१०५

सूत उवाच॥
यदा स्थिताः सुरेश्वराः प्रणम्य चैवमीश्वरम्॥
तदाम्बिकापतिर्भवः पिनाकधृङ् महेश्वरः॥ १०५.१ ॥

ददौ निरीक्षणं क्षणाद्भवः स तान्सुरोत्तमान्॥
प्रणेमुरादराद्धरं सुरा मुदार्द्रलोचनाः॥ १०५.२ ॥

भवः सुधामृतोपमैर्निरीक्षणैर्निरीक्षणात्॥
तदाह भद्रमस्तु वः सुरेश्वरान् महेश्वरः॥ १०५.३ ॥

वरार्थमीश वीक्ष्यते सुरा गृहं गतास्त्विमे॥
प्रणम्य चाह वाक्पतिः पतिं निरीक्ष्य निर्भयः॥ १०५.४ ॥

सुरेतरादिभिः सदा ह्यविघ्नमर्थितो भवान्॥
समस्तकर्मसिद्धये सुरापकारकारिभिः॥ १०५.५ ॥

ततः प्रसीदताद्भवान् सुविघ्नकर्मकारणम्॥
सुरापकारकारिणामिहैष एव नो वरः॥ १०५.६ ॥

ततस्तदा निशम्य वै पिनाकधृक् सुरेश्वरः॥
गणेश्वरं सुरेश्वरं वपुर्दधार सः शिवः॥ १०५.७ ॥

गणेश्वराश्च तुष्टुवुः सुरेश्वरा महेश्वरम्॥
समस्तलोकसम्भवं भवार्त्तिहारिणं शुभम्॥ १०५.८ ॥

इभाननाश्रितंवरं त्रिशूलपाशधारिणम्॥
समस्तलोकसम्भवं गजाननं तदाम्बिका॥ १०५.९ ॥

ददुः पुष्पवर्षं हि सिद्धा मुनीन्द्रास्तथा खेचरा देवसङ्घास्तदानीम्॥
तदा तुष्टुवुश्चैकदन्तं सुरेशाः प्रणेमुर्गणेशं महेशं वितन्द्राः॥ १०५.१० ॥

तदा तयोर्विनिर्गतः सुभैरवः समूर्त्तिमान्॥
स्थितो ननर्त्त बालकः समस्तमङ्गलालयः॥ १०५.११ ॥

विचित्रवस्त्रभूषणैरलङ्कृतो गजाननो महेश्वरस्य पुत्रकोऽभिवन्द्य तातमम्बिकाम्॥ १०५.१२ ॥

जातमात्रं सुतं दृष्ट्वा चकार भगवान्भवः॥
गजाननाय कृत्यांस्तु सर्वान्सर्वेश्वरः स्वयम्॥ १०५.१३ ॥

आदाय च कराभ्यां च सुसुखाभ्यां भवः स्वयम्॥
आलिङ्ग्याघ्राय मूर्धानं महादेवो जगद्गुरुः॥ १०५.१४ ॥

तवावतारो दैत्यानां विनाशाय ममात्मज॥
देवानामुपकारार्थं द्विजानां ब्रह्मवादिनाम्॥ १०५.१५ ॥

यज्ञश्च दक्षिणाहीनः कृतो येन महीतले॥
तस्य धर्मस्य विघ्नं च कुरु स्वर्गपथे स्थितः॥ १०५.१६ ॥

अध्यापनं चाध्ययनं व्याख्यानं कर्म एव च॥
योऽन्यायतः करोत्यस्मिन् तस्य प्राणान्सदा हर॥ १०५.१७ ॥

वर्णाच्च्युतानां नारीणां नराणां नरपुङ्गव॥
स्वधर्मरहितानां च प्राणानपहर प्रभो॥ १०५.१८ ॥

याः स्त्रियस्त्वां सदा कालं पुरुषाश्च विनायक॥
यजन्ति तासां तेषां च त्वत्साम्यं दातुमर्हसि॥ १०५.१९ ॥

त्वं भक्तान् सर्वयत्नेन रक्ष बालगणेश्वर॥
यौवनस्थांश्च वृद्धांश्च इहामुत्र च पूजितः॥ १०५.२० ॥

जगत्त्रयेऽत्र सर्वत्र त्वं हि विघ्नगणेश्वरः॥
सम्पूज्यो वन्दनीयश्च भविष्यसि न सशंयः॥ १०५.२१ ॥

मां च नारायणं वापि ब्रह्माणमपि पुत्रक॥
यजन्ति यज्ञैर्वा विप्रैरग्रे पूज्यो भविष्यसि॥ १०५.२२ ॥

त्वामनभयर्च्य कल्याणं श्रौतं स्मार्तं च लौकिकम्॥
कुरुते तस्य कल्याणमकल्याणं भविष्यति॥ १०५.२३ ॥

ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्चैव गजानन॥
सम्पूज्य सर्वसिद्ध्यर्थं भक्ष्यभोज्यादिभिः शुभैः॥ १०५.२४ ॥

त्वां गन्धपुष्पधूपाद्यौरनभ्यर्च्य जगत्त्रये॥
देवैरपि तथान्यैश्च लब्धव्यं नास्ति कुत्रचित्॥ १०५.२५ ॥

अभ्यर्चयन्ति ये लोका मानवास्तु विनायकम्॥
ते चार्चनीयाः शक्राद्यैर्भविष्यन्ति न संशयः॥ १०५.२६ ॥

अजं हरिं च मां वापि शक्रमन्यान्सुरानपि॥
विघ्नैर्बाधयसित्वां चेन्नार्चयन्ति फलार्थिनः॥ १०५.२७ ॥

ससर्ज च तदा विघ्नगणं गणपतिः प्रभुः॥
गणैः सार्धं नमस्कृत्वाप्यतिष्ठत्तस्य चाग्रतः॥ १०५.२८ ॥

तदा प्रभृति लोकेऽस्मिन्पूजयन्ति गणेश्वरम्॥
दैत्यानां धर्मविघ्नं च चकारासौ गणेश्वरः॥ १०५.२९ ॥

एतद्वः कथितं सर्वं स्कन्दाग्रजसमुद्भवम्॥
यः पठेच्छृणुयाद्वापि श्रावयेद्वा सुखीभवेत्॥ १०५.३० ॥

इति श्रीलिङ्गमहापुराणे पूर्वभागे विनायकोत्पत्तिर्नाम पञ्चाधिकशततमोऽध्यायः॥ १०५ ॥