॥
वासुदेवरतिर्नास्ति यत्र नास्ति सदाशिवः॥ ६.३३ ॥
जपहोमादिकं नास्ति भस्म नास्ति गृहे नृणाम्॥
पर्वण्यभ्यर्चनं नास्ति चतुर्दश्यां विशेषतः॥ ६.३४ ॥
कृष्णाष्टम्यां च रुद्रस्य सन्ध्यायां भस्मवर्जिताः॥
चतुर्दश्यां महादेवं न यजन्ति च यत्र वै॥ ६.३५ ॥
विष्णोर्नामविहिना ये सङ्गताश्च दुरात्मभिः॥
नमः कृष्णाय शर्वाय शिवाय परमेष्ठिने॥ ६.३६ ॥
ब्राह्मणाश्च नरा मूढा नवदन्ति दुरात्मकाः॥
तत्रैव सततं वत्स सभार्यस्त्वं समाविस॥ ६.३७ ॥
वेदघोषो न यत्रास्ति गुरुपूजादयो न च॥
पितृकर्मविहीनांस्तु सभार्यस्त्वं समाविश॥ ६.३८ ॥
रात्रौ रात्रौ गृहे यस्मिन् कलहो वर्तते मिथः॥
अनया सार्धमनिशं विश त्वं भयवर्जितः॥ ६.३९ ॥
लिङ्गार्चनं यस्य नास्ति यस्य नास्ति जपादिकम्॥
रुद्रभक्तिर्विनिन्दा च तत्रैव विश निर्भयः॥ ६.४० ॥
अतिथिः श्रोत्रियो वापि गुरुर्वावैष्णवोपि वा॥
न सन्ति यद्गृहे गावः सभार्यस्त्वं समाविश॥ ६.४१ ॥
बालानां प्रेक्षमाणानां यत्रादत्त्वा त्वभक्षयन्॥
भक्ष्याणि तत्र संहृष्टः सभार्यस्त्वं समाविश॥ ६.४२ ॥
अनभ्यर्च्य महादेवं वासुदेवमथापि वा॥
अहुत्वा विधिवद्यत्र तत्र नित्यं समाविश॥ ६.४३ ॥
पाप कर्मरता मूढा दयाहीनाः परस्परम्॥
गृहे यस्मिन्समासन्ते देशे वा तत्र संविश॥ ६.४४ ॥
प्राकारागारविध्वंसा न चैवेड्या कुटुम्बिनी॥
तद्गृहं तु समासाद्य वस नित्यं हि हृष्टधीः॥ ६.४५ ॥
यत्र कण्टकिनो वृक्षा यत्र निष्पाववल्लरी॥
ब्रह्मवृक्षश्च यत्रास्ति सभार्यास्त्वं समाविश॥ ६.४६ ॥
अगस्त्यार्कादयो वापि बन्धुजीवो गृहेषु वै॥
करवीरो विशेषेण नन्द्यावर्तमथापि वा॥ ६.४७ ॥
मल्लिका वा गृहे येषां सभार्यास्त्वं समाविश॥
कन्या च यत्र वै वल्ली द्रोही वा च जटी गृहे॥ ६.४८ ॥
बहुला कदली यत्र सभार्यस्त्वं समाविश॥
तालं तमालं भल्लातं तित्तिडीखण्डमेव च॥ ६.४९ ॥
कदम्बः खादिरं वापि सभार्यस्त्वं समाविश॥
न्यग्रोधं वा गृहे येषामश्वत्थं चूतमेव वा॥ ६.५० ॥
उदुम्बरं वा पनसं सभार्यास्त्वं समाविश॥
यस्य काकगृहं निम्बे आरामे वा गृहेपि वा॥ ६.५१ ॥
दण्डिनी मुण्डिनी वापि सभार्यस्त्वं समाविश॥
एका दासी गृहे यत्र त्रिगवं पञ्चमाहिषम्॥ ६.५२ ॥
षडश्वं सप्तमातङ्गं सभार्यस्त्वं समाविश॥
यस्य काली गृहे देवी प्रेतरूपा च डाकिनी॥ ६.५३ ॥
