ऋषय ऊचुः॥
ऐक्ष्वाकुरम्बरीषो वै वासुदेवपरायणः॥
पालयामास पृथिवीं विष्णोराज्ञापुरः सरः॥ ५.१ ॥
श्रुतमेतन्महाबुद्धे तत्सर्वं वक्तुमर्हसि॥
नित्यं तस्य हरेश्चक्रं शत्रुरोगभयादिकम्॥ ५.२ ॥
हन्तीति श्रूयते लोके धार्मिकस्य महात्मनः॥
अम्बरीषस्य चरितं तत्सर्वं ब्रूहि सत्तम॥ ५.३ ॥
माहात्म्यमनुभावं च भक्तियोगमनुत्तमम्॥
यथावच्छ्रोतुमिच्छामः सूत वक्तुं त्वमर्हसि॥ ५.४ ॥
सूत उवाच॥
श्रूयतां मुनिशार्दूलाश्चरितं तस्य धीमतः॥
अम्बरीषस्य माहात्म्यं सर्वपापहरं परम्॥ ५.५ ॥
त्रिशङ्कोर्दयिता भार्या सर्वलक्षणशोभिता॥
अम्बरीषस्य जननी नित्यं शौचसमन्विता॥ ५.६ ॥
योगनिद्रासमारूढं शेषपर्यङ्कशायिनम्॥
नारायणं महात्मानं ब्रह्माण्डकमलोद्भवम्॥ ५.७ ॥
तमसा कालरुद्राख्यं रजसा कनकाण्डजम्॥
सत्त्वेन सर्वगं विष्णुं सर्वदेवनमस्कृतम्॥ ५.८ ॥
अर्चयामाम सततं वाङ्मनः कायकर्मभिः॥
माल्यदानादिकं सर्वं स्वयमेवमचीकरत्॥ ५.९ ॥
गन्धादिषेषणं चैव धूपद्रव्यादिकं तथा॥
भूमेरालेपनादीनि हविषां पचनं तथा॥ ५.१० ॥
तत्कौतुकसमाविष्टा स्वयमेव चकार सा॥
शुभा पद्मावती नित्यं वाचा नारायणेति वै॥ ५.११ ॥
अनन्तेत्येव सा नित्यं भाषमाणा पतिव्रता॥
दशवर्षसहस्राणि तत्परेणान्तरात्मना॥ ५.१२ ॥
अर्चयामास गोविन्दं गन्धपुष्पादिभिः शुचिः॥
विष्णुभक्तान्महाभागान् सर्वपापविवर्जितान्॥ ५.१३ ॥
दानमानार्चनैर्नित्यं धनरत्नैरतोषयत्॥
ततः कदाचित्सा देवी द्वादशीं समुपोष्य वै॥ ५.१४ ॥
हरेरग्रे महाभागा सुष्वाप पतिना सह॥
तत्र नारायणो देवस्तामाह पुरुषोत्तमः॥ ५.१५ ॥
किमिच्छसि वरं भद्रे मत्तस्त्वम ब्रूहि भामिनि॥
सा दृष्ट्वा तु वरं वव्रे पुत्रो मे वैष्णवो भवेत्॥ ५.१६ ॥
सार्वभौमो महातेजाः स्वकर्मनिरतः शुचिः॥
तथेत्युक्तवा ददौ तस्यै फलमेकं जनार्दनः॥ ५.१७ ॥
सा प्रबुद्धा फलं दृष्ट्वा भर्त्रे सर्वं न्यवेदयत्॥
भक्षयामास संहृष्टा फलं तद्गतमानसा॥ ५.१८ ॥
ततः कालेन सा देवी पुत्रं कुलविवर्धनम्॥
असूत सा सदाचारं वासुदेवपरायणम्॥ ५.१९ ॥
शुभलक्षणसम्पन्नं चक्राङ्किततनूरुहम्॥
जातं दृष्ट्वा पिता पुत्रं क्रियाः सर्वाश्चकार वै॥ ५.२० ॥
अम्बरीष इति ख्यातो लोके समभवत्प्रभुः॥
पितर्युपरते श्रीमानभिषिक्तो महामुनिः॥ ५.२१ ॥
