अम्बरीष उवाच॥
मार्कण्डेय महाप्राज्ञ केन योगेन लब्धवान्॥
गानविद्यां महाभागे उत्तरभाग नारदो भगवान्मुनिः॥ ३.१ ॥
तुम्बरोश्च समानत्वं कस्मिन्काल उपेयिवान्॥
एतदाचक्ष्व मे सर्वं सर्वज्ञोसि महामते॥ ३.२ ॥
मार्कण्डेय उवाच॥
श्रुतो मयायमर्थो वै नारदाद्देवदर्शनात्॥
स्वयमहा महातेजा नारदोऽसौ महामतिः॥ ३.३ ॥
सन्तप्यमानो भगवान् दिव्यंवर्षसहस्रकम्॥
निरुच्छ्वासेन संयुक्तस्तुम्बरोर्गौरवं स्मरन्॥ ३.४ ॥
तताप च महाघोरं तपोराशिस्तपः परम्॥
अथान्तरिक्षे शुश्राव नारदोऽसौ महामुनिः॥ ३.५ ॥
वाणीं दिव्यां महाघोषामद्भुतामसरीरिणीम्॥
किमर्थं मुनिशार्दूल तपस्तपसि दुश्चरम्॥ ३.६ ॥
उलूकं पश्य गत्वा त्वं यदि गाने रता मतिः॥
मानसोत्तरशैले तु गानबन्धुरिति स्मृतः॥ ३.७ ॥
गच्छ शीघ्रं च पश्यैनं गानवित्त्वं भविष्यसि॥
इत्युक्तो विस्मया विष्टो नारदो वाग्विदां वरः॥ ३.८ ॥
मानसोत्तरशैले तु गानबन्धुं जगाम वै॥
गन्धर्वाः किन्नरा यक्षास्तथा चाप्सरसां गणाः॥ ३.९ ॥
समासीनास्तु परितो गानबन्धुं ततस्ततः॥
गनविद्यां समापन्नः सिक्षितास्तेन पक्षिणा॥ ३.१० ॥
स्निग्धकण्ठस्वरास्त्र समासीना मुदान्विताः॥
ततो नारदमालोक्य गानबन्धुरुवाच ह॥ ३.११॥
प्रणिपत्य यथान्यायं स्वागतेनाभ्यपूजयत्॥
किमर्थं भगवानत्र चागतोऽसि महामते॥ ३.१२ ॥
किं कार्यं हि मया ब्रह्मन् ब्रूहि किं करवाणि ते॥
नारद उवाच॥
उलूकेन्द्र महाप्राज्ञ श्रृणुसर्वं यथातथम्॥ ३.१३ ॥
मम वृत्तं प्रवक्ष्यामि पुरा भूतं महाद्भुतम्॥
अतीते हि युगे विद्वन्नारायणसमीपगम्॥ ३.१४ ॥
मां विनिर्धूय संहृष्टः समाहूय च तुम्बरुम्॥
लक्ष्मीसमन्वितो विष्णुरश्रृणोद्गानमुत्तमम्॥ ३.१५ ॥
ब्रह्मादयः सुराः सर्वे निरस्ताः स्थानतोऽच्युताः॥
कौशिकाद्याः समासीना गानयोगेन वै हरिम्॥ ३.१६ ॥
एवमाराध्य सम्प्राप्ता गाणपत्यं यथासुखम्॥
तेनाहमतिदुःखार्तस्तपस्तप्तुमिहागतः॥ ३.१७ ॥
यद्दत्तं यद्धुतं चैव यथा वा श्रुतमेव च॥
यदधीतं मया सर्वं कलां नार्हति षोडशीम्॥ ३.१८ ॥
विष्णोर्माहात्म्ययुक्तस्य गान योगस्य वै ततः॥
सञ्चिन्त्याहं तपो घोरं तदर्थं तप्तवान् द्विज॥ ३.१९ ॥
दिव्यवर्षसहस्रं वै ततो ह्यश्रृणुवं पुनः॥
वाणीमाकाशसम्भूतां त्वामुद्दिश्य विहङ्गम॥ ३.२० ॥
उलूकं गच्छ देवषे गानबन्धुं मतिर्यदि॥
गाते चेद्वर्तते ब्रह्मन् तत्र त्वं वेत्स्यसे चिरात्॥ ३.२१ ॥
इत्यहं प्रेरितस्तेन त्वत्समीपमीहागतः॥
किं करीष्यामि शिष्योहं तव मां पालयाव्यय॥ ३.२२ ॥
गानबन्धुरुवाच॥