क्षेत्रपालेथवा यत्र सभार्यस्त्वं समाविश॥
भिक्षुबिम्बं च वै यस्य गृहे क्षपणकं तथा॥ ६.५४ ॥
बौद्धं वा बिम्बमासाद्य तत्र पूर्णं समाविश॥
शयनासनकालेषु भोजनाटनवृत्तिषु॥ ६.५५ ॥
येषां वदति नो वाणी नामानि च हरेः सदा॥
तद्गहं ते समाख्यातं सभार्यस्य निवेशितुम्॥ ६.५६ ॥
पाषण्डाचारनिरताः श्रौतस्मार्तबहिष्कृताः॥
विष्णुभक्ति विनिर्मुक्ता महादेवविनिन्दकाः॥ ६.५७ ॥
नास्तिकाश्च शठा यत्र सभार्यास्त्वं समाविश॥
सर्वस्मादधिकत्वं ये न वदन्ति पिनाकिनः॥ ६.५८ ॥
साधारणं स्मरन्त्येनं सभार्यस्त्वं समाविश॥
ब्रह्मा च भगवान्विष्णुः शक्रः सर्वसुरेश्वरः॥ ६.५९ ॥
रुद्रप्रसादजाश्चेति न वदन्ति दुरात्मकाः॥
ब्रह्मा च भगवान्विष्णुः शक्रश्च सम एव च॥ ६.६० ॥
वदन्ति मूढाः खद्योतं भानुं वा मूढचेतसः॥
तेषां गृहे तथा क्षेत्र आवासे वा सदाऽनया॥ ६.६१ ॥
विश भुङ्क्ष्व गृहं तेषां अपि पूर्णमनन्यधीः॥
येऽश्रन्ति केवलं मूढाः पक्वमन्नं विचेतसः॥ ६.६२ ॥
स्नामङ्गलहीनाश्च तेषां त्वं गृहमाविश॥
या नारी शौचविभ्रष्टा देहसंस्कारवर्जिता॥ ६.६३ ॥
सर्वभक्षरता नित्यं तस्याः स्ताने समाविश॥
मलिनास्याः स्वयं मर्त्या मलिनाम्बरधारिणः॥ ६.६४ ॥
मलदन्ता गृहस्थाश्च गृहे तेषां समाविश॥
पादशौचविनिर्मुक्ताः सन्ध्याकाले च शायिनः॥ ६.६५ ॥
सन्ध्यायाम श्रुते ये वै गृहं तेषां समाविश॥
अत्याशनरता मर्त्या अतिपानरता नराः॥ ६.६६ ॥
द्यूतवादक्रियामूढाः गृहे तेषां समाविश॥
ब्रह्मस्वहारिणो ये चायोग्यांश्चैव यजन्ति वा॥ ६.६७ ॥
शूद्रान्नभोजिनो वापि गृहं तेषां समाविश॥
मद्यपानरताः पापा मांस भक्षणतत्पराः॥ ६.६८ ॥
परदाररता मर्त्या गृहं तेषां समाविश॥
पर्वण्यनर्चाभिरता मैथुने वा दिवा रताः॥ ६.६९ ॥
सन्ध्यायां मैथुनं येषां गृहे तेषां समाविश॥
पृष्ठतो मैथुनं येषां श्वानवन्मृगवच्च वा॥ ६.७० ॥
जले वा मैथुनं कुर्यात्सभार्यस्त्वं समाविश॥
रजस्वलां स्त्रियं गच्छेच्चाण्डालीं वा नराधमः॥ ६.७१ ॥
कन्यां वा गोग-हे वापि गृहं तेषां समाविश॥
बहुना किं प्रलापेन नित्यकर्मबहिष्कृताः॥ ६.७२ ॥
रुद्रभक्तिविहीनाये गृहं तेषां समाविश॥
श्रृङ्गैर्दिव्यौषधैः क्षुद्रैः शेफ आलिप्य गच्छति॥ ६.७३ ॥
भगद्रावं करोत्यस्मात्सभार्यस्त्वं समाविश॥
सूत उवाच॥