मन्त्रिष्वाधाय राज्यं च तप उग्रञ्चकार सः॥
संवत्सरसहस्रं वै जपन्नारायणं प्रभुम्॥ ५.२२ ॥
हृत्पुण्डरीकमध्यस्थं सूर्यमण्डलमध्यतः॥
शङ्खचक्रगदापद्मधारयन्तं चतुर्भुजम्॥ ५.२३ ॥
शुद्धजाम्बूनदनिभं ब्रह्मविष्णुशिवात्मकम्॥
सर्वाभरणसंयुक्तं पीताम्बरधरं प्रभुम्॥ ५.२४ ॥
श्रीवत्सवक्षसं देवं पुरुषं पुरुषोत्तमम्॥
ततो गरुडमारुह्य सर्वदेवैरभिष्टुतः॥ ५.२५ ॥
आजगाम स विश्वात्मा सर्वलोकनमस्कृतः॥
ऐरावतमिवाचिन्त्यं कृत्वा वै गरुडंहरिः॥ ५.२६ ॥
स्वयं शक्र इवासीनस्तमाह नृपसत्तमम्॥
इन्द्रोऽहमस्मि भद्रं ते किं ददामि वरं च ते॥ ५.२७ ॥
सर्वलोकेश्वरोऽहं त्वांरक्षितुं समुपागतः॥
अम्बरीष उवाच॥
नाहं त्वमाभिसन्धाय तप आस्थितवानिह॥ ५.२८ ॥
त्वया दत्तं च नेष्यामि गच्छ शक्र यथासुखम्॥
मम नारायणो नाथस्तं नामामि जगत्पतिम्॥ ५.२९ ॥
गच्छेद्र माकृथास्त्वत्र मम बुद्धिविलोपनम्॥
ततः प्रहस्य भगवान् स्वरूपमकरोद्वरीः॥ ५.३० ॥
शार्ङ्गचक्रगदापाणिः खङ्गहस्तो जनार्दनः॥
गरुडोपरि सर्वात्मा नीलाचल इवापरः॥ ५.३१ ॥
देवगन्धर्वसङ्घैश्च स्तूयमानः समन्ततः॥
प्रणम्य स च सन्तुष्टस्तुष्टाव गरुडध्वजम्॥ ५.३२ ॥
प्रसीद लोकनाथेश मम नाथ जनार्दन॥
कृष्ण विष्णो जगन्नाथ सर्वलोकनमस्कृत॥ ५.३३ ॥
त्वमादिस्त्वमनादिस्त्वमनन्तः पूरुषः प्रभुः॥
अप्रमेयो विभुर्विष्णुर्गोविन्दः कमलेक्षणः॥ ५.३४ ॥
महेश्वराङ्गजो मध्ये पुष्करः खगमः खगः॥
कव्यवाहः कपाली त्वं हव्यवाहः प्रभञ्जनः॥ ५.३५ ॥
आदिदेवः क्रियानन्दः परमात्मात्मनी स्थितः॥
त्वां प्रपन्नोस्मिगोविन्द जय देवकिनन्दन॥
जय देव जगन्नाथ पाहि मां पुष्करेक्षण॥ ५.३६ ॥
नान्या गतिस्त्वदन्या मे त्वमेव शरणं मम॥
सूत उवाच॥
तमाह भगवान्विष्णुः किं ते हृदि चिकीर्षितम्॥ ५.३७ ॥
तत्सर्वं ते प्रदास्यामि भक्तोसि मम सुव्रत॥
भक्तिप्रियोऽहं सततं तस्माद्दातुमिहागतः॥ ५.३८ ॥
अम्बरीष उवाच॥
लोकनाथ परानन्द नित्यं मे वर्तते मतिः॥
वासुदेवपरो नित्यं वाङ्मनः कायकर्मभिः॥ ५.३९ ॥
यथा त्वं देवदेवस्य भवस्य परमात्मनः॥
तथा भवाम्यहं विष्णो तव देव जनार्दन॥ ५.४० ॥
पालियिष्यामि पृथिवीं कृत्वा वै वैष्णवं जगत्॥
यज्ञहोमार्चनैश्चैव तर्पयामि सुरोत्तमान्॥ ५.४१ ॥
