१००

ऋषयः ऊचुः॥
विजित्य विष्णुना सार्धं भगवान्परमेश्वरः॥
सर्वान्दधीचवचनात्कथं भेजे महेश्वरः॥ १००.१ ॥

सूत उवाच॥
दक्षयज्ञे सुविपुले देवान् विष्णुपुरोगमान्॥
ददाह सार्धं भगवान् रुद्रः सर्वान्मुनिगणानपि॥ १००.२ ॥

भद्रो नाम गणस्तेन प्रेषितः परमेष्ठिना॥
विप्रयोगेन देव्या वै दुःसहेनैव सुव्रताः॥ १००.३ ॥

सोसृजद्वीरभद्रश्च गणेशान्रोमजाञ्छुभान्॥
गणेश्वरैः समारुह्य रथं भद्रः प्रतावान्॥ १००.४ ॥

गन्तुं चक्रे मतिं यस्य सारथिर्भगवानजः॥
गणेश्वराश्च ते सर्वे विविधायुधपामयः॥ १००.५ ॥

विमानैर्विश्वतो भद्रैस्तमन्वयुरथो सुराः॥
हिमवच्छिखरे रम्ये हेमश्रृङ्गे सुशोभने॥ १००.६ ॥

यज्ञवाटस्तथा तस्य गङ्गाद्वारसमीपतः॥
तद्देशे चैव विख्यातं शुभं कनखलं द्विजाः॥ १००.७ ॥

दग्धुं वै प्रेषितश्चासौ भगवान् परमेष्ठिना॥
तदोत्पातो बभूवाथ लोकानां भयशंसनः॥ १००.८ ॥

पर्वताश्च व्यशीर्यन्त प्रचकम्पे वसुन्धरा॥
मरुतश्चाप्यघूर्णन्त चुक्षुभे मकरालयः॥ १००.९ ॥

अग्नयो नैव दीप्यन्ति न च दीप्यति भास्करः॥
ग्रहाश्च न प्रकाश्यन्ते न देवा न च दानवाः॥ १००.१० ॥

ततः क्षणात् प्रविश्यैव यज्ञवाटं महात्मनः॥
रोमजैः सहितो भद्रः कालाग्निरिवचापरः॥ १००.११ ॥

उवाच भद्रो भगवान् दक्षं चामिततेजसम्॥
सम्पर्कादेव दक्षाद्यमुनीन्देवान् पिनाकिना॥ १००.१२ ॥

दग्धुं सम्प्रोषितश्चाहं भवन्तं समुनीश्वरैः॥
इत्युक्त्वा यज्ञशालां तां ददाह गणपुङ्गवः॥ १००.१३ ॥

गणेश्वराश्च सङ्क्रुद्धा यूपानुत्पाट्य चिक्षिपुः॥
प्रस्तोत्रा सह होत्रा च दग्धं चैव गणेश्वरैः॥ १००.१४ ॥

गृहीत्वा गणपाः सर्वान् गङ्गास्रोतसि चिक्षिपुः॥
वीरभद्रो महातेजाः शक्रस्योद्यच्छतः करम्॥ १००.१५ ॥

व्यष्टम्भयददीनात्मा तथान्येषां दिवौकसाम्॥
भगस्य नेत्रे चोत्पाट्य करजाग्रेण लीलया॥ १००.१६ ॥

निहत्य मुष्टिना दन्तान् पूष्णश्चैवं न्यपातयत्॥
तथा चन्द्रमसन्देवं पादाङ्गुष्ठेन लीलया॥ १००.१७ ॥

घर्षयामास भगवान् वीरभद्रः प्रतापवान्॥
चिच्छेद च शिरस्तस्य शक्रस्य भगवान्प्रभोः॥ १००.१८ ॥

वह्नेर्हस्तद्वयं छित्त्वा जिह्वामुत्पाट्य लीलया॥
जघान मूर्ध्नि पादेन वीरभद्रो महाबलः॥ १००.१९ ॥

यमस्य दण्डं भगवान् प्रचिच्छेद स्वयं प्रभुः॥
जघान देवमीशानं त्रिशूलेन महाबलम्॥ १००.२० ॥

त्रयस्त्रिंशत्सुरानेवं विनिहत्याप्रयत्नतः॥
त्रयश्च त्रिशतं तेषां त्रिसाहस्रं च लीलया॥ १००.२१ ॥

त्रयं चैव सुरेन्द्राणां जघान च मुनीश्वरान्॥
अन्यांश्च देवान्देवोसौ सर्वान्युद्धाय संस्थितान्॥ १००.२२ ॥

जघान भगवान्नुद्रः खड्गमुष्ट्यादिसायकैः॥
अथ विष्णुर्महातेजाश्चक्रमुद्यम्य मूर्च्छितः॥ १००.२३ ॥

युयोध भगवांस्तेन रुद्रेण सह माधवः॥
तयोः समभवद्युद्धं सुघोरं रोमहर्षणम्॥ १००.२४ ॥

विष्णोर्योगबलात्तस्य दिव्यदेहाः सुदारुणाः॥ १००.२५ ॥

शङ्खचक्रगदाहस्ता असङ्ख्याताश्च जज्ञिरे॥
तान्सर्वानपि देवोसौनारायणसमप्रभ्रान्॥ १००.२६ ॥