इत्युक्त्वा स मुनिः श्रीमान्निर्मार्जय नयने तदा॥ ६.७४ ॥
ब्रह्मर्षिर्ब्रह्मसङ्काशस्तत्रैवान्तर्द्धिमातनोत्॥
दुःसहश्च तथोक्तानि स्तानानि च समीयिवान्॥ ६.७५ ॥
विशेषाद्देवदेवस्य विष्णोर्निदारतात्मनाम्॥
सभार्यो मुनिशार्दूलः सैषा ज्येष्ठा इति स्मृता॥ ६.७६ ॥
दुःसहस्तामुवाचेदं तडागाश्रममन्तरे॥
आस्व त्वमत्र चाहं वै प्रवेक्ष्यामि रसातलम्॥ ६.७७ ॥
आवयोः स्थानमालोक्य निवासार्थं ततः पुनः॥
आगमिष्यामि ते पार्श्वमित्युक्ता तमुवाच सा॥ ६.७८ ॥
किमश्रामि महाभाग को मे दास्यति वै बलिम्॥
इत्युक्तस्तां मुनिः प्राह याः स्त्रियस्त्वां यजन्ति वै॥ ६.७९ ॥
बलिभिः पुष्पधूपैश्च न तासां च गृहं विश॥
इत्युक्त्वा त्वाविशत्तत्र पातालं बिलयोगतः॥ ६.८० ॥
अद्यापि च विनिर्मग्नो मुनिः स जलसंस्तरे॥
ग्रामपर्वतबाह्येषु नित्यमास्तेऽशुभा पुनः॥ ६.८१ ॥
प्रसङ्गाद्देवन्देवेशो विष्णुस्त्रिभुवनेश्वरः॥
लक्ष्म्या दृष्टस्तया लक्ष्मीः सा तमाह जनार्दनम्॥ ६.८२ ॥
भर्ता गतो महाबाहो बिलं त्यक्त्वा स मां प्रभो॥
अनाथाहं जगन्नाथ वृत्तिं देहि नमोस्तु ते॥ ६.८३ ॥
सूत उवाच॥
इत्युक्तो भगवान्विष्णुः प्रहस्याह जनार्दनः॥
ज्येष्ठामलक्ष्मीं देवेशो माधवो मधुसूदनः॥ ६.८४ ॥
श्रीविष्णुरुवाच॥
ये रुद्रमनघं शर्वं शङ्करं नीललोहितम्॥
अम्बां हैमवतीं वापि जनित्रीं जगतामपि॥ ६.८५ ॥
मद्भक्तान्निन्दयन्त्यत्र तेषां वित्तं तवैव हि॥
येपि चैव महादेवं विनिन्द्यैव यजन्ति माम्॥ ६.८६ ॥
मूढा ह्यभाग्या मद्भक्ता अपि तेषां धनं तव॥
यस्याज्ञया ह्यहं ब्रह्मा प्रसादाद्वर्तते सदा॥ ६.८७ ॥
ये यजन्ति विनिन्द्यैव मम विद्वेषकारकाः॥
मद्भक्ता नैव ते भक्ता इव वर्तन्ति दुर्मदाः॥ ६.८८ ॥
तेषां गृहं धनं क्षेत्रमिष्टापूर्तं तवैव हि॥
सूत उवाच॥
इत्युक्त्वा तां परित्यज्य लक्ष्म्याऽलक्ष्मीं जनार्दनः॥ ६.८९ ॥
जजाप भगवन्रुद्रमलक्ष्मीक्षयसिद्धये॥
तस्मात्प्रदेयस्तस्यै च बलिर्नित्यम्मुनीश्वराः॥ ६.९० ॥
विष्णुभक्तैर्न सन्देहः सर्वयत्नेन सर्वदा॥
अङ्गनाभिः सदा पूज्या बलिभिर्विविधैर्द्विजाः॥ ६.९१ ॥
यः पठेच्छृणुयाद्वापि श्रावयेद्वा द्विजोत्तमान्॥
अलक्ष्मीवृत्तमनघो लक्ष्मीवाल्लँभते गतिम्॥ ६.९२ ॥
इति श्रीलिङ्गमहापुराणे उत्तरभागे अलक्ष्मीवृत्तं नाम षष्ठेऽध्यायः ॥ ६ ॥