वैष्णवान्पालयिष्यामि निहनिष्यामि शात्रवान्॥
लोकतापभये भीत इति मे धीयते मतिः॥ ५.४२ ॥
श्रीभगवानुवाच॥
एवमस्तु यथेच्छं वै चक्रमेतत्सुदर्शनम्॥
पुरा रुद्रप्रसादेन लब्धं वै दुर्लभं मया॥ ५.४३ ॥
ऋषिशापादिकं दुःखं शत्रुरोगादिकं तथा॥
निहनिष्यति ते नित्यमित्युक्त्वान्तरधीयत॥ ५.४४ ॥
सूत उवाच॥
ततः प्रणम्य मुदितो राजा नारायणं प्रभुम्॥
प्रविश्य नगरीं रम्यामयोध्यां पर्यपालयत्॥ ५.४५ ॥
ब्राह्मणादींश्च वर्णांश्च स्वस्वकर्मण्ययोजत्॥
नारायणपरो नित्यं विष्णुभक्तानकल्मषान्॥ ५.४६ ॥
पालयामास हृष्टात्मा विशेषेण जनाधिपः॥
अश्वमेधशतैरिष्ट्वा वाजपेयशतेन च॥ ५.४७ ॥
पालयामास पृथिवीं सागरावरणामिमाम्॥
गृहेगृहे हरिस्तस्थौ वेदघोषो गृहेगृहे॥ ५.४८ ॥
नामघोषो हरेश्चैव यज्ञघोषस्तथैव च॥
अभवन्नृपशार्दूले तस्मिन् राज्यं प्रशासति॥ ५.४९ ॥
नासस्या नातृणा भूमिर्न दुर्भिक्षादिभिर्युता॥
रागहीनाः प्रजा नित्यं सर्वोपद्रववर्जिताः॥ ५.५० ॥
अम्बरीषो महातेजाः पालयामास मेदिनीम्॥
तस्यैवंवर्तमानस्य कन्या कमललोचना॥ ५.५१ ॥
श्रीमती नाम विख्याता सर्वलक्षणसंयुता ॥
प्रदानसमयं प्राप्ता देवमायेव शोभना॥ ५.५२ ॥
तस्मिन्काले मुनिः श्रीमान्नारदोऽभ्यागतश्चवै॥
अम्बरीषस्य राज्ञो वै पर्वतश्च महामतिः॥ ५.५३ ॥
तावुभावागतौ दृष्ट्वा प्रणिपत्य यथाविधि॥
अम्बरीषो महातेजाः पूजयामास तावृषी॥ ५.५४ ॥
कन्यां तां रममाणां वै मेघमध्ये शतह्रदाम्॥
प्राह तां प्रेक्ष्य गवान्नारदः सस्मितस्तदा॥ ५.५५ ॥
केयं राजन्महाभागा कन्या सुरसुतोपमा॥
ब्रूहि धर्मभृतां श्रेष्ठ सर्वलक्षणशोभिता॥ ५.५६ ॥
राजोवाच॥
दुहितेयं मम विभो श्रीमती नाम नामतः॥
प्रदानसमयं प्राप्ता वरमन्वेषते शुभा॥ ५.५७ ॥
इत्युक्तो मुनिशार्दूलस्तामैच्छन्नारदो द्विजाः॥
पर्वतोपि मुनिस्तां वै चकमे मुनिसत्तमाः॥ ५.५८ ॥
अनुज्ञाप्य च राजानं नारदो वाक्यमब्रवीत्॥
रहस्याहूय धर्मात्मामम देहि सुतामिमाम्॥ ५.५९ ॥
पर्वतो हि तथा प्राह राजानं रहसि प्रभुः॥
तावुभौ सह धर्मात्मा प्रणिपत्य भयार्दितः॥ ५.६० ॥
उभौ भवन्तौ कन्यां मे पार्थयानौ कथं त्वहम्॥
करिष्यामि महाप्राज्ञ श्रृणु नारद मे वचः॥ ५.६१ ॥
त्वं च पर्वत मे वाक्यं श्रृणु वक्ष्यामि यत्प्रभो॥
