ऋषय ऊचुः॥
कथं देवो महादेवो विश्वसंहारकारकः॥
शरभाख्यं महाघोरं विकृतं रूपमास्थितः॥ ९६.१ ॥
किङ्किं धैर्यं कृतं तेन ब्रूहि सर्वलमशेषतः॥
सूत उवाच॥
एवमभ्यर्थितो देवैर्मतिं चक्रे कृपालयः॥ ९६.२ ॥
यत्तेजस्तु नृसिंहाख्यं संहर्त्तु परमेश्वरः॥
तदर्थं स्मृतवान् रुद्रोवीरभद्रं महाबलम्॥ ९६.३ ॥
आत्मनो भैरवं रूपं महाप्रलयकारकम्॥
आजगाम पुरा सद्यो गणानामग्रतो हसन्॥ ९६.४ ॥
साट्टहासैर्गणवरैरुत्पतद्भिरितस्ततः॥
नृसिंहरूपैरत्युग्रैः कोटिभिः परिवारितः॥ ९६.५ ॥
तावद्बिरभितो वीरैर्नृत्यद्भिश्च मुदान्वितैः॥
क्रीडद्भिश्च महाधीरैर्ब्रह्माद्यैः कुन्दुकैरिव॥ ९६.६ ॥
अदृष्टपूर्वैरन्यैश्च वेष्टितो वीरवन्दितः॥
कल्पान्तज्वलनज्वालो विलसल्लोचनत्रयः॥ ९६.७ ॥
आत्तशस्त्रो जटाजूटे ज्वलद्बालेन्दुमण्डितः॥
बालेन्दुद्वितयाकारतीक्ष्णदंष्ट्राङ्कुरद्वयः॥ ९६.८ ॥
आखण्डलधनुःखण्डसन्निभभ्रूलतायुतः॥
महाप्रचण्डहुङ्कारबधिरीकृतदिङ्मुखः॥ ९६.९ ॥
नीलमेघाञ्जनाकारभीषणश्मश्रुरद्भुतः॥
वादखण्डमखण्डाभ्यां भ्रामयंस्त्रिशिखं मुहुः॥ ९६.१० ॥
वीरभद्रोपि भगवान् वीरशक्तिविजृम्भितः॥
स्वयं विज्ञापयामास किमत्र स्मृतिकारणम्॥ ९६.११ ॥
आज्ञापय जगत्स्वामिन् प्रसादः क्रियतां मयि॥
श्रीभगवानुवाच॥
अकाले भयमुत्पन्नं देवानामपि भैरव॥ ९६.१२ ॥
ज्वलितः स नृसिंहाग्निः शमयैनं दुरासदम्॥
सान्त्वयन् बोधयादौ तं तेन किं नोपशाम्यति॥ ९६.१३ ॥
ततो मत्परमं भावं भैरवं सम्प्रदर्शय॥
सूक्ष्मं सूक्ष्मेण संहृत्य स्थूलं स्थूलेन तेजसा॥ ९६.१४ ॥
वक्त्रमानय कृत्तिं च वीरभद्र ममाज्ञया॥
इत्यादिष्टो गणाध्यक्षः प्रशान्तवपुरास्थितः॥ ९६.१५ ॥
जगाम रंहसा तत्र यत्रास्ते नरकेसरी॥
ततस्तं बोधयामास वीरभद्रो हरो हरिम्॥ ९६.१६ ॥
उवाच वाक्यमीशानः पितापुत्रमिवौरसम्॥
श्रीवीरभद्र उवाच॥
जगत्सुखाय भगवन्नवतीर्णोसि माधव॥ ९६.१७ ॥
स्थित्यर्थेन च युक्तेसिपरेण परमेष्ठिना॥
जन्तुचक्रं भगवता रक्षितं मत्स्यरूपिणा॥ ९६.१८ ॥
पुच्छेनैव समाबध्य भ्रमन्नेकार्णवे पुरा॥
बिभर्षि कूर्मरूपेण वाराहेणोद्धृता मही॥ ९६.१९ ॥
