सूत उवाच॥
तपसा च महादेव्याः पार्वत्या वृषभध्वजः॥
प्रीतश्च भगवाच्छर्वो वचनाद्ब्रह्मणस्तदा॥ १०२.१ ॥
हिताय चाश्रमाणां च क्रीडार्थं भगवान्भवः॥
तदा हैमवतीं देवीमुपयेमे यथाविधि॥ १०२.२ ॥
जगाम स स्वयं ब्रह्मा मरीच्याद्यैर्महर्षिभिः॥
तपोवनं महादेव्याः पार्वत्याः पद्मसम्भवः॥ १०२.३ ॥
प्रदक्षिणीकृत्य च तां देवीं स जगतोरणीम्॥
कीमर्थं तपसा लोकान्सन्तापयसि शैलजे॥ १०२.४ ॥
त्वया सृष्टं जगत्सर्वं मातस्त्वं मा विमाशय॥
त्वं हि सन्धारये लोकानिमान्सर्वान्स्वतेजसा॥ १०२.५ ॥
सर्वदेवेश्वरः श्रीमान्सर्वलोकपतिर्भवः॥
यस्य वै देवदेवस्य वयं किङ्करवादिनः॥ १०२.६ ॥
स एवं परमेशानः स्वयं च वरयिष्यति॥
वरदे येन सृष्टासि न विना यस्त्वयाम्बिके॥ १०२.७ ॥
वर्त्तते नात्र सन्देहस्तव भर्त्ता भविष्यति॥
इत्युक्त्वा तां नमस्कृत्य मुहुः सम्प्रेक्ष्य पार्वतीम्॥ १०२.८ ॥
गते पितामहे देवो भगवान् परमेश्वरः॥
जगामानुग्रहं कर्त्तुं द्विजरूपेण चाश्रमम्॥ १०२.९ ॥
सा च दृष्ट्वा माहदेवं द्विजरूपेण संस्थितम्॥
प्रतिभाद्यौः प्रभुं ज्ञात्वा ननाम वृषभध्वजम्॥ १०२.१० ॥
सम्पूज्य वरदं देवं ब्राह्मणच्छद्मनागतम्॥
तुष्टाव परमेशानं पार्वती परमेश्वरम्॥ १०२.११ ॥
अनुगृह्य तदा देवीमुवाच प्रहसन्निव॥
कुलधर्माश्रयं रक्षन् भूधरस्य महात्मनः॥ १०२.१२ ॥
क्रीडार्थं च सन्तां मध्ये सर्वदेवपतिर्भवः॥
स्वयंवरे महादेवी तव दिव्यसुशोभने॥ १०२.१३ ॥
आस्थाय रूपं यत्सौम्यं समेष्येहं सह त्वया॥
इत्युक्त्वा तां समालोक्य देवो दिव्येन चक्षुषा॥ १०२.१४ ॥
जगामेष्टं तदा दिव्यं स्वपुरं प्रययौच सा॥
दृष्ट्वा हृष्टस्तदा देवीं मेनया तुहिनाचलः॥ १०२.१५ ॥
आलिङ्ग्याघ्राय सम्पूज्य पुत्रीं साक्षात्तपस्विनीम्॥
दुहितुर्देवदेवेन न जानन्नभिमन्त्रितम्॥ १०२.१६ ॥
स्वयंवरं तदा देव्याः सर्वलोकेष्वघोषयत्॥
अथ ब्रह्मा च भगवान् विष्णुः साक्षाज्जनार्दनः॥ १०२.१७ ॥
शक्रश्च भगवान् वह्निर्भास्करो भग एव च॥
त्वष्टार्यमा विवस्वांश्च यमो वरुण एव च॥ १०२.१८ ॥
वायुः सोमस्तथेशानो रुद्राश्च मुनयस्तथा॥
अश्विनौ द्वादशादित्या गन्धर्वा गरुडस्तथा॥ १०२.१९ ॥
यक्षाः सिद्धास्तता साध्या दैत्याः किम्पुरुषोरगाः॥
समुद्राश्च नदा वेदा मन्त्राः स्तोत्रादयः क्षणाः॥ १०२.२० ॥
नागाश्च पर्वताः सर्वे यज्ञाः सूर्यादयो ग्रहाः॥
त्रयस्त्रिंशच्च देवानां त्रयश्च त्रिशतं तथा॥ १०२.२१ ॥