क्न्येयं युवयोरेकं वरयिष्यति चेच्छुभा॥ ५.६२ ॥
तस्मै कन्यां प्रयच्छामि नान्यथा शक्तिरस्ति मे॥
तथेत्युक्त्वा ततो भूयः श्वो यास्याव इति स्म ह॥ ५.६३ ॥
इत्युक्त्वा मुनिसार्दूलौ जग्मतुः प्रीतिमानसौ॥
वासुदेवपरौ नित्यमुभौ ज्ञानविदांवरौ॥ ५.६४ ॥
विष्णु लोकं ततो गत्वा नारदो मुनिसत्तमः॥
प्रणिपत्य हृषीकेशं वाक्यमेतदुवाच ह॥ ५.६५ ॥
श्रोतव्यमस्ति भगवन्नाथ नारायण प्रभो॥
रहसि त्वां प्रवक्ष्यामि नमस्ते भुवनेश्वर॥ ५.६६ ॥
ततः प्रहस्य गोविन्दः सर्वानुत्सार्य तं मुनिम्॥
ब्रूहीत्याह च विश्वात्मा मुनिराह च केशवम्॥ ५.६७ ॥
त्वदीयो नृपतिः श्रीमानम्बरीषो महीपतिः॥
तस्य कन्या विशालाक्षी श्रीमती नाम नामतः॥ ५.६८ ॥
परिणेतुमनास्तत्र गतोऽस्मि वचनं श्रृणु॥
पर्वतोऽयं मुनिः श्रीमांस्तव भृत्यस्तपोनिधिः॥ ५.६९ ॥
तामैच्छत्सोपि भगवन्नावामाह जनाधिपः॥
अम्बरीषो महातेजाः कन्येयं युवयोर्वरम्॥ ५.७० ॥
लावण्ययुक्तं वृणुयाद्यदि तस्मै ददाम्यहम्॥
इत्याहावां नृपस्तत्र तथेत्युक्त्वाहमागतः॥ ५.७१ ॥
आगमिष्यामि ते राजन् श्वः प्रभाते गृहं त्विति॥
आगतोहं जगन्नाथ कर्तुमर्हसि मे प्रियम्॥ ५.७२ ॥
वानराननवद्भाति पर्वतस्य मुखं यथा॥
तथा कुरु जगन्नाथ मम चेदिच्छसि प्रियम्॥ ५.७३ ॥
तथेत्युक्त्वा स गोविन्दः प्रहस्त मधुसूदनः॥
त्वयोक्तं च करिष्यामि गच्छ सौम्य यथागतम्॥ ५.७४ ॥
एवमुक्त्वा मुनिर्हृष्टः प्रणिपत्य जनार्दनम्॥
मन्यमानः कृतात्मानं तथाऽयोध्यां जगाम सः॥ ५.७५ ॥
गते मुनिवरे तस्मिन्पर्वतोऽपि महामुनिः॥
प्रणम्य माधवं हृष्टो रहस्येनमुवाच ह॥ ५.७६ ॥
वृत्तं तस्य निवेद्याग्रे नारदस्य जगत्पतेः॥
गोलाङ्गूलमुखं यद्वन्मुखं भाति तथा कुरु॥ ५.७७ ॥
तच्छ्रुत्वा भगवान्विष्णुस्त्वयोक्तं च करोमि वै॥
गच्छ शीघ्रमयोध्यां वै मावेदीर्नारदस्य वै॥ ५.७८ ॥
त्वया मे संविदं तत्र तथेत्युक्त्वा जगाम सः॥
ततो राजा समाज्ञाय प्राप्तौ मुनिवरौ तदा॥ ५.७९ ॥
माङ्गल्यैर्विविधैः सर्वामयोध्यां ध्वजमालिनीम्॥
मडंयामास पुष्पैश्च लाजैर्श्चैव समन्ततः॥ ५.८० ॥
अम्बुसिक्तगृहद्वारां सिक्तापणमहापथाम्॥
दिव्यगन्धरसोपेतां धूपितां दिव्यधूपकैः॥ ५.८१ ॥
