१०१

ऋषय ऊचुः॥
कथं हिमवतः पुत्री बभूवाम्बा सती शुभा॥
कथं वा देवदेवेशमवाप पतिमीश्वरम्॥ १०१.१ ॥

सूत उवाच॥
सा मेनानुमाश्रित्य स्वेच्छयैव वराङ्गना॥
तदा हैमवती जज्ञे तपसा च द्विजोत्तमाः॥ १०१.२ ॥

जातकर्मादिकाः सर्वाश्चकार च गिरिश्वरः॥
द्वादशे च तदा वर्षे पूर्णे हैमवती शुभा॥ १०१.३ ॥

तपस्तेपे तया सार्धमनुजा च शुभानना॥
अन्या च देवी ह्यनुजा सर्वलोके नमस्कृता॥ १०१.४ ॥

ऋषयश्च तदा सर्वे सर्वलोकमहेश्वरीम्॥
तुष्टुस्तपसा देवीं समावृत्य समन्ततः॥ १०१.५ ॥

ज्येष्ठा ह्यपर्णा ह्यनुजा चैकपर्णा शभानना॥
तृतीया च वारारोहा तथा चैवैकपाटला॥ १०१.६ ॥

तपसा च महादेव्याः पर्वात्याः परमेश्वरः॥
वशीकृतो महादेवः सर्वभूतपतिर्भवः॥ १०१.७ ॥

एतस्मिन्नेव काले तु तारको नाम दानवः॥
तारात्मजो महातेजा बभूव दितिनन्दनः॥ १०१.८ ॥

तस्य पुत्रास्त्रयश्चापि तारकाक्षो महासुरः॥
विद्युन्माली च भगवान् कमलाक्षश्च वीर्यवान्॥ १०१.९ ॥

पितामहस्तथा चैषां तारो नाम महाबलः॥
तपसा लब्धवीर्यश्च प्रसादाद्ब्रह्मणः प्रभोः॥ १०१.१० ॥

सोपि तारो महातेजास्त्रैलोक्यं सचराचरम्॥
विजित्य समरे पूर्वं विष्णुं च जितवानसौ॥ १०१.११ ॥

तयोः समभवद्युद्धं सुघोरं रोमहर्षणम्॥
दिव्यं वर्षसहस्रं तु दिवारात्रमविश्रमम्॥ १०१.१२ ॥

सरथं विष्णुमादाय चिक्षेप शतयोजनम्॥
तारेण विजितः सङ्ख्ये दुद्राव गरुडध्वजः॥ १०१.१३ ॥

तारो वराञ्छतगुणं लब्ध्वा शतगुणं बलम्॥
पितामहाज्जगत्सर्वमवाप दितिनन्दनः॥ १०१.१४ ॥

देवेन्द्रप्रमुखाञ्जित्वा देवान्देवेश्वरेश्वरः॥
वारयामास तैर्देवान्सर्वलोकेषु मायया॥ १०१.१५ ॥

देवताश्च सहेन्द्रेण तारकाद्भयपीडिताः॥
न शान्तिं लेभिरे शूराः शरणं वा भयार्दिताः॥ १०१.१६ ॥

तदामरपतिः श्रीमान् सन्निपत्यमरप्रभुः॥
उवाचाङ्गिरसं देवो देवानामपि सन्निधौ॥ १०१.१७ ॥

भगवंस्तारको नाम तारजो दानवोत्तमः॥
तेन सन्निहता युद्धे वत्सा गोपतिना यता॥ १०१.१८ ॥

भयात्तस्मान्महाभाग बृहद्युद्धे बृहस्पते॥
अनिकेता भ्रमन्त्येते शकुन्ता इव पञ्जरे॥ १०१.१९ ॥

अस्माकं यान्यमोघानि आयुधान्यङ्गिरोवर॥
तानि मोघानि जायन्ते प्रभावादमरद्विषः॥ १०१.२० ॥

दशवर्षसहस्राणि द्विगुणानि बृहस्पते॥
विष्णुना योधितो युद्धे तेनापि न च सूदितः॥ १०१.२१ ॥

यस्तेनानिर्जितो युद्धे विष्णुना प्रभविष्णुना॥
कथमस्मद्विधस्तस्य स्थास्यते समरेऽग्रतः॥ १०१.२२ ॥

एवमुक्त्स्तु शक्रेण जीवः सार्धं सुराधिपैः॥
सहस्राक्षेण च विभुं सम्प्राप्याह कुशध्वजम्॥ १०१.२३ ॥