श्रृणु नारद यद्वृत्तं पुरा मम महामते॥
अत्याश्चर्यसमायुक्तं सर्वपापहरं शुभम्॥ ३.२३ ॥
भुवनेश इति ख्यातो राजभूद्धार्मिकः पुरा॥
अश्वमेधसहस्रैश्च वाजपेयायुतेन च॥ ३.२४ ॥
गवां कोट्यर्बुदे चैव सुवर्मस्य तथैव च॥
वाससां रथहस्तीनां कन्याश्वानां तथैव च॥ ३.२५ ॥
दत्वा स राजा विप्रेभ्यो मेदिनीं प्रतिपालयन्॥
निवारयन् स्वके राज्ये गेययोगेन केशवम्॥ ३.२६ ॥
अन्यं वा गेययोगेन गायन्यदि स मे भवेत्॥
वध्यः सर्वात्मना तस्माद्वेदै रीड्यः परः पुमान्॥ ३.२७ ॥
गानयोगेन सर्वत्र स्त्रियो गायन्तु नित्यशः॥
सूतमागधसङ्घाश्च गीतं ते कारयन्तु वै॥ ३.२८ ॥
इत्यज्ञाप्यमहातेजा राज्यं वै पर्यपालयत्॥
तस्य राज्ञः पुराभ्याशे हरिमित्र इति श्रुतः॥ ३.२९ ॥
ब्राह्मणो विष्णुभक्तश्च सर्वद्वन्द्वविवर्जितः॥
नदीपुलिनमासाद्य प्रतिमां च हरेः शुभाम्॥ ३.३० ॥
अभ्यर्च्य च यथान्यायं घृतदध्युत्तरं बहु॥
मिष्टान्नं पायसं दत्त्वा हरेरावेद्य पूपकम्॥ ३.३१ ॥
प्रणिपत्य यथान्यायं तत्र विन्यस्तमानसः॥
अगायत हरिं तत्र तालवर्णलयान्वितम्॥ ३.३२ ॥
अतीव स्नेहसंयुक्तस्तद्गतेनान्तरात्मना॥
ततो राज्ञः समादेशाच्चारास्तत्र समागताः॥ ३.३३ ॥
तदर्चनादि सकलं निर्दूय च समन्ततः॥
ब्राह्मणं तं गृहीत्वा ते राज्ञे सम्यङ्न्यवेदयन्॥ ३.३४ ॥
ततो राजा द्विजश्रेष्ठं परिभर्त्स्य सुदुर्मतिः॥
राज्यान्नर्यातयामास हृत्वा सर्वं धनादिकम्॥ ३.३५ ॥
प्रतिमां च हरेश्चैव म्लेच्छा हृत्वा ययुः पुनः॥
ततः कालेन महता कालधर्ममुपेयिवान्॥ ३.३६ ॥
स राजा सर्वलोकेषु पूज्यमानः समन्ततः॥
क्षुधार्तश्च तथा खिन्नो यममाह सुदुः खितः॥ ३.३७ ॥
क्षुत्तृट् च वर्तते देव स्वर्गतस्यापि मे सदा॥
मया पापं कृतं किं वा किं करिष्यामि वै यम॥ ३.३८ ॥
यम उवाच॥
त्वया हि सुमहत्पापं कृतमज्ञानमोहतः॥
हरिमित्रं प्रति तदा वासुदेवपरायणम्॥ ३.३९ ॥
हरिमित्रे कृतं पापं वासुदेवार्चनादिषु॥
तेन पापेन सम्प्राप्तः क्षुद्रोगस्त्वां सदा नृप॥ ३.४० ॥
दानयज्ञादिकं सर्वं प्रनष्टं ते नराधिप॥
गीतवाद्यसमोपेतं गायमानं महामतिम्॥ ३.४१ ॥
हरिमित्रं समाहूय हृतवानसि तद्धनम्॥
उपहारादिकं सर्वं वासुदेवस्य सन्निधौ॥ ३.४२ ॥
तव भृत्यैस्तदा लुप्तं पापं चक्रुस्त्वदाज्ञया॥
हरेः कीर्तिं विना चान्यद्ब्रह्मणेन नृपोत्तम॥ ३.४३ ॥
न गेययोगे गातव्यं तस्मात्पापं कृतं त्वया॥
नष्टस्ते सर्वलोकोद्य गच्च पर्वतकोटरम्॥ ३.४४ ॥
पूर्वोत्सृष्टं स्वदेहं तं खादन्नित्यं निकृत्य वै॥
तस्मिन्कोणे त्विमं देहं खादन्नित्यं क्षुधन्वितः॥ ३.४५ ॥