कृत्वा च नगरीं राजा मण्डयामास तां सभाम्॥
दिव्यैर्गन्धैस्तथा धूपै रत्नैश्च विविधैस्तथा॥ ५.८२ ॥
अलङ्कृतां मणिस्तम्भैर्नानामाल्योपशोभिताम्॥
परार्ध्यास्तरणोपेतैर्दिव्यैर्भद्रासनैर्वृताम्॥ ५.८३ ॥
कृत्वा नृपेन्द्रस्तां कन्यां ह्यादाय प्रविवेश ह॥
सर्वाभरणसम्पन्नां श्रीरिवायतलोजनाम्॥ ५.८४ ॥
करसम्मितमध्याङ्गीं पञ्चस्निग्धां शुभाननाम्॥
स्त्रीभिः परिवृतां दिव्यां श्रीमतीं संश्रितां तदा॥ ५.८५ ॥
सभा च सा भूपपेः समृद्धा मणिप्रवेकोत्तमरत्नचित्रा॥
न्यस्ता सना माल्यवती सुबद्धा तामाययुस्ते नरराजवर्गाः॥ ५.८६ ॥
अथापरो ब्रह्मवरात्मजो हि त्रैविद्यविद्यो भगवान्महात्मा॥
सपर्वतो ब्रह्मविदांव रिष्ठो महामुनिर्नारद आजगाम॥ ५.८७ ॥
तावगतौ समीक्ष्याथ राजा सम्भ्रान्तमानसः॥
दिव्यमासनामादाय पूजयामास तावुभौ॥ ५.८८ ॥
उभौ देवर्षिसिद्धौ ज्ञानविदां वरौ॥
समासीनौ महात्मानौ कन्यार्थं मुनिसत्त्मौ॥ ५.८९ ॥
तावुभौ प्रणिपत्याग्रे कन्यां तां श्रीमतीं शुभाम्॥
सुतां कमलपत्राक्षीं प्राह राजा यशस्विनीम्॥ ५.९० ॥
अनयोर्यं वरं भद्रे मनसा त्मविहेच्छसि॥
तस्मै मालामिमान्देहि प्रणिपत्य यथाविधि॥ ५.९१ ॥
एवमुक्ता तु सा कन्या स्त्रीभिः परिवृता तदा॥
मालां हिरण्मयीं दिव्यामादाय सुभलोचना॥ ५.९२ ॥
यत्रासीनौ महात्मानौ तत्रागम्यस्थिता तदा॥
वीक्षमाणा मुनिश्रेष्ठौ नारदं पर्वतं तथा॥ ५.९३ ॥
मुनिश्रेष्ठं न पश्यामि नारदं पर्वतं तथा॥
अनयोर्मध्यतस्त्वेकमूनषोडशवार्षिकम्॥ ५.९४ ॥
सम्भ्रान्तमानसा तत्र प्रवातकदली यथा॥
तस्थौ तामहा राजासौ वत्से किं त्वं करिष्यसि॥ ५.९५ ॥
अनयोरेक मुद्दिश्य देहि मालामिमां शुभे॥
सा प्राह पितरं त्रस्ता इमौ तौ नरवानरौ॥ ५.९६ ॥
मुनिश्रेष्ठं न पश्यामि नारदं पर्वतं तथा॥
अनयोर्मध्यतस्त्वेकमूनषोडशवार्षिकम्॥ ५.९७ ॥
सर्वाभरणसम्पन्नमतसीपुष्पसन्निभम्॥
दीर्घबाहुं विशालाक्षं तुङ्गोरस्थमुत्तमम्॥ ५.९८ ॥
रेखाङ्कितकटिग्रीवं रक्तान्तायलोचनम्॥
नम्रचापानुकरणपटुभ्रूयुगशोभितम्॥ ५.९९ ॥
विभक्तत्रिवलीव्यक्तं नाभिव्यक्तशुभोदरम्॥
हिरण्याम्बरसंवीतं तुङ्गरत्ननखं शुभम्॥
पद्माकारकरं त्वेनं पद्मास्यं पद्मलोचनम्॥ ५.१०० ॥
सुनासं पद्महृदयं पद्मनाभं श्रिया वृतम्॥
