सूत उवाच॥
अथ ब्रह्मा महादेवमभिवन्द्य कृताञ्जलिः॥
उद्वाहः क्रियतां देव इत्युवाच महेश्वरम्॥ १०३.१ ॥
तस्य तद्वचनं श्रुत्वा ब्रह्मणः परमेष्ठिनः॥
यथेष्टमिति लोकेशं प्राह भूतपतिः प्रभुः॥ १०३.२ ॥
उद्वाहार्थं महेशस्य तत्क्षणादेव सुव्रताः॥
ब्रह्मणा कल्पितं दिव्यं पुरं रत्नमयं शुभम्॥ १०३.३ ॥
अथादितिर्दितिः साक्षाद्दनुः कद्रुः सुकालिका॥
पुलोमा सुरसा चैव सिंहिका विनता तथा॥ १०३.४ ॥
सिद्धिर्माया क्रिया दुर्गा देवी साक्षात्सुधा स्वधा॥
सावित्री वेदमाता च रजनी दक्षिणा द्युतिः॥ १०३.५ ॥
स्वाहा स्वधा मतिर्बुद्धिर्ऋद्धिर्वृद्धिः सरस्वती॥
राका कुहूः सिनीवाली देवी अनुमति तथा॥ १०३.६ ॥
धरणी धारणी चेला शची नारायणी तथा॥
एताश्चान्याश्च देवानां मातरः पत्नयस्तथा॥ १०३.७ ॥
उद्वाहः शङ्करस्येति जग्मुः सर्वा मुदान्विताः॥
उरगा गरुडा यक्षा गन्धर्वाः किन्नरा गणाः॥ १०३.८ ॥
सागरा गिरयो मेघा मासाः संवत्सरा स्तथा॥
वेदा मन्त्रास्तथा यज्ञाः स्तोमा धर्माश्च सर्वशः॥ १०३.९ ॥
हुङ्कारः प्रणवश्चैव प्रतिहाराः सहस्रशः॥
कोटिरप्सरसो दिव्यास्तासां च परिचारिकाः॥ १०३.१० ॥
याश्च सर्वेषु द्वीपेषु देवलोकेषु निम्नगाः॥
ताश्च स्त्रीविग्रहाः सर्वाः सञ्जग्मुर्हृष्टमानसाः॥ १०३.११ ॥
गणपाश्च महा भागाः सर्वलोकनमस्कृताः॥
उद्वाहः शङ्करस्येति तत्राजग्मुर्मुदान्विताः॥ १०३.१२ ॥
अभ्ययुः शङ्खवर्णाश्च गणकोट्यो गणेश्वराः॥
दशभिः केकराक्षश्च विद्युतोष्टाभिरेव च॥ १०३.१३ ॥
चतुःषष्ट्या विशाखाश्च नवभिः पारयात्रिकः॥
षड्भिः सर्वातकः श्रीमान् तथैव विकृताननः॥ १०३.१४ ॥
ज्वालाकेशो द्वादशभिः कोटिभिर्गणपुङ्गवः॥
सप्तभिः समदः श्रीमान्दुन्दुभोष्टाभिरेव च॥ १०३.१५ ॥
पञ्चभिश्च कपालीशः षड्भिः सन्दारकः शुभः॥
कोटिकोटिभिरेवेह गण्डकः कुम्भकस्तथा॥ १०३.१६ ॥
विष्टम्भोष्टाभिरेवेह गणपः सर्वसत्तमः॥
पिप्लश्च सहस्रेण सन्नादश्च तथा द्विजाः॥ १०३.१७ ॥
आवेष्टनस्तथाष्टाभिः सप्तभिश्चन्द्रतापनः॥
महाकेशः सहस्रेण कोटीनां गणपो वृतः॥ १०३.१८ ॥
कुण्डी द्वादशभिर्वीरस्तथा पर्वतकः शुभः॥
कालश्च कालकश्चैव महाकालः शतेन वै॥ १०३.१९ ॥
आग्निकः शतकोट्या वै कोट्याग्निमुख एव च॥
आदित्य मूर्धा कोट्या च तथा चैव धनावहः॥ १०३.२० ॥
सन्नामश्च शतेनैव कुमुदः कोटिभिस्तथा॥
