०९९

ऋषयः ऊचुः॥
सम्भवः सूचितो देव्यास्त्वया सूत महामते॥
सविस्तरं वदस्वाद्य सतीत्वे च यथातथम्॥ ९९.१ ॥

मेनाजत्वं महादेव्या दक्षयज्ञविमर्दनम्॥
विष्णुना च कथं दत्ता देवदेवाय शम्भवे॥ ९९.२ ॥

कल्याणं वा कथं तस्य वक्तुमर्हसि साम्प्रतम्॥
तेषां तद्वचनं श्रुत्वा सूतः पौराणिकोत्तमः॥ ९९.३ ॥

सम्भवं च महादेव्याः प्राह तेषां महात्मनाम्॥
सूत उवाच॥
ब्रह्मणा कथितं पूर्व दण्डिने तत्सुविस्तरम्॥ ९९.४ ॥

युष्माभिर्वै कुमाराय तेन व्यासाय धीमते॥
तस्मादहमुपश्रुत्य प्रवदामि सुविस्तरम्॥ ९९.५ ॥

वचनाद्वो महाभागाः प्रणम्योमां तथा भवम्॥
सा भगाख्या जगद्धात्री लिङ्गमूर्तेस्त्रिवेदिका॥ ९९.६ ॥

लिङ्गस्तु भगवान्द्वाभ्यां जगत्सृष्टिर्द्विजोत्तमाः॥
लिङ्गमूर्तिः शिवो ज्योतिस्तमसश्चोपरि स्थितः॥ ९९.७ ॥

लिङ्गवेदिसमायोगादर्धनारीश्वरोभवत्॥
ब्रह्माणं विदधे देवमग्रे पुत्रं चतुर्मुखम्॥ ९९.८ ॥

प्राहिणोति स्म तस्यैव ज्ञानं ज्ञानमयो हरः॥
विश्वाधिकोसौ भगवानर्धनारीश्वरो विभुः॥ ९९.९ ॥

हिरण्यगर्भं तं देवो जायमानमपश्यत॥
सोपि रुद्रं महादेवं ब्रह्मापश्यत शङ्करम्॥ ९९.१० ॥

तं दृष्ट्वा संस्थितं देवमर्धनारीश्वरं प्रभुम्॥
तुष्टाव वाग्भिरिष्टाभिर्वरदं वारिजोद्भवः॥ ९९.११ ॥

विभजस्वेति विश्वेशं विश्वात्मानमजो विभुः॥
ससर्जदेवीं वामाङ्गात्पत्नीं चैवात्मनः समाम्॥ ९९.१२ ॥

श्रद्धा ह्यस्य शुभा पत्नी ततः पुंसः सुरातनी॥
सैवाज्ञया विभोर्देवी दक्षपुत्री बभूव ह॥ ९९.१३ ॥

सतीसञ्ज्ञा तदा सा वै रुद्रमेवाश्रिता पतिम्॥
दक्षं विनिन्द्य कालेन देवी मैना ह्यभूत्पुनः॥ ९९.१४ ॥

नारदस्यैव दक्षोपि शापादेवं विनिन्द्यच॥
अवज्ञादुर्मदो दक्षो देवदेवमुमापतिम्॥ ९९.१५ ॥

अनादृत्य कृतिं ज्ञात्वा सती दक्षेण तत्क्षणात्॥
भस्मीकृत्वात्मनो देहं योगमार्गेणसा पुनः॥ ९९.१६ ॥

बभूव पार्वती देवी तपसा च गिरेः प्रभोः॥
ज्ञात्वैतद्भगवान् भर्गो ददाह रुषितः प्रभुः॥ ९९.१७ ॥

दक्षस्य विपुलं यज्ञन्ध्यावनेर्वचनादपि॥
च्यवनस्य सुतो धीमान् दधीच इति विश्रुतः॥ ९९.१८ ॥

विजित्य विष्णुं समरे प्रसादात्त त्र्यम्बकस्य च॥
विष्णुना लोकपालंश्च शशाप च मुनीश्वरः॥ ९९.१९ ॥

रुद्रस्य क्रोधजेनैव वह्निना हविषा सुराः॥
विनाशोवै क्षणादेव मायया शङ्करस्य वै॥ ९९.२० ॥

इति श्रीलिङ्गमहापुराणे पूर्वभागे देवीसम्भवो नाम नवनवतितमोऽध्यायः॥ ९९ ॥