दन्तपङ्क्तिभिरत्यर्थं कुन्दकुड्मलसन्निभैः॥ ५.१०१ ॥
हसन्तं मां समालोक्य दक्षिणं च प्रसार्य वै॥
पाणिं स्थितममुं तत्र पश्यामि शुभमूर्धजम्॥ ५.१०२ ॥
सम्भ्रान्तमानसां तत्र वेपतीं कदलीमिव॥
स्थितां तामाह राजासौ वत्से किं त्वं करिष्यसि॥ ५.१०३ ॥
एवमुक्ते मुनिः प्राह नारदः संशयङ्गतः॥
कियन्तो बाहवस्तस्य कन्ये ब्रूहि यथातथम्॥ ५.१०४ ॥
बाहुद्वयं च पश्यामीत्याह कन्या शुचिस्मिता॥
प्राह तां पर्वतस्तत्र तस्य वक्षःस्थले शुभे॥ ५.१०५ ॥
किं पश्यसि च मे ब्रूहि करे किं वास्य पश्यसि॥
कन्या तमाह मालां वै पञ्चरूपामनुत्तमाम्॥ ५.१०६ ॥
वक्षःस्थलेऽस्य पश्यामि करे कार्मुकसायकान्॥
एवमुक्तौ मुनिश्रेष्ठौ परस्परमनुत्तमौ॥ ५.१०७ ॥
मनसा चिन्तयन्तौ मायेयं कस्य चिद्भवेत्॥
मायावी तस्करो नूनं स्वयमेव जनार्दनः॥ ५.१०८ ॥
आगतो न यता कुर्यात्कथमस्मन्मुखं त्विदम्॥
गोलाङ्गूलत्वमित्येवं चिन्तया मास नारदः॥ ५.१०९ ॥
पर्वतोपि यथान्यायं वानरत्वं कथं मम॥
प्राप्तमित्येव मनसा चिन्तामापेदिवांस्तथा॥ ५.११० ॥
ततो राजा प्रणम्यासौ नारदं पर्वतं तथा॥
भवद्भ्यां किमिदं तत्र कृतं बुद्धिविमोहजम्॥ ५.१११ ॥
स्वस्थौ भवन्तौ तिष्ठेतां यथा कन्यार्थ मुद्यतौ॥
एवमुक्तौ मुनिश्रेष्ठौ नृपमूचतुरुल्बणौ॥ ५.११२ ॥
त्वमेव मोहं कुरुषे नावामिह कथञ्चन॥
आवयोरेकमेषा ते वरयत्वेव माचिरम्॥ ५.११३ ॥
ततः सा कन्यका भूयः प्रणिप्तयेष्टदेवताम्॥
मायामादाय तिष्ठन्तं तयोर्मध्ये समाहितम्॥ ५.११४ ॥
सर्वाभरणसंयुक्त मतसीपुष्पसन्निभम्॥
दीर्घबाहुं सुपुष्टाङ्गं कर्णान्तायतलोचनम्॥ ५.११५ ॥
पूर्ववत्पुरुषं दृष्ट्वा मालां तस्मै ददौ हि सा॥
अनन्तरं हि सा कन्या न दृष्टा मनुजैः पुनः॥ ५.११६ ॥
ततो नादः समभवत् किमेतदिति विस्मितौ॥
तामादाय गतो विष्णुः स्वस्थानं पुरुषोत्तमः॥ ५.११७ ॥
पुरा तदर्थमनिशं तपस्तप्त्वा वराङ्गना॥
श्रीमती सा समुत्पन्ना सा गता च तथा हरिम्॥ ५.११८ ॥
तावुभौ मुनिशार्दूलौ धिक्कृतावति दुःखितौ॥
वासुदेवं प्रति तदा जग्मतुर्भवनं हरेः॥ ५.११९ ॥
तावागतौ समीक्ष्याह श्रीमतिं भगवान्हरिः॥
मुनिश्रेष्ठौ समायातौ गूहस्वात्मानमत्र वै॥ ५.१२० ॥
तथेत्युक्त्वा च सा देवी प्रहसन्ती चकार ह॥