अनेन हरिरूपेण हिरण्यकशिपुर्हतः॥
वामनेन बलिर्बद्धस्त्वया विक्रमता पुनः॥ ९६.२० ॥
त्वमेव सर्वभूतानां प्रभावः प्रभुरव्ययः॥
यदायदा हि लोकस्य दुःखं किञ्चित्प्रजायते॥ ९६.२१ ॥
तदातदावतीर्णस्त्वं करिष्यसि निरामयम्॥
नाधिकस्त्वत्समोप्यस्तिहरे शिवपरायण॥ ९६.२२ ॥
त्वया धर्माश्च वेदाश्च शुभे मार्गे प्रतिष्ठिताः॥
यदर्थमवतारोयं निहतः सोपि केशव॥ ९६.२३ ॥
अत्यन्तघोरं भगवन्नरसिंह वपुस्तव॥
उपसंहर विश्वात्मंस्त्वमेव मम सन्निधौ॥ ९६.२४ ॥
सूत उवाच॥
इत्युक्तो वीरभद्रेण नृसिंहः शान्तया गिरा॥
ततोधिकं महाघोरं कोपं प्रज्वालयद्धरिः॥ ९६.२५ ॥
श्रीनृसिंह उवाच॥
आगतोसि यतस्तत्र गच्छ त्वं मा हितं वद॥
इदानीं संहरिष्यामि जगदेतच्चराचरम्॥ ९६.२६ ॥
संहर्त्तुर्न हि संहारः स्वतो वा परतोपि वा॥
शासितं मम सर्वत्र शास्ता कोपि न विद्यते॥ ९६.२७ ॥
मत्प्रसादेन सकलं समर्यादं प्रवर्तते॥
अहं हि सर्वशक्तीनां प्रवर्तकनिवर्त्तकः॥ ९६.२८ ॥
यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा ॥
तत्तद्विद्धि गणाध्यक्ष मम तेजोविजृम्भितम्॥ ९६.२९ ॥
देवतापरमार्थज्ञा ममैव परमं विदुः॥
मदंशाः शक्तिसम्पन्ना ब्रह्मशक्रादयः सुराः॥ ९६.३० ॥
मन्नाभिपङ्कजाज्जातः पुरा ब्रह्मा चतुर्मुखः॥
तल्ललाटसमुत्पन्नो भगवान्वृषभध्वजः॥ ९६.३१ ॥
रजसाधिष्ठितः स्रष्टा रुद्रस्तामस उच्यते॥
अहं नियन्ता सर्वस्य मत्परं नास्ति दैवतम्॥ ९६.३२ ॥
विश्वाधिकः स्वतन्त्रश्च कर्ता हर्ताखिलेश्वरः॥
इदं तु मत्परं तेजः कः पुनः श्रोतुमिच्छति॥ ९६.३३ ॥
अतो मां शरणं प्राप्य गच्छ त्वं विगतज्वरः॥
अवेहि परमं भावमिदं भूतमहेश्वरः॥ ९६.३४ ॥
कालेस्म्यहं कालविनाशहेतुर्लोकान् समाहर्त्तुमहं प्रवृत्तः॥
मृत्योर्मृत्युं विद्धि मां वीरभद्र जीवन्त्येते मत्प्रसादेन देवाः॥ ९६.३५ ॥
सूत उवाच॥
साहङ्कारमिदं श्रुत्वा हरेरमितविक्रमः॥
विहस्योवाच सावज्ञं ततो विस्फुरिताधरः॥ ९६.३६ ॥
श्रीवीरभद्र उवाच॥
किं न जानासि विश्वेशं संहर्तारं पिनाकिनम्॥
