००४

ऋषय ऊचुः॥
वैष्णवा इति ये प्रोक्ता वासुदेवपरायणाः॥
कानि चिह्नानि तेषां वै तन्नो ब्रहि महामते॥ ४.१ ॥

तेषां वा किं करोत्येष भगवान् भूतभावनः॥
एतन्मे सर्वमाचक्ष्व सूत सर्वार्थवित्तम॥ ४.२ ॥

सूत उवाच॥
अम्बरीषेण वै पृष्टो मार्कण्डेयः पुरामुनिः॥
युष्मभिरद्य यत् प्रोक्तं तद्वदामि यथातथम्॥ ४.३ ॥

मार्कण्डेय उवाच॥
श्रृणु राजन्यथान्यायं यन्मां त्वं परिपृच्छसि॥
यत्रास्ते विष्णुभक्तस्तु तत्र नारायणः स्थितः॥ ४.४ ॥

विष्णुरेव हि सर्वत्र येषां वै देवता स्मृता॥
कीर्त्यमाने हरौ नित्यं रोमाञ्चो यस्य वर्तते॥ ४.५ ॥

कम्पः स्वेदस्तथक्षेषु दृस्यन्ते जलबिन्दवः॥
विष्णुभक्तिसमायुक्तान् श्रौतस्मार्तप्रवर्तकान्॥ ४.६ ॥

प्रीतो भवति यो दृष्ट्वा वैष्णवोऽसौ प्रकीर्तितः॥
नान्यदाच्छादयेद्वस्त्रं वैष्णवो जगतोऽरणे॥ ४.७ ॥

विष्णुभक्तमथायान्तं यो दृष्ट्वा सन्मुखस्थितः॥
प्रणामादि करोत्येवं वासुदेवे यथा तथा॥ ४.८ ॥

स वै भक्त इति ज्ञेयः स जयी स्याज्जगत्त्रये॥
रूक्षाक्षराणि श्रृण्वन्वै तथा भागवतेरितः॥ ४.९ ॥

प्रणामपूर्वं क्षान्त्या वै यो वदेद्वैष्णवो हि सः॥
गन्धपुष्पादि कं सर्वं शिरसा यो हि धारयेत्॥ ४.१० ॥९९

हरेः सर्वमितीत्येवं मत्त्वासौ वैष्णवः स्मृतः॥
विष्णुक्षेत्रे शुभान्येव करोति स्नेहसंयुतः॥ ४.११ ॥

प्रतिमां च हरेर्नित्यं पूजयेत्प्रयतात्मवान्॥
विष्णुभक्तः स विज्ञेयः कर्मणा मनसा गिरा॥ ४.१२ ॥

नारायणपरो नित्यं महाभागवतो हि सः॥
भोजनाराधनं सर्वं यथाशक्त्या करोति यः॥ ४.१३ ॥

विष्णुभक्तस्य च सदा यथान्यायं हि कथ्यते॥
नारायणपरो विद्वान्यस्यान्नं प्रीतमानसः॥ ४.१४ ॥

अश्राति तद्धरेरास्यं गतमन्नं न संशयः॥
स्वार्चनादपि विश्वात्मा प्रीतो भवति माधवः॥ ४.१५ ॥

महाभागवते तच्च दृष्ट्वासौ भक्तवत्सलः॥
वासुदेवपरं दृष्ट्वा वैष्णवं दग्धकिल्बिषम्॥ ४.१६ ॥

देवापि भीतास्तं यान्ति प्रणिपत्य यथागतम्॥
श्रूयतां हि पुरावृत्तं विष्णुभक्तस्य वैभवम्॥ ४.१७ ॥

दृष्ट्वा यमोऽपि वै भक्तं वैष्णवं दग्धकिल्बिषम्॥
उत्थाय प्राञ्जलिर्भूत्वा ननाम भृगुनन्दनम्॥ ४.१८ ॥

तस्मात्सम्पूजयेद्भक्त्या वैष्णवान्विष्णुवन्नरः॥
स याति विष्णुसामीप्य नात्र कार्या विचारणा॥ ४.१९ ॥

अन्यभक्तसहस्रेभ्यो विष्णुभक्तो विशिष्यते॥
विष्णुभक्तसहस्रेभ्यो रुद्रभक्तो विशिष्यते॥
रुद्रभक्तात्परतरो नास्तिलोके न सशंयः॥ ४.२० ॥

तस्मात्तु वैष्णवं चापि रुद्रभक्तमथापि वा॥
पूजयेत्सर्वयत्नेन धर्मकामार्थमुक्तये॥ ४.२१ ॥

इति श्रीलिङ्गमहापुराणे उत्तरभागे विष्णुभक्तकथनं नाम चतुर्थोऽध्यायः॥ ४ ॥