नारदः प्रणिपत्याग्रे प्राह दामोदरं हरिम्॥ ५.१२१ ॥
प्रियं हि कृतवानद्य मम त्वं पर्वतस्य हि॥
त्वमेव नूनं गोविन्द कन्यां तां हृतवानासि॥ ५.१२२ ॥
विमोह्यावां स्वयं बुद्ध्या प्रतार्य सुरसत्तम॥
इत्युक्तः पुरषो विष्णुः पिधाय श्रोत्रमच्युतः॥
पाणिभ्यां प्राह भगवान् भवद्भ्यां किमुदीरितम्॥ ५.१२३ ॥
कामवानपि भावोयं मुनिवृत्तिरहो किल॥
एवमुक्तो मुनिः प्राह वासुदेवं स नारदः॥ ५.१२४ ॥
कर्णमूले मम कथं गोलाङ्गूलमुखं त्विति॥
कर्णमूले तमाहेदं वानरत्वं कृतं मया॥ ५.१२५ ॥
पर्वतस्य मया विद्वन् गोलाङ्गूलमुखं तव॥
मया तव कृतं तत्र प्रियार्थं नान्यथा त्विति॥ ५.१२६ ॥
पर्वतोऽपि तथा प्राह तस्याप्येवं जगादसः॥
श्रृण्वतोरुभयोस्तत्र प्राह दामोदरो वचः॥ ५.१२७ ॥
प्रियं भवद्भ्यां कृतवान् सत्येनात्मानमालभे॥
नारदः प्राह धर्मात्मा आवयोर्मध्यतः स्थितः॥ ५.१२८ ॥
धनुष्मानन्पुरुषः कोन तां हृत्वा गतवान्किल॥
तच्छ्रुत्वा वासुदेवोऽसौ प्राह तौ मुनिसत्त्मौ॥ ५.१२९ ॥
मायाविनो महात्मनो बहवः सन्ति सत्तमाः॥
तत्र सा श्रीमती नूनमदृष्ट्वा मुनिसत्तमौ॥ ५.१३० ॥
चक्रपाणिरहं नित्यं चतुर्बाहुरिति स्थितः॥
तां तथा नाहमैच्छं वै भवद्भ्यां विदितं हि तत्॥ ५.१३१ ॥
इत्युक्तौ प्रणिपत्यैनमूचतुः प्रीतिमानसौ॥
कोऽत्र दोषस्तव विभो नारायण जगत्पते॥ ५.१३२ ॥
दौरात्म्यं तन्नृपस्यैव मायां हि कृतवानसौ॥
इत्युक्त्वा जग्मतुस्तस्मान्मुनीनारदपर्वतौ॥ ५.१३३ ॥
अम्बरीषं समासाद्य शापेनैनमयोजयत्॥
नारदः पर्वतश्चैव यस्मादावामिहागतौ॥ ५.१३४ ॥
आहूय पश्चादन्यस्मै कन्यां त्वं दत्तवानसि॥
मायायोगेन तस्मात्त्वं तमो ह्यभिभविष्यति॥ ५.१३५ ॥
तेन चात्मानमत्यर्थं यथावत्त्वं च वेत्स्यसि॥
एवं शापेप्रदत्ते तु तमोराशिरथोत्थितः॥ ५.१३६ ॥
नृपं प्रति ततश्चक्रं विष्णोः प्रादुरभूत् क्षणात्॥
चक्रवित्रासितं घोरं तावुभौ तम अभ्यगात्॥ ५.१३७ ॥
ततः सन्त्रस्तसर्वाङ्गौ धावमानौ महामुनी॥
पृष्ठतश्चक्रमालोक्य तमोराशिं दुरासदम्॥ ५.१३८ ॥
कन्यासिद्धिरहो प्राप्ता ह्यावयोरिति वेगितौ॥
लोकालोकान्तमनिशं धावमानौ भयार्दितौ॥ ५.१३९ ॥
त्राहित्राहीति गोविन्दं भाषमाणौ भयार्दितौ॥
विष्णुलोकं ततो गत्वा नारायण जगत्पते॥ ५.१४० ॥