अमोघः कोकिलश्चैव कोटिकोट्या सुमन्त्रकः॥ १०३.२१ ॥
काकपाटोऽपरः षष्ट्या षष्ट्या सन्तानकः प्रभुः॥
महाबलश्च नवभिर्मधुपिङ्गश्च पिङ्गलः॥ १०३.२२ ॥
निलो नवत्या देवेशः पूर्णभद्रस्तथैव च॥
कोटीनां चैव सप्तत्या चतुर्वक्त्रो महाबलः॥ १०३.२३ ॥
कोटिकोटिसहस्राणां शतैर्विशातिभिर्वृताः॥
तत्राजग्मुस्तथा देवास्ते सर्वे शङ्करं भवम्॥ १०३.२४ ॥
भूतकोटिसहस्रेण प्रमथः कोटिभिस्त्रिभिः॥
वीरभद्रश्चतुःषष्ट्या रोमजाश्चैव कोटिभिः॥ १०३.२५ ॥
करणश्चैव विंशत्या नवत्या केवलः शुभः॥
पञ्चाक्षः शतमन्युश्च मेघमन्युस्तथैव च॥ १०३.२६ ॥
काष्ठकूटश्चतुः षष्ट्या सुकेशो वृषभस्तथा॥
विरुपाक्षश्च भगवान् चतुःषष्ट्या सनातनः॥ १०३.२७ ॥
तालुकेतुः षडास्यश्च पञ्चास्यश्च सनातनः॥
संवर्त्तकस्तथा चैत्रो लकुलीशः स्वयं प्रभुः॥ १०३.२८ ॥
लोकान्तकश्च दिप्तास्यो तथा दैत्यान्तकः प्रभुः॥
मृत्युहृत्कालहा कालो मृत्युञ्जयकरस्तथा॥ १०३.२९ ॥
विषादो विषदश्चैव विद्युतः कान्तकः प्रभुः॥
देवो भृङ्गी रिटिः श्रीमान् देवदेवप्रियस्तथा॥ १०३.३० ॥
अशनीर्भासकश्चैव चतुःषष्ट्या सहस्रपात्॥
एते चान्ये च गणपा असङ्ख्याता महाबलाः॥ १०३.३१ ॥
सर्वे सहस्रहस्ताश्च जटामुकुटधारिणः॥
चन्द्ररेखावतंसाश्च नीलकण्ठास्त्रिलोचनाः॥ १०३.३२ ॥
हारकुण्डलकेयूरमुकुटाद्यैरलङ्कृताः॥
ब्रह्मेन्द्रविष्णुसङ्काशा अणिमादिगुणैर्वृताः॥ १०३.३३ ॥
सूर्यकोटिप्रतीकाशास्तत्राजग्मुर्गणेश्वराः॥
पातालचारिणश्चैव सर्वलोकनिवासिनः॥ १०३.३४ ॥
तुम्बरुर्नारदो हाहा हूहूश्चैव तु सामगाः॥
रत्नान्यादाय वाद्यांश्च तत्राजग्मुस्तदा पुरम्॥ १०३.३५ ॥
ऋषयः कृत्स्नशस्तत्र देवगीतास्तपोधनाः॥
पुण्यान्वैवाहिकान्मन्त्रानजपुर्हृष्टमानसाः॥ १०३.३६ ॥
तत एवं प्रवृत्ते तु सर्वतश्च समागमे॥
गिरिजां तामलङ्कृत्य स्वयमेव शुचिस्मिताम्॥ १०३.३७ ॥
पुरं प्रवेशयामास स्वयमादायकेशवः॥
सदस्याह च देवेशं नारायणमजो हरिम्॥ १०३.३८ ॥
भवानग्रे समुत्पन्नो भवान्या सह दैवतैः॥
वामाङ्गादस्य रुद्रस्य दक्षिणाङ्गादहं प्रभो॥ १०३.३९ ॥
मन्मूर्तिस्तुहिनाद्रीशो यज्ञार्थं सृष्ट एव हि॥
एषा हैमवती जज्ञे मायया परमेष्ठिनः॥ १०३.४० ॥
श्रौतस्मार्तप्रवृत्त्यर्थमुद्वाहार्थमिहागतः॥
अतोसौ जगतां धात्री धाता तव ममापि च॥ १०३.४१ ॥
अस्य देवस्य रुद्रस्य मूर्तिभिर्विहितं जगत्॥