असद्वादो विवादश्च विनाशस्त्वयि केवलः॥ ९६.३७ ॥
तवान्योन्यावताराणि कानि शेषाणि साम्प्रतम्॥
कृतानियेन केनापि कथाशेषो भविष्यति॥ ९६.३८ ॥
दोषं त्वं पश्य एतत्त्वमवस्थामीदृशीं गतः॥
तेन संहारदक्षेण क्षणात्सङ्क्षयमेष्यसि॥ ९६.३९ ॥
प्रकृतिस्त्वं पुमान् रुद्रस्त्वयि वीर्यं समाहितम्॥
त्वन्नाभिपङ्कजाज्जातः पञ्चवक्त्रः पितामहः॥ ९६.४० ॥
सृष्ट्यर्थेन जगत्पूर्वं शङ्करं नीललोहितम्॥
ललाटे चिन्तयामास तपस्युग्रे व्यवस्थितः॥ ९६.४१ ॥
तल्ललाटादभूच्छम्भोः सृष्ट्यर्थं तन्न दूषणम्॥
अंशोहं देवदेवस्य महाभैरवरूपिणः॥ ९६.४२ ॥
त्वत्संहारे नियुक्तोस्मि विनयेन बलेन च॥
एवं रक्षो विदार्यैव त्वं शक्तिकलया युतः॥ ९६.४३ ॥
अहङ्कारावलेपेन गर्जसि त्वमतन्द्रितः॥
उपकारो ह्यसाधूनामपकाराय केवलम्॥ ९६.४४ ॥
यदि सिंह महेशानं स्वपुनर्भूत मन्यसे॥
न त्वं स्रष्टा न संहर्ता न स्वतन्त्रो हि कुत्रचित्॥ ९६.४५ ॥
कुलालचक्रवच्छक्त्या प्रेरितोसि पिनाकिना॥
अद्यापि तव निक्षिप्तं कपालं कूर्मरूपिणः॥ ९६.४६ ॥
हरहारलतामध्ये मुग्ध कस्मान्न बुध्यसे॥
विस्मृतं किं तदंशेन दंष्ट्रोत्पातनपीडितः॥ ९६.४७ ॥
वाराहविग्रहस्तेऽद्य साक्रोशं तारकारिणा॥
दग्धोसि यस्य शूलाग्रे विष्वक्सेनच्छलाद्भवान्॥ ९६.४८ ॥
दक्षयज्ञे शिरश्छिन्नं मया ते यज्ञरूपिणः॥
अद्यापि तव पुत्रस्य ब्रह्मणः पञ्चमंशिरः॥ ९६.४९ ॥
छिन्नं तमेनाभिसन्धं तदंशं तस्य तद्वलम्॥
निर्जितस्त्वं दधीचेन सङ्ग्रामे समरुद्गणः॥ ९६.५० ॥
कण्डूयमाने शिरसि कथं तद्विस्मृतं त्वया॥
चक्रं विक्रमतो यस्य चक्रपाणे तव प्रियम्॥ ९६.५१ ॥
कुतः प्राप्तं कृतं केन त्वया तदपि विस्मृतम्॥
ते मया सकला लोका गृहीतास्त्वं पयोनिधौ॥ ९६.५२ ॥
निद्रापरवशः शेषे स कथं सात्त्विको भवान्॥
त्वदादिस्तम्बपर्यन्तं रुद्रशक्तिविजृम्भितम्॥ ९६.५३ ॥
शक्तिमानभितस्त्वं च ह्यनलस्त्वं च मोहितः॥
तत्तेजसोपि महात्म्यं युवां द्रष्टुं न हि क्षमौ॥ ९६.५४ ॥
स्थूला ये हि प्रपश्यन्ति तद्विष्णोः परमं पदम्॥
द्यावापृथिव्या इन्द्राग्नियमस्य वरुणस्य च॥ ९६.५५ ॥