महानिरयसंस्थस्त्वं यावन्मन्वन्तरं भवेत्॥
मन्वन्तरे ततोऽतीते भूम्यां त्वं च भविष्यसि॥ ३.४६ ॥
ततः कालेन सम्प्राप्य मानुष्यमवगच्छसि॥
गानबन्धुरुवाच॥
एवमुक्त्वा यमो विद्वांस्तत्रैवान्तरधीयत॥ ३.४७ ॥
हरिमित्रो विमानेन स्तूयमानो गणाधिपैः॥
विष्णुलोकं गतः श्रीमान् सङ्गृह्य गमबान्धवान्॥ ३.४८ ॥
भुवनेशो नृपो ह्यस्मिन् कोटरे पर्वतस्य वै॥
खादमानः शवं नित्यमास्ते क्षत्तृट्रसमन्वितः॥ ३.४९ ॥
अद्राक्षं तं नृपं तत्र सर्वमेतन्ममोक्तवान्॥
समालोक्याहमाज्ञाय हरिमित्रं समेयिवान्॥ ३.५० ॥
विमानेनार्कवर्णेन गच्छन्तममरैर्वृतम्॥
इन्द्रद्युम्नप्रसादेन प्राप्तं मे ह्यायुरुत्तमम्॥ ३.५१ ॥
तेनाहं हरिमित्रं वै दृष्ट्वानस्मि सुव्रत॥
तदैश्वर्यप्रभावेन मनो मे समुपागतम्॥ ३.५२ ॥
गानविद्यां प्रति तदा किन्नरैः समुपाविशम्॥
षष्टिं वर्षसहस्राणां गान्योगेन मे मुने॥ ३.५३ ॥
जिह्वा प्रसादिता स्पष्टा ततो गानमशिक्षयम्॥
ततस्तु द्विगुणेनैव कालेनाभूदियं मम॥ ३.५४ ॥
गानयोगसमायुक्ता गता मन्वन्तरा दश॥
गानाचार्योऽभवं तत्र गन्धर्वाद्याः समागताः॥ ३.५५ ॥
एते किन्नरसङ्घा वै मामाचार्यमुपागताः॥
तपसा नैव शक्या वै गानविद्या तपोधन॥ ३.५६ ॥
तस्माच्छ्रुतेन संयुक्तो मत्तस्त्वं गानमाप्नुहि॥
एवमुक्तो मुनिस्तं वै प्रणिपत्य जगौ तदा॥ ३.५७ ॥
तच्छृणुष्व मुनिश्रेष्ठ वासुदेवं नमस्य तु॥
मार्कण्डेय उवाच॥
उलूकेनैवमुक्तस्तु नारदो मुनिसत्तमः॥ ३.५८ ॥
शिक्षाक्रमेण संयुक्तस्तत्र गानमाशिक्षयत्॥
गानबन्धुस्तदाहेदं त्यक्तलज्जो भवाधुना॥ ३.५९ ॥
उलूक उवाच॥
स्त्रीसङ्गमे तथा गीते द्यूते व्याख्यानसमगमे॥
व्यवहारे तथाहारे त्वर्थानां च समागमे॥ ३.६० ॥
आये व्यये तथा नित्यं त्यक्तलज्जस्तु वै भवेत्॥
न कुञ्चितेन गूढेन नित्यं प्रावरमादिभिः॥ ३.६१ ॥
हस्तविक्षेपभावेन व्यादि तास्येन चैव हि॥
निर्यातजिह्वायोगेन न गेयं हि कथञ्चन॥ ३.६२ ॥
न गायेदूर्ध्वबाहुश्च नोर्ध्वदृष्टिः कथञ्चन॥
स्वाङ्गं निरीक्षमाणेन परं सम्प्रेक्षता तथा॥ ३.६३ ॥
सङ्घट्टे च तथोत्थाने कटिस्थानं न शस्यते॥
हासो रोषस्तथा कम्पस्तथान्यत्र स्मृतिः पुनः॥ ३.६४ ॥
नैतानि शस्तरूपाणि गानयोगे महामते॥
नैकहस्तेन शक्यं स्यात्तालसङ्घट्टनं मुने॥ ३.६५ ॥
क्षुधार्त्तेन भयार्तेन तृष्णार्तेन तथैव च॥
गानयोगे न कर्तव्यो नान्धकारे कथञ्चन॥ ३.६६ ॥
एवमादीनि चान्यानि न कर्तव्यानि गायता॥
मार्कण्डेय उवाच॥
एवमुक्तः स भगवांस्तेनोक्तैर्विधिलक्षणैः॥