क्ष्माबग्निखेन्दुसूर्यात्मपवनात्मा यतो भवः॥ १०३.४२ ॥
तथापि तस्मै दातव्या वचनाच्च गिरेर्मम॥
एषा ह्यजा शुक्लकृष्णा लोहिता प्रकृतिर्भवान्॥ १०३.४३ ॥
श्रेयोपि शैलराजेन सम्बन्धोऽयं तवापि च॥
तव पाद्मे समुद्भूतः कल्पे नाभ्यम्बुजादहम्॥ १०३.४४ ॥
मदंशस्यास्य शैलस्य ममापि च गुरुर्भवान्॥
सूत उवाच॥
बाढमित्यजमाहासौ देवदेवो जनार्दनः॥ १०३.४५ ॥
देवाश्च मुनयः सर्वे देवदेवश्च शङ्करः॥
ततश्चोत्थाय विद्वान्सः पद्मनाभः प्रणम्य ताम्॥ १०३.४६ ॥
पादौ प्रक्षाल्य देवस्य कराभ्यां कमलेक्षणः॥
अभ्युक्षदात्मनो मूर्ध्नि ब्रह्मणश्च गिरेस्तथा॥ १०३.४७ ॥
त्वदीयैषा विवाहार्थं मेनजा ह्यनुजा मम॥
इत्युक्त्वा सोदकं दत्वा देवीं देवेश्वराय ताम्॥ १०३.४८ ॥
स्वात्मानमपि देवाय सोदकं प्रददौ हरिः॥
अथ सर्वे मुनिश्रेष्ठाः सर्ववेदार्थपारगाः॥ १०३.४९ ॥
ऊचुर्दाता गृहीता च फलं द्रव्यं विचारतः॥
एष देवो हरो नूनं मायया हि ततो जगत्॥ १०३.५० ॥
इत्युक्त्वा तं प्रणेमुश्च प्रीतिकण्टाकितत्वचः॥
ससृजुः पुष्पवर्षाणि खेचराः सिद्धचारणाः॥ १०३.५१ ॥
देवदुन्दुभयो नेदुर्ननृतुश्चाप्सरोगणाः॥
वेदाश्च मूर्तिमन्तस्ते प्रणेमुस्तं महेश्वरम्॥ १०३.५२ ॥
ब्रह्मणा मुनिभिः सार्धं देवदेवमुमापतिम्॥
देवोपि देवीमालोक्य सलज्जां हिमशैलजाम्॥ १०३.५३ ॥
न तृप्यत्यनवद्याङ्गी सा च देवं वृषध्वजम्॥
वरदोस्मीति तं प्राह हरिं सोप्याह शङ्करम्॥ १०३.५४ ॥
त्वयि भक्तिः प्रसीदेति ब्रह्माख्यां च ददौ तु सः॥
ततस्तु पुनरेवाह ब्रह्मा विज्ञापयन्प्रभुम्॥ १०३.५५ ॥
हविर्जुहोमि वह्नौ तु उपाध्यायपदे स्थितः॥
ददासि मम यद्याज्ञां कर्त्तव्यो ह्यकृतो विधिः॥ १०३.५६ ॥
तमाह शङ्करो देवं देवदेवो जगत्पतिः॥
यद्यदिष्टं सुरश्रेष्ठ तत्कुरुष्व यथेप्सितम्॥ १०३.५७ ॥
कर्त्तास्मि वचनं सर्वं देवदेव पितामह॥
ततः प्रणम्य हृष्टामा ब्रह्मा लोकपितामहः॥ १०३.५८ ॥
हस्तं देवस्य देव्याश्च युयोज परमं प्रभुः॥
ज्वलनश्च स्वयं तत्र कृताञ्जलिरुपस्थितः॥ १०३.५९ ॥
श्रौतैरेतैर्महामन्त्रैर्मूर्तिमद्भिरुपस्थितैः॥
यथोक्तविधिना हुत्वा लाजानपि यताक्रमम्॥ १०३.६० ॥
आनीतान्विष्णुना विप्रासम्पूज्य विविधैर्वरैः॥
त्रिश्च तं ज्वलनं देवं कारयित्वा प्रदक्षिणम्॥ १०३.६१ ॥
मुक्त्वा हस्तसमायोगं सहितैः सर्वदैवतैः॥
