१०७

ऋषय ऊचुः॥
पुरोपमन्युना सूत गाणपत्यं महेश्वरात्॥
क्षीरार्णवः कथं लब्धो वक्तुमर्हसि साम्प्रतम्॥ १०७.१ ॥

सूत उवाच॥
एवं कालीमुपालभ्य गते देवे त्रियम्बके॥
उपमन्युः समभ्यर्च्य तपसा लब्धवान्फलम्॥ १०७.२ ॥

उपमन्युरिति ख्यातो मुनिश्च द्विजसत्तमाः॥
कुमार इव तेजस्वी क्रीडमानो यदृच्छया॥ १०७.३ ॥

कदाचित्क्षीरमल्पं च पीतवान्मातुलाश्रमे॥
ईर्ष्यया मातुलसुतो ह्यपिबत् क्षीरमुत्तमम्॥ १०७.४ ॥

पीत्वा स्थितं यथाकामं दृष्ट्वा प्रोवाच मातरम्॥
मातर्मातर्महाभागे मम देही तपस्विनि॥ १०७.५ ॥

गव्यं क्षीरमतिस्वादु नाल्पमुष्णं नमाम्यहम्॥
सूत उवाच॥
उपलालितैवं पुत्रेण पुत्रमालिङ्ग्य सादरम्॥ १०७.६ ॥

दुःखिता विललापार्ता स्मृत्वा नैर्धन्यमात्मनः॥
स्मृत्वास्मृत्वापुनः क्षीरमुपमन्युरपि द्विजाः॥
देहिदेहीति तामाह रोदमानो महाद्युतिः॥ १०७.७ ॥

उञ्छवृत्त्याजिन्तान्वीजान्स्वयं विष्ट्वा च सा तदा॥
वीजपिष्टं तदालोड्य तोयेन कलभाषिणी॥ १०७.८ ॥

ऐह्येहि मम पुत्रेति सामपूर्वं ततः सुतम्॥
आलिङ्ग्यादाय दुःखार्ता प्रददौ कृत्रिमं पयः॥ १०७.९ ॥

पीत्वा च कृत्रिमं क्षीरं मात्रा दत्तं द्विजोत्तमः॥
नैतत्क्षीरमिति प्राह मातरं चातिविह्वलः॥ १०७.१० ॥

दुःखिता सा तदा प्राह सम्प्रेक्ष्याघ्रायमूर्धनि॥
सम्मार्ज्य नेत्रे पुत्रस्य कराभ्यां कमलायते॥ १०७.११ ॥

तटिनी रत्नपूर्णास्ते स्वर्गपातालगोचराः॥
भाग्यहीना न पश्यन्ति भक्तिहिनाश्च ये शिवे॥ १०७.१२ ॥

राज्यं स्वर्गं च मोक्षं च भोजनं क्षीरसम्भवम्॥
न लभन्ते प्रियाण्येषां नो तुष्यति सदा भवः॥ १०७.१३ ॥

भवप्रसादजं सर्वं नान्यदेवप्रसादजम्॥
अन्यदेवेषु निरता दुःखार्त्ता विभ्रमन्ति च॥ १०७.१४ ॥

क्षीरं तत्र कुतोऽस्माकं महादेवो न पूजितः॥
पूर्वजन्मनि यद्दत्तं शिवमुद्यम्य वै सुत॥ १०७.१५ ॥

तदेव लभयं नान्यत्तु विष्णुमुद्यम्य वा प्रभुम्॥
निशम्य वचनं मातुरुपमन्युर्महाद्युतिः॥ १०७.१६ ॥

बालोपि मातरं प्राह प्रणिपत्य तपस्विनीम्॥
त्यज शोकं महाभागे महादेवोस्ति चेत्क्वचित्॥ १०७.१७ ॥

चिराद्वा ह्यचिराद्वापि क्षीरोदं साधयाम्यहम्॥
सूत उवाच॥
तां प्रणम्यैवमुक्त्वा स तपः कर्त्तुं प्रचक्रमे॥ १०७.१८ ॥

तमाह माता शुशुभं कुर्वीति सुतरां सुतम्॥
अनुज्ञातस्तया तत्र तपस्तेपे सुदुस्तरम्॥ १०७.१९ ॥

हिमवत्पर्वतं प्राप्य वायुभक्षः समाहितः॥
तपसा तस्य विप्रस्य विधूपितमभूज्जगत्॥ १०७.२० ॥

प्रणम्याहुस्त तत्सर्वे हरये देवसत्तमाः॥
श्रुत्वा तेषां तदा वाक्यं भगवान्पुरुषोत्तमः॥ १०७.२१ ॥