अशिक्षयत्तथा गीतं दिव्यं वर्षसहस्रकम्॥ ३.६७ ॥
ततः समस्तसम्पन्नो गीतप्रस्तारकादिषु॥
विपञ्च्यादिषु सम्पन्नः सर्वस्वरविभावित्॥ ३.६८ ॥
अयुतानि च षट्त्रिंशत्सहस्राणि शतानि च॥
स्वराणां भेदयोगेन ज्ञातवान्मुनिसत्तमः॥ ३.६९ ॥
ततो गन्धर्वसङ्घाश्च किन्नराणां तथैव च॥
मुनिना सह संयुक्ताः प्रीतियुक्ता भवन्ति ते॥ ३.७० ॥
गानबन्धुं मुनिः प्राह प्राप्य गानमनुत्तमम्॥
त्वां समासाद्य सम्पन्नस्त्वं हि गीतविशारदः॥ ३.७१ ॥
ध्वाङ्क्षशत्रो महाप्राज्ञ किमाचार्य करोमि ते॥
गानबन्धुरुवाच॥
ब्रह्मणो दिवसे ब्रह्मन् मनवस्तु चतुर्दश॥ ३.७२ ॥
ततस्त्रै लोक्यसम्प्लावो भविष्यति महामुने॥
तावन्मे त्वायुषो भावस्तावन्मे परमं शुभम्॥ ३.७३ ॥
मनसाध्याहितं मे स्याद्दक्षिणा मुनिसत्तम॥
नारद उवाच॥
अतीतकल्पसंयोगे गरुडस्त्वं भविष्यसि॥ ३.७४ ॥
स्वस्ति तेऽस्तु महाप्राज्ञ गमिष्यामि प्रसीद माम्॥
मार्कण्डेय उवाच॥
एवमुक्त्वा जगामथ नारदोपि जनार्दनम्॥ ३.७५ ॥
श्वेतद्वीपे हृषीकेशं गापयामास गीतकान्॥
तत्र श्रुत्वा तु भगवान्नारदं प्राह माधवः॥ ३.७६ ॥
तुम्बरोर्न विशिष्टोसि गीतैरद्यापि नारद॥
यदा विशिष्टो भविता तं कालं प्रवदाम्यहम्॥ ३.७७ ॥
गानबन्धुं समासाद्य गानार्थज्ञो भवानसि॥
मनोर्वैवस्वतस्याहमष्टविशतिमे युगे॥ ३.७८ ॥
द्वाम्परां ते भवष्यामि युदवंशकुलोद्भवः॥
देवक्यां वसुदेवस्य कृष्णो नाम्ना महामते॥ ३.७९ ॥
तदानीं मां समासाद्य स्मारयेथा यथातथम्॥
तत्र त्वां गीतसम्पन्नं करिष्यामि महाव्रतम्॥ ३.८० ॥
तुम्बरोश्च समञ्चैव तथातिशयसंयुतम्॥
तावत्कालं यतायोगं देवगन्धर्वयोनिषु॥ ३.८१ ॥
शिक्षयस्व यतान्यायमित्युक्त्वान्तरधीयत॥
ततो मुनिः प्रणम्यैनं तथातिशयसंयुतम्॥ ३.८२ ॥
देवर्षिर्देवसङ्काशः सर्वाभरणभूषितः॥
तपसां निधिरत्यन्तं वासुदेवपरायणः॥ ३.८३ ॥
स्कन्धे विपञ्चीमासाद्य सर्वलोकांश्चचार सः॥
वारुणं याम्यमाग्नेयमैद्रं कौबेरमेव च॥ ३.८४ ॥
वायव्यं च तथेशानं संसदं प्राप्य धर्मवित्॥
गायमानो हरिं सम्यग्वीणावादविचक्षणः॥ ३.८५ ॥
गन्धर्वाप्सरसां सङ्घैः पूज्यमानस्तत स्ततः॥
ब्रह्मलोकं समासाद्य कस्मिंश्चित्कालपर्यये॥ ३.८६ ॥
हाहाहूहूश्च गन्धर्वौ गीतवाद्यविशारदौ॥
ब्रह्मणो गायकौ दिव्यौ नित्यौ गन्धर्वसत्तमौ॥ ३.८७ ॥
तत्र ताभ्यां समासाद्य गायमानो हरिं प्रभुम्॥
ब्रह्मणा च महातेजाः पूजितो मुनिसत्तमः॥ ३.८८ ॥
तं प्रणम्य महात्मानं सर्वलोकपितामहम्॥
चचार च यथाकामं सर्वलोकेषु नारदः॥ ३.८९ ॥
ततः कालेन महता गृहं प्राप्य च तुम्बरोः॥
