१०८

ऋषय ऊचुः॥
दृष्टोऽसौ वासुदेवेन कृष्णेनाक्लिष्टकर्मणा॥
धौम्याग्रजस्ततो लब्धं दिव्यं पाशुपतं व्रतम्॥ १०८.१ ॥

कथं लब्धं तदा ज्ञानं तस्मात्कृष्णेन धीमता॥
वक्तुमर्हसि तां सूत कथां पातकनाशिनीम्॥ १०८.२ ॥

सूत उवाच॥
स्वेच्छया ह्यवतीर्णोपि वासुदेवः सनातनः॥
निन्दयन्नेव मानुष्यं देहशुद्धिं चकार सः॥ १०८.३ ॥

पुत्रार्थं भगवांस्तत्र तपस्तप्तुं जगाम च॥
आश्रमं चोपमन्योर्वै दृष्टवांस्तत्र तं मुनिम्॥ १०८.४ ॥

नमश्चकार तं दृष्ट्वा धौम्याग्रजमहो द्विजाः॥
बहुमानेन वै कृष्णस्त्रिः कृत्वावै प्रदक्षिणम्॥ १०८.५ ॥

तस्यावलोकनादेव मुनेः कृष्णस्य धीमतः॥
नष्टमेव मलं सर्वं कायजं कर्म्मजं तथा॥ १०८.६ ॥

भस्मनोद्धूलनं कृत्वा उपमन्युर्महाद्युतिः॥
तमग्निरिति विप्रेन्द्रा वायुरित्यादिभिः क्रमात्॥ १०८.७ ॥

दिव्यं पाशुपतं ज्ञानं प्रददौ प्रीतमानसः॥
मुनेः प्रसादान्मान्योऽसौ कृष्णः पाशुपते द्विजाः॥ १०८.८ ॥

तपसा त्वेकवर्षान्ते दृष्ट्वा देवं महेश्वरम्॥
साम्बं सगणमव्यग्रं लब्धवान्पुत्रमात्मनः॥ १०८.९ ॥

तदाप्रभृति तं कृष्णं मुनयः संशितव्रताः॥
दिव्याः पाशुपताः सर्वे तस्थुः संवृत्य सर्वदा॥ १०८.१० ॥

अन्यं च कथयिष्यामि मुक्त्यर्थं प्राणिनां सदा॥
सौवर्णीं मेखलां कृत्वा आधारं दण्डधारणम्॥ १०८.११ ॥

सौवर्णं पिण्डिकं चापि व्यजनं दण्डमेव च॥
नरैः स्त्रियाथ वा कार्यं मषीभाजनलेखनीम्॥ १०८.१२ ॥

क्षुराकर्त्तरिका चापि अथ पात्रमथापि वा॥
पाशुपताय दातव्यं भस्मोद्धूलितविग्रहैः॥ १०८.१३ ॥

सौवर्णं राजतं वापि ताम्रंवाथ निवेदयेत्॥
आत्मवित्तानुसारेण योगिनं पूजयेद्बुधः॥ १०८.१४ ॥

ते सर्वे पापनिर्मुक्ताः समस्तकुलसंयुताः॥
यान्ति रुद्रपदं दिव्यं नात्र कार्या विचारणा॥ १०८.१५ ॥

तस्मादनेन दानेन गृहस्थो मुच्यते भवात्॥
योगिनां सम्प्रदानेन शिवः क्षिप्रं प्रसीदति॥ १०८.१६ ॥

राज्यं पुत्रं धनं भव्यमश्वं यानमथापि वा॥
सर्वस्वं वापि दातव्यं यदीच्छेन्मोक्षमुत्तमम्॥ १०८.१७ ॥

अध्रुवेण शरीरेण ध्रुवं साध्यं प्रयत्नतः॥
भव्यं पाशुपतं नित्यं संसारार्णवतारकम्॥ १०८.१८ ॥

एतद्वः कथितं सर्वं सङ्क्षेपान्न च संशयः॥
यः पठेच्छृणुयाद्वापि विष्णुलोकं स गच्छति॥ १०८.१९ ॥

इति श्रीलिङ्गमहापुराणे पूर्वभागेऽष्टोत्तरशततमोऽध्यायः॥ १०८ ॥

॥समाप्तश्चायं पूर्वभागः॥ श्रीशङ्करार्पणमस्तु ॥

इति श्रीसटीकलिङ्गमहापुराणपूर्वभागः समाप्तः॥