१०४

ऋषय ऊचुः॥
कथं विनायको जातो गजवक्त्रो गणेश्वरः॥
कथम्प्रभावस्तस्यैवं सूत वक्तुमिहार्हसि॥ १०४.१ ॥

सूत उवाच॥
एतस्मिन्नन्तरे देवाः सेन्द्रोपेन्द्राः समेत्य ते॥
धर्मविघ्नं तदा कर्त्तुं दैत्यानामभवन्द्विजाः॥ १०४.२ ॥

असुरा यातुधानाश्च राक्षसाः क्रूरकर्मिणः॥
तामसाश्च तथा चान्ये राजसाश्च तथा भुवि॥ १०४.३ ॥

अविघ्नं यज्ञदानाद्यौः समभ्यर्च्य महेश्वरम्॥
ब्रह्माणं च हरिं विप्रा लब्धेप्सितवरा यतः॥ १०४.४ ॥

ततोऽस्माकं सुरश्रेष्ठाः गणपं विजयसम्भवः॥
तेषां ततस्तु विघ्नार्थमविघ्नाय दिवौकसाम्॥ १०४.५ ॥

पुत्रार्थं चैव नारीणां नराणां कर्मसिद्धये॥
विघ्नेशं शङ्करं स्रष्टुं गणपं स्तोतुमर्हथ॥ १०४.६ ॥

इत्युक्त्वान्योन्यमनघं तुष्टुवुः शिवमीश्वरम्॥
नमः सर्वात्मने तुभ्यं सर्वज्ञाय पिनाकिने॥ १०४.७ ॥

अनघायविरिञ्चाय देव्याः कार्यार्थदायिने॥
अकायायार्थकायाय हरेः कायापहारिणे॥ १०४.८ ॥

कायान्तस्थामृताधारमण्डलावस्थिताय ते॥
कृतादिभेदकालाय कालवेगाय ते नमः॥ १०४.९ ॥

कालाग्निरुद्ररुपाय धर्माद्यष्टपदाय च॥
कालीविशुद्धदेहाय कालिकाकारणाय ते॥ १०४.१० ॥

कालकण्ठाय मुख्याय वाहनाय वराय ते॥
अम्बिकापतये तुभ्यं हिरण्यपतये नमः॥ १०४.११ ॥

हिरण्यरेतसे चैव नमः शर्वाय शूलिने॥
कपालदण्डपाशासिचर्माङ्कुशधरायच॥ १०४.१२ ॥

पतये हैमवत्याश्च हेमशुक्लाय ते नमः॥
पीतशुक्लाय रक्षार्थं सुराणां कृष्णवर्त्मने॥ १०४.१३ ॥

पञ्चमाय महापञ्चयज्ञिनां फलदाय च॥
पञ्चास्यफणिहाराय पञ्चाक्षरमयाय ते॥ १०४.१४ ॥

पञ्चधा पञ्चकैवल्यदेवैरर्चितमूर्तये॥
पञ्चाक्षरदृशे तुभ्यं परात्परतराय ते॥ १०४.१५ ॥

षोडशस्वरवज्राङ्गवक्त्रायाक्षयरूपिणे॥
कादिपञ्चकहस्ताय चादिहस्ताय ते नमः॥ १०४.१६ ॥

टादिपादाय रुद्राय तादिपादाय ते नमः॥
पादिमेण्ढ्राय यद्यङ्गधातुसप्तकधारिणे॥ १०४.१७ ॥

शान्तात्मरूपिणे साक्षात्क्षदन्तक्रोधिने नमः॥
लवरेफहळाङ्गाय निरङ्गाय च ते नमः॥ १०४.१८ ॥

सर्वेषामेव भूतानां हृदि निःस्वनकारिणे॥
भ्रुवेरन्ते सदा सद्भिर्दृष्टायात्यन्तभानवे॥ १०४.१९ ॥

भानुसोमाग्निनेत्राय परमात्मस्वरूपिणे॥
गुणत्रयोपरिस्थाय तीर्थपादाय ते नमः॥ १०४.२० ॥

तीर्थतत्त्वाय साराय तस्मादपि पराय ते॥
ऋग्जयुः सामवेदाय ओङ्काराय नमोनमः॥ १०४.२१ ॥

ओङ्कारे त्रिविधं रूपमास्थायोपरिवासिने॥
पीताय कृष्णवर्णाय रक्तायात्यन्ततेजसे॥ १०४.२२ ॥

स्थानपञ्चकसंस्थाय पञ्चधाण्डबहिः क्रमात्॥
ब्रह्मणे विष्णवे तुभ्यं कुमाराय नमोनमः॥ १०४.२३ ॥

अम्बायाः परमेशाय सर्वोपरिचारय ते॥
मूलसूक्ष्मस्वरूपाय स्थूलसूक्ष्माय ते नमः॥ १०४.२४ ॥

सर्वसङ्कल्पशून्याय सर्वस्माद्रक्षिताय ते॥
आदिमध्यान्तशून्याय चित्संस्थाय नमोनमः॥ १०४.२५ ॥

यमाग्निवायुरुद्राम्बुसोमशक्रनिशाचरैः॥
दिङ्मुखोदिङ्मुखे नित्यं सगणैः पूजिताय ते॥ १०४.२६ ॥

सर्वेषु सर्वदा सर्वमार्गे सम्पूजिताय ते॥
रुद्राय रुद्रनीलाय कद्रुद्राय प्रचेतसे॥
महेश्वराय धीराय नमः साक्षाच्छिवाय ते॥ १०४.२७ ॥

अथ श्रृणु भगवन् स्तवच्छलेन कथितमजेन्द्रमुखैः सुरासुरेशैः॥
मखमदनयमाग्निदक्षयज्ञक्षपणविचित्रविचेष्टितं क्षमस्व॥ १०४.२८ ॥

सूत उवाच॥
यः पठेत्तु स्तवं भक्या शक्राग्निप्रमुखैः सुरैः॥
कीर्तितं श्रावयेद्विद्वान् स याति परमां गतिम्॥ १०४.२९ ॥

इति श्रीलिङ्गमहापुराणे पूर्वभागे देवस्तुतिर्नाम चतुरधिकशततमोऽध्यायः॥ १०४ ॥