वासुदेव हृषीकेश पद्मनाभ जनार्दन॥
त्राह्यावां पुण्डरीकाक्ष नाथोऽसि पुरुषोत्तम॥ ५.१४१ ॥
ततो नारायणश्चिन्त्य श्रीमाञ्छ्रीवत्सलाञ्छनः॥
निवार्य चक्रं ध्वान्तं च भक्तानुग्रहकाम्यया॥ ५.१४२ ॥
अम्बरीषश्च मद्भक्तस्तथैतौ मुनिसत्तमौ॥
अनयोरस्य च तथा हितं कार्यं मयाऽधुना॥ ५.१४३ ॥
आहूय तत्तमः श्रीमान् गिरा प्रह्लादयन् हरिः॥
प्रोवाच भगवान् विष्णुः शृणुतां म इदंवचः॥ ५.१४४ ॥
ऋषिशापो न चैवासीदन्यथा च वरो मम॥
दत्तो नृपाय रक्षार्थं नास्ति तस्यान्यथा पुनः॥ ५.१४५ ॥
अम्बरीषस्य पुत्रस्यनप्तुः पुत्रो महायशाः॥
श्रीमान्दसरथो नाम राजा भवति धार्मिकः॥ ५.१४६ ॥
तस्याहमग्रजः पुत्रो रामनामा भवाम्यहम्॥
तत्र मे दक्षिणोबाहुर्भरतो नाम वै भवेत्॥ ५.१४७ ॥
शत्रुघ्नो नाम सव्यश्च शेषोऽसौ लक्ष्मणः स्मृतः॥
तत्र मां समुपागच्छ गच्छेदानीं नृपं विना॥ ५.१४८ ॥
मुनिश्रेष्ठौ च हित्वा त्वमिति स्माह च माधवः॥
एवममुक्तं तमो नाशं तत्क्षणाच्च जगाम वै॥ ५.१४९ ॥
निवारितं हरेश्चक्रं यथापूर्वमतिष्ठत॥
मुनिश्रेष्ठौ भयान्मुक्तौ प्रणिपत्य जनार्दनम्॥ ५.१५० ॥
निर्गतौ शोकसन्तप्तौ ऊचतुस्तौ परस्परम्॥
अद्यप्रभृति देहान्तमावां कन्यापरिग्रहम्॥ ५.१५१ ॥
न करिष्याव इत्युक्त्वा प्रतिज्ञाय च तावृषी॥
योगध्यानपरौ शुद्धौ यथापूर्वं व्यवस्थितौ॥ ५.१५२ ॥
अम्बरीषश्च राजासौ परिपाल्य च मेदिनीम्॥
सभृत्यज्ञातिसम्पन्नो विष्णुलोकं जगाम वै॥ ५.१५३ ॥
मानार्थमम्बरीषस्य तथैव मुनिसिंहयोः॥
रामो दाशथिर्भूत्वा नात्मवेदीश्वरोऽभवत्॥ ५.१५४ ॥
मुनयश्च तथा सर्वे भृग्वाद्या मुनिसत्तमाः॥
माया न कार्या विद्वद्भिरित्याहुः प्रेक्ष्यतं हरिम्॥ ५.१५५ ॥
नारदः पर्वतश्चैव चिरं ज्ञात्वा विचेष्टितम्॥
मायां विष्णोर्विनिन्द्यैव रुद्रभक्तौ बभूवतुः॥ ५.१५६ ॥
एतद्धि कथितंसर्व मया युष्माकमद्य वै॥
अम्बरीषस्य माहात्म्यं मायावित्वं च वै हरेः॥ ५.१५७ ॥
यः पठेच्छृणुयाद्वापि श्रावयेद्वापि मानवः॥
मायां विसृज्य पुण्यात्मा रुद्रलोकं स गच्छति॥ ५.१५८ ॥
इदं पवित्रं परमं पुण्यं वेदैरुदीरितम्॥
सायं प्रातः पठेन्नित्यं विष्णोः सायुज्यमाप्नुयात्॥ ५.१५९ ॥
इति श्रीलिङ्गमहापुराणे उत्तरभागे श्रीमत्याख्यानं नाम पञ्चमोऽध्यायः॥ ५ ॥