वीणामादाय तत्रस्थो ह्यगायत महामुनिः॥ ३.९० ॥
स्वरकल्पास्तु तत्रस्थाः षड्जाद्याः सप्त वै मताः॥
क्रीडतो भगवान्दृष्ट्वा निर्गतश्च सुसत्वरम्॥ ३.९१ ॥
शिक्षया मास बहुशस्तत्र तत्र महामतिः॥
श्रमयोगेन संयुक्तो नारदोपि महामुनिः॥ ३.९२ ॥
सप्तस्वराङ्गनाः पश्यन् गानविद्याविशारदः॥
आसीद्वीणा समायोगे न तास्तन्त्र्यः प्रपेदिरे॥ ३.९३ ॥
ततो रवैतके कृष्णं प्रणिपत्य महामुनिः॥
विज्ञापयदशेषं तु श्वेतद्वीपे तु यत् पुरा॥ ३.९४ ॥
नारायणेन कथितं गानयोगमनुत्तमम्॥
तच्छ्रुत्वा प्राहसन्कृष्णः प्राह जाम्बवतीं मुदा॥ ३.९५ ॥
एतं मुनिवरं भद्रे शिक्षयस्व यथाविधि॥
वीणागान समायोगे तथेत्युक्त्वा च सा हरिम्॥ ३.९६ ॥
प्रहसन्ती यथायोगं शिक्षयामास तं मुनिम्॥
ततः संवत्सरे पूर्णे पुनरागम्य माधवम्॥ ३.९७ ॥
प्रणिपत्याग्रतस्तस्थौ पुनराह स केशवः॥
सत्यां समीपमागच्छ शिक्षयस्व यथाविधि॥ ३.९८ ॥
तथेत्युक्त्वा सत्यभामां प्रणिपत्यजगौ मुनिः॥
तया स सिक्षितो विद्वान् पूर्णे संवत्सरे पुनः॥ ३.९९ ॥
वासुदेवमियुक्तोऽसौ रुक्मिणीसदनं गतः॥
अङ्गनाभिस्ततस्ताभिर्दासीभिर्मुनिसत्तमः॥ ३.१०० ॥।
उक्तोऽसौ गायमानोपि न स्वरं वेत्सि वै मुने॥
ततः श्रमेण महता वत्सरत्रयसंयुतम्॥ ३.१०१ ॥
शिक्षितोसौ तदा देव्या रुक्मिण्यापि जगौ मुनिः॥
ततः स्वराङ्गनाः प्राप्यः तन्त्रीयोगं महामुनेः॥ ३.१०२ ॥
आहूय कृष्णो भगवान् स्वयमेव महामुनिम्॥
अशिक्षयदमेयात्मा गानयोगमनुत्तमम्॥ ३.१०३ ॥
ततोऽतिशयमापन्नस्तुम्बरोर्मुनिसत्तमः॥
ततो ननर्त देवर्षिः प्रणिपत्य जनार्दनम्॥ ३.१०४ ॥
उवाच च हृषीकेशः सर्वज्ञस्त्वं महामुने॥
प्रहस्य गानयोगेन गायस्व मम सन्निधौ॥ ३.१०५ ॥
एतत्ते प्रार्थितं प्राप्तं मम लोके तथैव च॥
नित्यं तुम्बरुणा सार्धं गायस्व च यथातथम्॥ ३.१०६ ॥
एवमुक्तो मुनिस्तत्र यथायोगं चचार सः॥
यदा सम्पूजयन् कृष्णो रुद्रं भुवननायकम्॥ ३.१०७ ॥
तदा जगै हरेस्तस्य नियोगाच्छङ्कराय वै॥
रुक्मिण्या सह सत्या च जाम्बवत्या महामुनिः॥ ३.१०८ ॥
कृष्णेन च नृपश्रेष्ठ श्रुतिजातिविशारदः॥
एष वो मुनिशार्दूलाः प्रोक्तो गीतक्रमो मुनेः॥ ३.१०९ ॥
ब्राह्मणो वासुदेवाख्यां गायमानो भृशं नृप॥
हरेः सालोक्यमाप्नोति रुद्रगानोऽधिको भवेत्॥ ३.११० ॥
अन्यथा नरकं गच्छेद्गायमानोन्यदेव हि॥
कर्मणा मनसा वाचा वासुदेवपरायणः॥ ३.१११ ॥
गायन् श्रृण्वंस्तमाप्नोति तस्माद्गेयं परं विदुः॥ ३.११२ ॥
इति श्रीलिङ्गमहापुराणे उत्तरभागे वैष्णवगीतकथनं नाम तृतीयोऽध्यायः॥ ३ ॥