निहत्य गदया विष्णुं ताडयामास मूर्धनि॥
ततश्चोरसि तं देवं लीलयैव रणाजिरे॥ १००.२७ ॥

पपात च तदा भूमौ विसञ्ज्ञः पुरुषोत्तमः॥
पुनरुत्थाय तं हन्तुं चक्रमुद्यम्य स प्रभुः॥ १००.२८ ॥

क्रोधरक्तेक्षमः श्रीमानतिष्ठत्पुरुषर्षभः॥
तस्य चक्रं च यद्रौद्रं कालादित्यसमप्रभम्॥ १००.२९ ॥

व्यष्टम्भयददीनात्मा करस्थं न चचाल सः॥
अतिष्ठत्स्तम्भितस्तेन श्रृङ्गवानिव निश्चलः॥ १००.३० ॥

त्रिभिश्च धर्षितं शार्ङ्गं त्रिधाभूतं प्रभोस्तदा॥
शार्ङ्गङ्कोटिप्रसङ्गाद्वै चिच्छेद च शिरः प्रभोः॥ १००.३१ ॥

छिन्नं च निपपातासु शिरस्तस्य रसातले॥
वायुना प्रेरितं चैव प्राणजेन पिनाकिना॥ १००.३२ ॥

प्रविवेश तदा चैव तदीयाहवनीयकम्॥
तत्प्रतिध्वस्तकलशं भग्नयूपं सतोरणम्॥ १००.३३ ॥

प्रदीपितमहाशालं दृष्ट्वा यज्ञोपि दुद्रुवे॥
ते तदा मृगरूपेण धावन्तं गगनं प्रति॥ १००.३४ ॥

वीरभद्रः समाधाय विशिरस्कमथाकरोत्॥
ततः प्रजापतिं धर्मं कश्यपं च जगद्गुरुम्॥ १००.३५ ॥

अरिष्टनेमिनं वीरो बहुपुत्रं मुनीश्वरम्॥
मुनीमङ्गिरसं चैव कृष्णाश्वं च महाबलः॥ १००.३६ ॥

जघान मूर्ध्नि पादेन दक्षं चैव यशस्विनम्॥
चिच्छेद च शिरस्तस्य ददाहाग्नौ द्विजोत्तमाः॥ १००.३७ ॥

सरस्वत्यश्च नासाग्रं देवमातुस्तथैव च॥
निकृत्य करजाग्रेण वरिभद्रः प्रतापवान्॥ १००.३८ ॥

तस्थौ श्रिया वृतो मध्ये प्रेतस्थाने यथा भवः॥
एतस्मिन्नेव काले तु भगवान्पद्मसम्भवः॥ १००.३९ ॥

भद्रमाह महातेजाः प्रार्थयन्प्रणतः प्रभुः॥
अलं क्रोधेन वै भद्र नष्टाश्चैव दिवौकसः॥ १००.४० ॥

प्रसीद क्षम्यतां सर्वं रोमजैः सह सुव्रत॥
सोपि भद्रः प्रभावेण ब्रह्मणः परमेष्ठिनः॥ १००.४१ ॥

शमं जगाम शनकैः शान्तस्तस्थौ तदाज्ञया॥
देवोपि तत्र भगवानंरिक्षे वृषध्वजः॥ १००.४२॥

सगणः सर्वदः शर्वः सर्वलोकमहेश्वरः॥
प्रार्थितश्चैव देवेन ब्रह्मणा भगवान् भवः॥ १००.४३ ॥

हतानां च तदा तेषां प्रददौ पूर्ववत्तनुम्॥
इन्द्रस्य च शिरस्तस्य विष्णोश्चैव महात्मनः॥ १००.४४ ॥

दक्षस्य च मुनीन्द्रस्य तथान्येषां महेश्वरः॥
वागीश्याश्चैव नासाग्रं देवमातुस्तथैव च॥ १००.४५ ॥

नष्टानां जीवितं चैव वराणि विविधानि च॥
दक्षस्य ध्वस्त वक्त्रस्य शिरसा भगवान्प्रभुः॥ १००.४६ ॥

कल्पयामास वै वक्त्रं लीलया च महान् भवः॥
दक्षोपि लब्धसञ्ज्ञश्च समुत्थाय कृताञ्जलिः॥ १००.४७ ॥

तुष्टाव देवदेवेशं शङ्करं वृषभध्वजम्॥
स्तुतस्तेन महातेजाः प्रदाय विविधान्वरान्॥ १००.४८ ॥

गाणपत्यं ददौ तस्मै दक्षायाक्लिष्टकर्मणे॥
देवाश्च सर्वे देवेशं तुष्टुवुः परमेश्वरम्॥ १००.४९ ॥

नारायणश्च भगवान् तुष्टाव च कृताञ्जलिः॥
ब्रह्मा च मुनयः सर्वे पृथक्पृथगजोद्भवम्॥ १००.५० ॥

तुष्टुवुर्देवर्देवेशं नीलकण्ठं वृषध्वजम्॥
तान्दोवाननुगृह्यैव भवोप्यन्तरधीयत॥ १००.५१ ॥

इति श्रीलिङ्गमहापुराणे पूर्वभागे शिवकृद्दक्षयज्ञविध्वंसनो नाम शततमोऽध्यायः॥ १०० ॥