त्रयश्च त्रिसहस्रं च तथान्ये बहवः सुरा॥
जग्मुर्गिरिन्द्रपुत्र्यास्तु स्वयंवरमनुत्तमम्॥ १०२.२२ ॥
अथ शैलसुता देवी हैममारुह्य शोभनम्॥
विमानं सर्वतोभद्रं सर्वरत्नैरलङ्कृतम्॥ १०२.२३ ॥
अप्सरोभिः प्रनृत्ताभिः सर्वाभरणभूषितैः॥
गन्धर्वसिद्धैर्विविधैः किन्नरैश्च सुशोभनैः॥ १०२.२४ ॥
बन्दिभिः स्तूयमाना च स्थिता शैलसुता तदा॥
सितातपत्रं रत्नांशुमिश्रितं चावहत्तथा॥ १०२.२५ ॥
मालिनी गिरिपुत्र्यास्तु सन्ध्यापूर्णेन्दुमण्डलम्॥
चामरासक्तहस्ताभिर्दिव्यस्त्रीभिश्च संवृता॥ १०२.२६ ॥
मालां गृह्य जया तस्थौ सुरद्रुमसमुद्भवाम्॥
विजया व्यजनं गृह्य स्थिता देव्याः समीपगा॥ १०२.२७ ॥
मालां प्रहृह्य देव्यां तु स्थितायां देवसंसदि॥
शिशुर्भूत्वा महादेवः क्रीडार्थं वृषभध्वजः॥ १०२.२८ ॥
उत्सङ्गतलसंसुप्तो बभूव भगवान्भवः॥
अथ दृष्ट्वा शिशुं देवास्तस्या उत्सङ्गवर्त्तिनम्॥ १०२.२९ ॥
कोयमत्रेति सम्मन्त्र्य चुक्षुभुश्च समागताः॥
वज्रमाहारयत्तस्य बाहुमुद्युम्य वृत्रहा॥ १०२.३० ॥
स बाहुरुद्यमस्तस्य तथैव समुपस्थितः॥
स्तम्भितः शिशुरूपेण देवदेवेन लीलया॥ १०२.३१ ॥
वज्रं क्षेप्तुं न शशाक बाहुं चालयितुं तथा॥
वह्निं शक्तिं तथा क्षेप्तं न शशाक तथा स्थितः॥ १०२.३२ ॥
यमोपि दण्डं खड्गं च निर्ऋतिर्मुनिपुङ्गवाः॥
वरुणो नागपाशं च ध्वजयष्टिं समीरणः॥ १०२.३३ ॥
सोमो गदां धनेशश्च दण्डं दण्डभृतां वरः॥
ईशानश्च तथा शूलं तीव्रमुद्यम्य संस्थितः॥ १०२.३४ ॥
रुद्राश्च शूलमादित्या मुशलं वसवस्तथा॥
मुद्गरं स्तम्भिताः सर्वे देवेनाशु दिवौकसः॥ १०२.३५ ॥
स्तम्भिता देवदेवेन तथान्ये च दिवौकसः॥
शिरःप्रकम्पयन्विष्णुश्चक्रमुद्यम्य संस्थितः॥ १०२.३६ ॥
तस्यापि शिरसो बालः स्थिरत्वं प्रचकार ह॥
चक्रं क्षेप्तुं न शशाक बाहूंश्चालयितुं न च॥ १०२.३७ ॥
पूषा दन्तान्दशन्दन्तैर्बालमैक्षत मोहितः॥
तस्यापि दशनाः पेतुर्दृष्टमात्रस्य शम्भुना॥ १०२.३८ ॥
बलं तेजश्च योगं च तथैवास्तम्भयद्विभुः॥
अथ तेषु स्थितेष्वेव मन्युमत्सु सुरेष्वपि॥ १०२.३९ ॥
ब्रह्मा परमसंविग्नो ध्यानमास्थाय शङ्करम्॥
बुबुधे देवमीशानमुमोत्सङ्गे तमास्थितम्॥ १०२.४० ॥
स बुद्ध्वा देवमीशानं शीघ्रमुत्थाय विस्मितः॥
ववन्दे चरणौ शम्भोरस्तुवच्च पितामहः॥ १०२.४१ ॥
स बुद्ध्वा देवमीशानं शीघ्रमुत्थाय विस्मितः॥
ववन्दे चरणौ शम्भोरस्तुवच्च पितामहः॥ १०२.४२ ॥
बुद्धिस्त्वं सर्वलोकानामहङ्कारस्त्वमीश्वरः॥