किमिदन्त्विति सञ्चिन्त्य ज्ञात्वा तत्कारणं च सः॥
जगाम मन्दरं तूर्णं महेश्वरदिदृक्षया॥ १०७.२२ ॥

दृष्ट्वा देवं प्रणम्यैवं प्रोवाचेदं कृताञ्जलिः॥
भगवन् ब्राह्मणः कश्चिदुपमन्युरितिश्रुतः॥ १०७.२३ ॥

क्षीरार्थमदहत्सर्वं तपसा तं विवारय॥
एतस्मिन्नन्तरे देवः पिनाकी परमेश्वरः॥
शक्ररूपं समास्थाय गन्तुं चक्रे मतिं तदा॥ १०७.२४ ॥

अथ जगाम मुनेस्तु तपोवनं गजवरेण सितेन सदाशिवः॥
सह सुरासुरसिद्धमहोरगैरमरराजतनुं स्वयमास्थितः॥ १०७.२५ ॥

सहैव चारुह्य तदा द्विपं तं प्रगृह्य वालव्यजनं विवस्वान्॥
वामेन शच्या सहितं सुरेन्द्रं करेण चान्येन सितातपत्रम्॥ १०७.२६ ॥

रराज भगवान् सोमः शक्ररूपी सदाशिवः॥
सितातपत्रेण यथा चन्द्रबिम्बेन मन्दरः॥ १०७.२७ ॥

आस्थायैवं हि शक्रस्य स्वरूपं परमेश्वरः॥
जगामानुग्रहं कर्त्तुमुपमन्योस्तदाश्रमम्॥ १०७.२८ ॥

तं दृष्ट्वा परमेशानं शक्ररूपधरं शिवम्॥
प्रणम्य शिरसा प्राह मुनिर्मुनिवराः स्वयम्॥ १०७.२९ ॥

पावितश्चाश्रमश्चायं मम देवेश्वरः स्वयम्॥
प्राप्तः शक्रो जगन्नाथो भगवान्भानुना प्रभुः॥ १०७.३० ॥

एवमुक्त्वा स्थितं वीक्ष्य कृताञ्जलिपुटं द्विजम्॥
प्राह गम्भीरया वाचा शक्ररूपधरो हरः॥ १०७.३१ ॥

तुष्टोस्मि ते वरं ब्रूहि तपसानेन सुव्रत॥
ददामिचेप्सितान्सर्वान्धौम्याग्रज महामते॥ १०७.३२ ॥

एवमुक्तस्तदा तेन शक्रेण मुनिसत्तमः॥
वरयामि शिवे भक्तिमित्युवाच कृताञ्जलिः॥ १०७.३३ ॥

ततो निशम्य वचनं मुनेः कुपितवत्प्रभुः॥
प्राह सव्यग्रमीशानः शक्ररूपधरः स्वयम्॥ १०७.३४ ॥

मां न जानासि देवर्षे देवराजानमीश्वरम्॥
त्रैलोक्याधिपतिं शक्रं सर्वदेवनमस्कृतम्॥ १०७.३५ ॥

मद्भक्तो भव विप्रर्षे मामेवार्चय सर्वदा॥
ददामि सर्वं भद्रं ते त्यज रुद्रं च निर्गुणम्॥ १०७.३६ ॥

ततः शक्रस्य वचनं श्रुत्वा श्रोत्रविदारणम्॥
उपमन्युरिदं प्राह जपन्पञ्चाक्षर शुभम्॥ १०७.३७ ॥

मन्ये शक्रस्य रूपेण नूनमत्रागतः स्वयम्॥
कर्त्तुं दैत्याधमः कश्चिद्वर्मविघ्नं च नान्यथा॥ १०७.३८ ॥

त्वयैव कथितं सर्वं भवनिन्दारतेन वै॥
प्रसङ्गाद्देवदेवस्य निर्गुणत्वं महात्मनः॥ १०७.३९ ॥

बहुनात्र किमुक्तेन मयाद्यानुमितं महत्॥
भवान्तरकृतं पापं श्रुता निन्दा भवस्य तु॥ १०७.४० ॥

श्रुत्वा निन्दां भवस्याथ तत्क्षणादेव सन्त्यजेत्॥
स्वदेहं तं निहत्याशु शिवलोकं स गच्छति॥ १०७.४१ ॥

यो वाचोत्पाटयोज्जिह्वां शिवनिन्दारतस्य तु॥
त्रिः सप्तकुलमुद्धृत्य शिवलोकं स गच्छति॥ १०७.४२ ॥

