मार्कण्डेय उवाच॥
ततो नारायणो देवस्तस्मै सर्वं प्रदाय वै॥
कालयोगेन विश्वत्मा समं चक्रेऽथ तुम्बरोः॥ २.१ ॥
नारदं मुनिशार्दूलमेवं वृत्तमभूत्पुरा॥
नारायणस्य गीतानां गानं श्रेष्ठं पुनः पुनः॥ २.२ ॥
गानेनाराधितो विष्णुः सत्कीर्ति ज्ञानवर्चसी॥
ददाति तुष्टिं स्थानं च यथाऽसौ कौशिकस्य वै॥ २.३ ॥
पद्माक्षप्रभृतीनां च संसिद्धिं प्रददौ हरिः॥
तस्मात्त्वया महाराज विष्णुक्षत्रे विशेषतः॥ २.४ ॥
अर्चनं गाननृत्याद्यं वाद्योत्सवसमन्वितम्॥
कर्तव्यं विष्णुभक्तैर्हि पुरुषैरनिशं नृप॥ २.५ ॥
श्रोतव्यं च सदा नित्यं श्रोतव्योसौ हरिस्तथा॥
विष्णुक्षेत्रे तु यो विद्वान् कारयेद्भक्तिसंयुतः॥ २.६ ॥
गाननृत्यादिकं चैव विष्ण्वाख्यानां कथां तथा॥
जतिस्मृतिं च मेधां च तथैवोपरम् स्मृतिम्॥ २.७ ॥
प्राप्नोति विष्णुसायुज्यं सत्यमेतन्नृपाधिप॥
एतत्ते कथितं राजन् यन्मां त्वं परिपृच्छसि॥ २.८ ॥
किं वदामि च ते भूतो वद धर्मभृतां वर॥ २.९ ॥
इति श्रीलिङ्गमहापुराणे उत्तरभागे विष्णुमाहात्म्यं नाम द्वितीयोऽध्यायः॥ २ ॥