भूतानामिन्द्रियाणां च त्वमेवेश प्रवर्त्तकः॥ १०२.४३ ॥
तवाहं दक्षिणाद्धस्तात्सृष्टः पूर्वं पुरातनः॥
वामहस्तान्महा बाहो देवो नारायणः प्रभुः॥ १०२.४४ ॥
इयं च प्रकृतिर्देवी सदा ते सृष्टिकारण॥
पत्नीरूपं समास्थाय जगत्कारणमागता॥ १०२.४५ ॥
नमस्तुभ्यं महादेव महादेव्यै नमोनमः॥
प्रसादात्तव देवेश नियोगाच्च मया प्रजाः॥ १०२.४६ ॥
देवाद्यास्तु इमाः सृष्टा मूढास्त्वद्योगमोहिताः॥
कुरु प्रसादमेतेषां यथापूर्वं भवन्त्विमे॥ १०२.४७ ॥
सूत उवाच॥
विज्ञाप्यैवं तदा ब्रह्मा देवदेवं महेश्वरम्॥
संस्तन्तितांस्तदा तेन भगवानाहपद्मजः॥ १०२.४८ ॥
मूढास्थ देवताः सर्वा नैव बुध्यत शङ्करम्॥
देवदेवमिहायान्तं सर्वदेवनमस्कृतम्॥ १०२.४९ ॥
गच्छध्वं शरणं शीघ्रं देवाः शक्रपुरोगमाः॥
सनारायणकाः सर्वे मुनिभिः शङ्करं प्रभुम्॥ १०२.५० ॥
सार्धं मयैव देवेशं परमात्मानमीश्वरम्॥
अनया हैमवत्या च प्रकृत्या सह सत्तमम्॥ १०२.५१ ॥
तत्र ते स्तम्भितास्तेन तथैव सुरसत्तमाः॥
प्रणेमुर्मनसा सर्वे सनारायणकाः प्रभुम्॥ १०२.५२ ॥
अथ तेषां प्रसन्नो भूद्देवदेवस्त्रियम्बकः॥
यथापूर्वं चकाराशु वचनाद्ब्रह्मणः प्रभुः॥ १०२.५३ ॥
तत एवं प्रसन्ने तु सर्वदेवनिवारणम्॥
वपुश्चकार देवेशो दिव्यं परममद्भुतम्॥ १०२.५४ ॥
तेजसा तस्य देवास्ते सेन्द्रचन्द्रदिवाकराः॥
सब्रह्मकाः ससाध्याश्च सनारायणकास्तथा॥ १०२.५५ ॥
सयमाश्च सरुद्राश्च चक्षुर प्राथयन्विभुम्॥
तेभ्यश्च परमं चक्षुः सर्वदृष्टौ च शक्तिमत्॥ १०२.५६ ॥
ददावम्बापतिः शर्वो भवान्याश्च चलस्य च॥
लब्ध्वा चक्षुस्तदा देवा इन्द्रविष्णुपुरोगमाः॥ १०२.५७ ॥
सब्रह्मकाः सशक्राश्च तमपश्यन्महेश्वरम्॥
ब्रह्माद्या नेमिरे तूर्णं भवानी च गिरीश्वरः॥ १०२.५८ ॥
मुनयश्च महादेवं गणेशाः शिवसम्मताः॥
ससर्जुः पुष्पवृष्टिं च खेचराः सिद्धचारणाः॥ १०२.५९ ॥
देवदुन्दुभयो नेदुस्तुष्टुवुर्मुनयः प्रभुम्॥
जगुर्गन्धर्वमुख्याश्च ननृतुश्चाप्सरोगणाः॥ १०२.६० ॥
मुमुहुर्गणपाः सर्वं मुमोदाम्बा च पार्वती॥
तस्य देवी तदा हृष्टा समक्षं त्रिदिवौकसाम्॥ १०२.६१ ॥
पादयोः स्तापयामास मालां दिव्यां सुगन्धिनीम्॥
साधुसाध्विति सम्प्रोच्य तया तत्रैव चार्चितम्॥ १०२.६२ ॥
सह देव्या नमश्चक्रुः शिरोभिर्भूतलाश्रितैः॥
सर्वे सब्रह्मका देवाः सयक्षोरगराक्षसाः॥ १०२.६३ ॥
इति श्रीलिङ्गमहापुराणे पूर्वभागे उमास्वयंवरो नाम द्व्यधिकशततमोऽध्यायः॥ १०२ ॥