ऋषय ऊचुः॥
जलन्धरं जटामौलिः पुरा जम्भरिविक्रमम्॥
कथं जघान भगवान् भगनेत्रहरो हरः॥ ९७.१ ॥
वक्तुमर्हसि चास्माकं रोमहर्षणसुव्रत॥
सूत उवाच॥
जलन्धर इति ख्यातो जलमण्डलसम्भवः॥ ९७.२ ॥
आसीदन्तकसङ्काशस्तपसा लब्धविक्रमः॥
तेन देवाः सगन्धर्वाः सयक्षोरगराक्षसाः॥ ९७.३ ॥
निर्जिताः समरे सर्वे ब्रह्मा च भगवानजः॥
जित्वैव देवसङ्घातं ब्रह्माणं वै जलन्धरः॥ ९७.४ ॥
जगाम देवदेवशं विष्णुं विश्वहरं गुरुम्॥
तयोः समभवद्युद्धं दिवारत्रमविश्रमम्॥ ९७.५ ॥
जलन्धरेशयोस्तेन निर्जितो मधुसूदनः॥
जलन्धरोपि तं जित्वा देवदेवञ्जनार्दनम्॥ ९७.६ ॥
प्रोवाचेदं दितेः पुत्रान् न्यायधीर्जेतुमीश्वरम्॥
सर्वे जिता मया युद्धे शङ्करो ह्यजितो रणे॥ ९७.७ ॥
तं जित्वा सर्वमीशानं गणपैर्नदिना क्षणात्॥
अहमेव भवत्वं च ब्रह्मत्वं वैष्णवं तथा॥ ९७.८ ॥
वासवत्वं च युष्माकं दास्ये दानवपुङ्गवाः॥
जलन्धरवचः श्रुत्वा सर्वे ते दानवाधमाः॥ ९७.९ ॥
जगर्जुरुच्चैः पापिष्ठा मृत्युदर्शनतत्पराः॥
दैत्यैरेतैस्तथान्यैश्च रथनागतुरङ्गमैः॥ ९७.१० ॥
सन्नद्धैः सह सन्नह्य शर्वं प्रति ययौ बली॥
भवोपि दृष्ट्वा दैत्येन्द्रं मेरुकूटमिव स्थितम्॥ ९७.११ ॥
अवध्यत्वमपि श्रुत्वा तथान्यैर्भगनेत्रहा॥
ब्रह्मणो वचनं रक्षन् रक्षको जगतां प्रभुः॥ ९७.१२ ॥
साम्बः सनन्दी सगमः प्रोवाच प्रहसन्निव॥
किं कृत्यमसुरेशान युद्धेनानेन साम्प्रतम्॥ ९७.१३ ॥
मद्बाणैर्भिन्नसर्वाङ्गो मर्तुमभ्युद्यते मुदा॥
जलन्धरोपि तद्वाक्यं श्रुत्वा श्रोत्रविदारणम्॥ ९७.१४ ॥
सुरेश्वरमुवाचेदं सुरेतरबलेश्वरः॥
वाक्येनालं महाबाहो देवदेव वृषध्वज॥ ९७.१५ ॥
चन्द्रांशुसन्निभैः शस्त्रैर्हर योद्धुमिहागतः॥
निशम्यास्यवचः शूली पादाङ्गुष्ठेन लीलया॥
महाम्भसि चकाराशु रथाङ्गं रौद्रमायुधम्॥ ९७.१६ ॥
कृत्वार्णवाम्भसि सितं भगवान् रथाङ्गं स्मृत्वा जगत्त्रयमनेन हताः सुराश्च॥
दक्षान्धकान्तकपुरत्रययज्ञहर्ता लोकत्रयान्तककरः प्रहसन्तदाह॥ ९७.१७ ॥
पादेन निर्मितं दैत्य जलन्धर महार्णवे॥
बलवान् यदि चोद्धर्तुं तिष्ठ योद्धुं न चान्यथा॥ ९७.१८ ॥
तस्य तद्वचनं श्रुत्वा क्रोधेनादीप्तलोचनः॥
प्रदहन्निव नेत्राभ्यां प्राहालोक्य जगत्त्रयम्॥ ९७.१९ ॥
जलन्धर उवाच॥
गदामुद्धृत्य हत्वा च नन्दिनं त्वां च शङ्कर॥
हत्वा लोकान्सुरैः सार्धं डुण्डुभान् गरुडो यथा॥ ९७.२० ॥
हन्तुं चराचरं सर्वं समर्थोहं सवासवम्॥
को महेश्वर मद्बाणैरच्छेद्यो भुवनत्रये॥ ९७.२१ ॥
बालभावे च भगवान् तपसैव विनिर्जितः॥
ब्रह्मा बलीयौवने वै मुनयः सुरपुङ्गवैः॥ ९७.२२ ॥