सुरैश्च मानवैः सर्वैः प्रहृष्टेनान्तरात्मना॥ १०३.६२ ॥
ननाम भगवान्ब्रह्मा देवदेवमुमापतिम्॥
ततः पाद्यं तयोर्दत्वा शम्भोराचमनं तथा॥ १०३.६३ ॥
मधुपर्कं तथा गां च प्रणम्य च पुनः शिवम्॥
अतिष्ठद्भगवान्ब्रह्मा देवैरिन्द्रपुरोगमैः॥ १०३.६४ ॥
भृग्वाद्य मुनयः सर्वे चाक्षतैस्तिलतण्डुलैः॥
सूर्यादयः समभ्यर्च्य तुष्टुवुर्वृषभध्वजम्॥ १०३.६५ ॥
शिवः समाप्य देवोक्तं वह्निमारोप्य चात्मनि॥
तया समागतो रुद्रः सर्वलोकहिताय वै॥ १०३.६६ ॥
यः पठेच्छृणुयाद्वापि भवोद्वाहं शुचिस्मितः॥
श्रावयेद्वा द्विजाञ्छुद्धान्वेदवेदाङ्गपारगान्॥ १०३.६७ ॥
स लब्ध्वा गाणपत्यं च भवेन सह मोदते॥
यत्रायं कीर्त्यते विप्रैस्तावदास्ते तदा भवः॥ १०३.६८ ॥
तस्मात्सम्पूज्य विधिवत्कीर्तयेन्नायथा द्विजाः॥
उद्वाहे च द्विजेन्द्राणां क्षत्रियाणां द्विजोत्तमाः॥ १०३.६९ ॥
कीर्तनीयमिदं सर्वं भवोद्वाहमनुत्तमम्॥
कृतोद्वाहस्तदा देव्या हैमवत्या वृषध्वजः॥ १०३.७० ॥
सगणो नन्दिना सार्धं सर्वदेवगणैर्वृतः॥
पुरीं वाराणसीं दिव्यामाजगाम महाद्युतिः॥ १०३.७१ ॥
अविमुक्ते सुखासीनं प्रणम्य वृषभध्वजम्॥
अपृच्छत्क्षेत्रमाहात्म्यं भवानी हर्षितानना॥ १०३.७२ ॥
अथाहार्धेन्दुतिलकः क्षेत्रमाहात्म्यमुत्तमम्॥
अविमुक्तस्य माहात्म्यं विस्तराच्छक्यते नहि॥ १०३.७३ ॥
वक्तुं मया सुरेशानि ऋषिसङ्घाभिपूजितम्॥
किं मया वर्ण्यते देवी ह्यविमुक्तफलोदयः॥ १०३.७४ ॥
पापिनां यत्र मुक्तिः स्यान्मृतानामेकजन्मना॥
अन्यत्र तु कृतं पापं वाराणस्यां व्यपोहति॥ १०३.७५ ॥
वाराणस्यां कृतं पापं पैशाच्यनरकावहम्॥
कृत्वा पापसहस्राणि पिशाचत्वं वरं नृणाम्॥ १०३.७६ ॥
न तु शक्रसहस्रत्वं स्वर्गे काशीपुरीं विना॥
यत्र त्रिविष्टपो देवो यत्र विश्वेश्वरो विभुः॥ १०३.७७ ॥
ओङ्कारेशः कृत्तिवासा मृतानां न पुनर्भवः॥
उक्त्वा क्षेत्रस्य माहात्म्यं सङ्क्षेपाच्छशिशेखरः॥ १०३.७८ ॥
दर्शयामास चोद्यानं परित्यज्य गणेश्वरान्॥
तत्रैव भगवान् जातो गजवक्त्रो विनायकः॥ १०३.७९ ॥
दैत्यानां विघ्नरूपार्थमविघ्नाय दिवौकसाम्॥
एतद्वः कथितं सर्वं कथासर्वस्वमुत्तमम्॥ १०३.८० ॥
यथाश्रुतं मया सर्वं प्रसादाद्वः सुशोभनम्॥ १०३.८१ ॥
इति श्रीलिङ्गमहापुराणे पूर्वभागे पार्वतीविवाहवर्णनं नाम त्र्यधिकशततमोऽध्यायः॥ १०३ ॥