ऋषयः ऊचुः॥
नृत्यारम्भः कथं शम्भोः किमर्थं वा यथातथम्॥
वक्तुमर्हसि चास्माकं श्रुतः स्कन्दाग्रजोद्भवः॥ १०६.१ ॥
सूत उवाच॥
दारुकोऽसुरसम्भूतस्तपसा लब्धविक्रमः॥
सूदयामास कालाग्निरिव देवान्द्विजोत्तमान्॥ १०६.२ ॥
दारुकेण तदा देवास्ताडिताः पीडिता भृशम्॥
ब्रह्माणं च तथेशानं कुमारं विष्णुमेव च॥ १०६.३ ॥
यममिन्द्रमनुप्राप्य स्त्रीवध्य इति चासुरः॥
स्त्रीरूपधारिभिः स्तुत्यैर्ब्रह्माद्यैर्युधि संस्थितैः॥ १०६.४ ॥
बाधितास्तेन ते सर्वे ब्रह्माणं प्राप्य वै द्विजाः॥
विज्ञाप्य तस्मै तत्सर्वं तेन सार्धमुमापतिम्॥ १०६.५ ॥
सम्प्राप्य तुष्टुवुः सर्वे पितामहपुरोगमाः॥
ब्रह्मा प्राप्य च देवेशं प्रणम्य बहुधानतः॥ १०६.६ ॥
दारुणो भगवान्दारुः पूर्वं तेन विनिर्जिताः॥
निहत्य दारुकं दैत्यं स्त्रीवध्यं त्रातुमर्हसि॥ १०६.७ ॥
विज्ञप्तिं ब्रह्मणः श्रुत्वा भगवान् भगनेत्रहा॥
देवीमुवाच देवेशो गिरिजां प्रजसन्निव॥ १०६.८ ॥
भवतीं प्रार्थयाम्यद्य हिताय जगतां शुभे॥
वधार्थं दारुकस्यास्य स्त्रीवध्यस्य वरानने॥ १०६.९ ॥
अथ सा तस्य वचनं निशम्य जगतोरणिः॥
विवेश देहे देवस्य देवशी जन्मतत्परा॥ १०६.१० ॥
एकेनांशेन देवेशं प्रविष्टा देवसत्तमम्॥
न विवेद तदा ब्रह्मा देवाश्चेन्द्रपुरोगमाः॥ १०६.११ ॥
गिरिजां पूर्ववच्छम्भोर्दृष्ट्वा पार्श्वस्थितां शुभाम्॥
मायया मोहितस्तस्याः सर्वज्ञोपि चतुर्मुखः॥ १०६.१२ ॥
सा प्रविष्टातनुं तस्य देवदेवस्य पार्वती॥
कण्ठस्थेन विषेणास्य तनुं चक्रे तदात्मनः॥ १०६.१३ ॥
तां च ज्ञात्वा तथाभूतां तृतीयेनेक्षणेन वै॥
ससर्ज कालीं कामारिः कालकण्ठीं कपर्दिनीम्॥ १०६.१४ ॥
जाता यदा कालिमकालकण्ठी जाता तदानीं विपुला जयश्रीः॥
देवेतराणामजयस्त्वसिद्ध्या तुष्टिर्भवान्याः परमेश्वरस्य॥ १०६.१५ ॥
जातां तदानीं सुरसिद्धसङ्घा दृष्ट्वा भयाद्दुद्रुवुरग्निकल्पाम्॥
कालीं गरालङ्कृतकालकण्ठीमुपेन्द्रपद्मोद्भवशक्रमुख्याः॥ १०६.१६ ॥
तथैव जातं नयनं ललाटे सितांशुलेखा च सिरस्युदग्रा॥
कण्ठे करालं निशितं त्रिशूलं करे करालं च विभूषणानि॥ १०६.१७ ॥
सार्धं दिव्याम्बरा देव्याः सर्वारणभूषिताः॥
सिद्धेन्द्रसिद्धाश्च तथा पिशाचा जज्ञिरे पुनः॥ १०६.१८ ॥
आज्ञया दारुकं तस्याः पार्वत्याः परमेश्वरी॥
दानवं सूदयामास सूदयन्तं सुराधिपान्॥ १०६.१९ ॥
संरम्भातिप्रसङ्गाद्वै तस्याः सर्वमिदं जगत्॥
क्रोधाग्निना च विप्रेन्द्राः सम्बभूव तदातुरम्॥ १०६.२० ॥
भवोपि बालरूपेण श्मशाने प्रेतसङ्कुले॥
रुरोद मायया तस्याः क्रोधाग्निं पातुमीश्वरः॥ १०६.२१ ॥
तं दृष्ट्वा बालमीशानं मायया तस्य मोहिता॥
उत्थाप्याघ्राय वक्षोजं स्तनं सा प्रददौ द्विजाः॥ १०६.२२ ॥
स्तनजेन तदा सार्धं कोपमस्याः पपौ पुनः॥
क्रोधेनानेन वै बालः क्षेत्राणां रक्षकोऽभवत्॥ १०६.२३ ॥
मूर्तयोऽष्टौ च तस्यापि क्षेत्रपालस्य धीमतः॥
एवं वै तेन बालेन कृता सा क्रोधमूर्च्छिता॥ १०६.२४ ॥
कृतमस्याः प्रसादार्थं देवदेवेन ताण्डवम्॥
सन्ध्यायां सर्वभूतेन्द्रैः प्रेतैः प्रीतेन शूलिना॥ १०६.२५ ॥
पीत्वा नृत्तामृतं शम्भोराकण्ठं परमेश्वरी॥
ननर्त सा च योगिन्यः प्रेतस्थाने यथासुखम्॥ १०६.२६ ॥
तत्र सब्रह्मका देवाः सेन्द्रोपेन्द्राः समन्ततः॥
प्रणेमुस्तुष्टुवुः कालीं पुनर्देवीं च पार्वतीम्॥ १०६.२७ ॥
एवं सङ्क्षेपतः प्रोक्तं ताण्डवं शूलिनः प्रभोः॥
योगानन्देन च विभोस्ताण्डवं चेति चापरे॥ १०६.२८ ॥
इति श्रीलिङ्गo पूर्वo शिवताण्डवकथनं नाम षडधिकशततमोऽध्यायः॥ १०६ ॥