दग्धं क्षणेन सकलं त्रैलोक्यं सचराचरम्॥
तपसा किं त्वयया रुद्र निर्जितो भगवानपि॥ ९७.२३ ॥
इन्द्राग्नियमवित्तेशवायुवारीश्वरादयः॥
न सेहिरे यथा नागा गन्धं पक्षिपतेरिव॥ ९७.२४ ॥
न लब्ध्वा दिवि भूमौ च बाहवो मम शङ्कर॥
समस्तान्पर्वतान्प्राप्य घर्षिताश्च गणेश्वर॥ ९७.२५ ॥
गिरीन्द्रो मन्दरः श्रीमान्नलो मेरुः सुशोभनः॥
घर्षितो बाहुदण्डेन कण्डूनोदार्थमापतत्॥ ९७.२६ ॥
गङ्गा निरुद्धा बाहुभ्यां लीलार्थं हिमवद्गिरौ॥
नारीणां मम भृत्यैश्च वज्रो बद्धो दिवौकसाम्॥ ९७.२७ ॥
वडवाया मुखं भग्नं गृहीत्वा वै करेण तु॥
तत्क्षणादेव सकलं चैकार्णवमभूदिदम्॥ ९७.२८ ॥
ऐरावतादयो नागाः क्षिप्तः सिन्धुजलोपरि॥
सरथो भगवानिन्द्रः क्षिप्तश्च शतयोजनम्॥ ९७.२९ ॥
गरुडोपि मया बद्धो नागपाशेन विष्णुना॥
उर्वश्याद्या मया नीता नार्यः कारागृहान्तरम्॥ ९७.३० ॥
कथञ्चिल्लब्धवान् शक्रः शचीमेकां प्रणम्य माम्॥
मां न जानासि दैत्येन्द्रं जलन्धरमुमापते॥ ९७.३१ ॥
सूत उवाच॥
एवमुक्तो महादेवः प्रादहद्वै रथं तदा॥
तस्य नेत्राग्निभागैककलाधाधन चाकुलम्॥ ९७.३२ ॥
दैत्यानामतुलबलैर्हयैश्च नागैर्दैत्येन्द्रास्त्रिपुररिपोर्निरीक्षणेन॥
नागाद्वैशसमनुसंवृतश्च नागैर्देवेशं वचनमुवाच चाल्पबुद्धिः॥ ९७.३३ ॥
किं कार्यं मम युधि देवदैत्यसङ्घैर्हन्तुं यत्सकलमिदं क्षणात्समर्थः॥
यत्तस्माद्भयमिहनास्ति योद्धमीश वाञ्छैषा विपुलतरा न संशयोत्रः॥ ९७.३४ ॥
तस्मात्त्वं मम मदनारिदक्षशत्रो यज्ञारे त्रिपुररिपो ममैव वीरैः॥
भूतेन्द्रैर्हरिवदनेन देवसङ्घैर्योद्धुं ते बलमिह चास्ति चेद्धि तिष्ठ॥ ९७.३५ ॥
इत्युक्त्वाथ महादेवं महादेवारिनन्दनः॥
न चचाल न सस्मार निहतान्बान्धवान्युधि॥ ९७.३६ ॥
दुर्मदेनाविनीतात्मा दोर्भ्यामास्फोट्य दोर्बलात्॥
सुदर्शनाख्यं यच्चक्रन्तेन हन्तुं समुद्यतः॥ ९७.३७ ॥
दुर्धरेण रथाङ्गेन कुच्छ्रेणापि द्विजोत्तमाः॥
स्थापयामास वै स्कन्धे द्विधाभूतश्च तेन वै॥ ९७.३८ ॥
कुलिशेन यथा छिन्नो द्विधा गिरिवरोद्विजाः॥
पपात दैत्यो बलवानञ्जनाद्रिरिवापरः॥ ९७.३९ ॥
तस्य रक्तेन रौद्रेण सम्पूर्णमभवत्क्षणात्॥
तद्रक्तमखिलं रुद्रनियोगान्मांसमेव च॥ ९७.४० ॥
महारौरवमासाद्य रक्तकुण्डमभूदहो॥
जलन्धरं हतं दृष्ट्वा देवगन्धर्वपार्षदाः॥ ९७.४१ ॥
सिंहनादं महत्कृत्वा साधु देवेति चाब्रुवन्॥
यः पठेच्छृणुयाद्वापि जलन्धरविमर्दनम्॥ ९७.४२ ॥
श्रावयेद्वा यथान्यायं गाणपत्यमवाप्नुयात्॥ ९७.४३ ॥
इति श्रीलिङ्गमहापुराणे पूर्वभागे जलन्धरवधो नाम सप्तनवितितमोऽध्यायः॥ ९७ ॥