आस्तां तावन्ममेच्छायाः क्षीरं प्रति सुराधमम्॥
निहत्य त्वां शिवास्त्रेण त्यजाम्येतत्कलेवरम्॥ १०७.४३ ॥

पुरा मात्रा तु कथितं तत्थ्यमेव न संशयः॥
पूर्वजन्मनि चास्माभिरपूजित इति प्रभुः॥ १०७.४४ ॥

एवमुक्त्वा तु तं देवमुपमन्युरभीतवत्॥
शक्रं चक्रे मतिं हन्तुमथर्वास्त्रेण मन्त्रवित्॥ १०७.४५ ॥

भस्माधारान्महातेजा भस्ममुष्टिं प्रगृह्य च॥
अथर्वास्त्रं ततस्तस्मै ससर्ज च ननाद च॥ १०७.४६ ॥

दग्धुं स्वदेह माग्नेयीं ध्यात्वा वै धारणां तदा॥
अतिष्ठच्च महातेजाः शुष्केन्धनमिवाव्ययः॥ १०७.४७ ॥

एवं व्यवसिते विप्रे भगवान्भगनेत्रहा॥
वारयामास सौम्येन धारणां तस्य योगिनः॥ १०७.४८ ॥

अथर्वास्त्रं तदा तस्य संहृतं चन्द्रिकेण तु॥
कालाग्निसदृशं चेदं नियोगान्नन्दिनस्तथा॥ १०७.४९ ॥

स्वरूपमेव भगवानास्थाय परमेश्वरः॥
दर्शयामास विप्राय बालेन्दुकृतशेखरम्॥ १०७.५० ॥

क्षीरधारासहस्रं च क्षीरोदार्णवमेव च॥
दध्यादेरर्णवं चैव घृतोदार्णवमेव च॥ १०७.५१ ॥

फलार्णवं च बालस्य भक्ष्यभोज्यार्णवं तथा॥
अपूपगिरयश्चैव तथातिष्ठन् समन्ततः॥ १०७.५२ ॥

उपमन्युमुवाच सस्मितो भगवान्बन्धुजनैः समावृतम्॥
गिरिजावलोक्य सस्मितां सघृणं प्रेक्ष्यतु तं तदा घृणी॥ १०७.५३ ॥

भुङ्क्ष्व भोगान्यथाकामं बान्धवैः पश्य वत्स मे॥
उपमन्यो महाभाग तवाम्बैषा हि पार्वती॥ १०७.५४ ॥

मया पुत्रीकृतोस्यद्य दत्तः क्षीरोदधिस्तथा॥
मधुनश्चार्णवश्चैव दध्नश्चार्णव एव च॥ १०७.५५ ॥

आज्योदनार्णवश्चैव फललेह्यार्णवस्तथा॥
अपूपगिरयश्चैव भक्ष्यभोज्यार्णवः पुनः॥ १०७.५६ ॥

पिता तव महादेवः पिता वै जगतां मुने॥
माता तव महाभागा जगन्माता न संशयः॥ १०७.५७ ॥

अमरत्वं मया दत्तं गाणपत्यं च शाश्वतम्॥
वरान्वरय दास्यामि नात्र कार्या विचारणा॥ १०७.५८ ॥

एवमुक्त्वा महादेवः कराभ्यामुपगृह्य तम्॥
आघ्राय मूर्धनि विभुर्ददौ देव्यास्तदा भवः॥ १०७.५९ ॥

देवी तनयमालोक्य ददौ तस्मै गिरीन्द्रजा॥
योगैश्वर्यं तदा तुष्टा ब्रह्मविद्यां द्विजोत्तमाः॥ १०७.६० ॥

सोपि लब्ध्वा वरं तस्याः कुमारत्वं च सर्वदा॥
तुष्टाव च महादेवं हर्षगद्गदया गिरा॥ १०७.६१ ॥

वरयामास च तदा वरेण्यं विरजेक्षणम्॥
कृताञ्जलिपुटो भूत्वा प्रणिपत्य पुनः पुनः॥ १०७.६२ ॥

प्रसीद देवदेवेश त्वयि चाव्यभिचारिणी॥
श्रद्धा चैव महादेव सान्निध्यञ्चैव सर्वदा॥ १०७.६३ ॥

एवमुक्तस्तदा तेन प्रहसन्निव शङ्करः॥
दत्वेप्सितं हि विप्राय तत्रैवान्तरधीयत॥ १०७.६४ ॥

इति श्रीलिङ्गमहापुराणे पूर्वभागे उपमन्युचरितं नाम सप्ताधिकशततमोऽध्यायः॥ १०७ ॥