सोपि तस्य मुखाच्छ्रुत्वा प्रणयात्प्रणतार्तिहा॥
देवैरशेषैः सेन्द्रैस्तु जीवमाह पितामहः॥ १०१.२४ ॥

जाने वोर्तिं सुरेन्द्राणां तथापि श्रृणु साम्प्रतम्॥
विनिन्द्यदक्ष या देवी सती रुद्राङ्गसम्भवा॥ १०१.२५ ॥

उमा हैमवती जज्ञे सर्वलोकनमस्कृता॥
तस्याश्चैवेह रूपेण यूयं देवाः सुरोत्तमाः॥ १०१.२६ ॥

विभोर्यतध्वमाक्रष्टुं रुद्रस्यास्य मनो महत्॥
तयोर्योगेन सम्भूतः स्कन्दः शक्तिधरः प्रभुः॥ १०१.२७ ॥

षडास्यो द्वादशभुजः सेनानीः पावकिः प्रभुः॥
स्वाहेयः कार्तिकेयश्च गाङ्गेयः शरधामजः॥ १०१.२८ ॥

देवः शाखो विशाखश्च नैगमेशश्च वीर्यवान्॥
सेनापतिः कुमाराख्यः सर्वलोकनमस्कृतः॥ १०१.२९ ॥

लीलयैव महासेनः प्रबलं तारकासुरम्॥
बालोपि विनहत्यैको देवान् सन्तारयिष्यति॥ १०१.३० ॥

एवमुक्तास्तदातेन ब्रह्मणा परमेष्ठिना॥
बृहस्पतिस्तथा सेन्द्रैर्देवैर्देवं प्रणम्य तम्॥ १०१.३१ ॥

मेरो शिखरमासाद्य स्मरं सस्मार सुव्रतः॥
स्मरणाद्देवदेवस्य स्मरोपि सह भार्यया॥ १०१.३२ ॥

रत्या समं समागम्य नमस्कृत्य कृताञ्जलिः॥
सशक्रमाह तं जीवं जगज्जीवो द्विजोत्तमाः॥ १०१.३३ ॥

स्मृतो यद्भवता जीव सम्प्राप्तोहं तवान्तिकम्॥
ब्रूहि यन्मे विधातव्यं तमाह सुरपुजितः॥ १०१.३४ ॥

तमाह भगवाञ्छक्रः सम्भाव्य मकरध्वजम्॥
शङ्करेणाम्बिकामद्य संयोजय यथासुखम्॥ १०१.३५ ॥

तया स रमते येन भगवान् वृषभध्वजः॥
तेन मार्गेण मार्गस्व पत्न्या रत्याऽनया सह॥ १०१.३६ ॥

सोपि तुष्टो महादेवः प्रदास्यति शुभां गतिम्॥
विप्रयुक्तस्तया पूर्वं लब्द्वा तां गिरिजामुमाम्॥ १०१.३७ ॥

एवमुक्तो नमस्कृत्य देवदेवं शचीपतिम्॥
देवदेवाश्रमं गन्तुं मतिं चक्रे तया सह॥ १०१.३८ ॥

गत्वा तदश्रये शम्भोः सह रत्या महाबलः॥
वसन्तेन सहायेन देवं योक्तुमनाभवत्॥ १०१.३९ ॥

ततः सम्प्रेक्ष्य मदनं हसन् देवस्त्रियंवकः॥
नयनेन तृतीयेन सावज्ञं तमेवैक्षत॥ १०१.४० ॥

ततोस्य नेत्रजो वह्निर्मदनं पार्श्वतः स्थितम्॥
अदहत्तत्क्षणादेव ललाप करुणं रतिः॥ १०१.४१ ॥

रत्याः प्रलापमाकर्ण्य देवदेवो वृपध्वजः॥
कृपया परया प्राह कामपत्नीं निरीभ्य च॥ १०१.४२ ॥

अमूर्त्तोपि ध्रुपं भद्र कार्यं सर्वं पतिस्तव॥
रतिकाले ध्रुवे भद्रे करिष्यति न संशयः॥ १०१.४३ ॥

यदा विष्णुश्च भविता वासुदेवो महायशाः॥
शापाद्भृगोर्महातेजाः सर्वलोकहितायवै॥ १०१.४४ ॥

तदा तस्य सुतो यश्च स पतिस्ते भविष्यति॥
सा प्रणम्य तदा रुद्रं कामपत्नी शुचिस्मिता॥ १०१.४५ ॥

जगाम भवनं लब्ध्वा वसन्तेन समन्विता॥ १०१.४६ ॥

इति श्रीलिङ्गमहापुराणे पूर्वभागे मदनदाहोनामैकाधिकशततमोध्यायः॥ १०१ ॥