ध्वान्तोदरे शशाङ्कस्य जनित्वा परमेश्वरः॥
कालोसि त्वं महाकालः कालकालो महेश्वरः॥ ९६.५६ ॥
अतस्त्वमुग्रकलया मृत्योर्मृत्युर्भविष्यसि॥
स्थिरधन्वा क्षयो वीरो वीरो विश्वाधिकः प्रभुः॥ ९६.५७ ॥
उपहस्ता ज्वरं भीमो मृगपक्षिहिरण्मयः॥
शास्ताशेषस्य जगतो न त्वं नैवचतुर्मुखः॥ ९६.५८ ॥
इत्थं सर्वं समालोक्य संहारात्मानमात्मना॥
नो चेदिदानीं क्रोधस्य महाभैरवरूपिणः॥ ९६.५९ ॥
वज्राशनिरिव स्थाणोस्त्वेवं मृत्युः पतिष्यति॥
सूत उवाच॥
इत्युक्तो वीरभद्रेण नृसिंहः क्रोधविह्वलः॥ ९६.६० ॥
ननाद तनुवेगेन तं गृहीतुं प्रचक्रमे॥
अत्रान्तरे महाघोरं विपक्षभयकारणम्॥ ९६.६१ ॥
गगनव्यापि दुर्धर्षशैववतेजः समुद्भवम्॥
वीरभद्रस्य तद्रूपं तत्क्षणादेव दृश्यते॥ ९६.६२ ॥
न तद्धिरण्मयं सौम्यं न सौरं नाग्निसम्भवम्॥
न तडिच्चन्द्रसदृशमनौपम्यं महेश्वरम्॥ ९६ ६३ ॥
तदा तेजांसि सर्वाणि तस्मिन् लीनानि शाङ्करे॥
ततोव्यक्तो महातेजा व्यक्ते सम्भवतस्ततः॥ ९६.६४ ॥
रुद्रसाधारणं चैव चिह्नित विकृताकृति॥
ततः संहारूपेण सुव्यक्तः परमेश्वरः॥ ९६.६५ ॥
पश्यतां सर्वदेवानां जयशब्दादिमङ्गलैः॥
सहस्रबाहुर्जटिलश्चन्द्रार्धकृतशेखरः॥ ९६.६६ ॥
स मृगार्धशरीरेण पक्षाभ्यां चञ्चुना द्विजाः॥
अतितीक्ष्णमहादंष्ट्रो वज्रतुल्यनखायुधः॥ ९६.६७ ॥
कण्ठे कालो महाबाहुश्चतुष्पाद्वह्निसम्भवः॥
युगान्तोद्यतजीमूतभीमगम्भीरनिःस्वनः॥ ९६.६८ ॥
समं कुपितवृत्ताग्निव्यावृत्तनयनत्रयः॥
स्पष्टदंष्ट्रोधरोष्ठश्च हुङ्कारेण युतो हरः॥ ९६.६९ ॥
हरिस्तद्दर्शनादेव विनष्टबलविक्रमः॥
बिभ्रदौर्म्यं सहस्रांशोरधः खद्योतविभ्रमम्॥ ९६.७० ॥
अथ विभ्रम्य पक्षाभ्यां नाभिपादेभ्युदारयन्॥
पादावाबध्य पुच्छेन बाहुभ्यां बाहुमण्डलम्॥ ९६.७१ ॥
भिन्दन्नुरसि बाहुभ्यां निजग्राह हरो हरिम्॥
ततो जगाम गगनं देवैः सह महर्षिभिः॥ ९६.७२ ॥
सहसैव भयाद्विष्णुं विहगश्च यथोरगम्॥
उत्क्षिप्योत्क्षिप्य सङ्गृह्य निपात्य च निपात्य च॥ ९६.७३ ॥
उड्डीयोड्डीय भगवान् पक्षाघातविमोहितम्॥
हरिं हरन्तं वृषभं विश्वेशानं तमीश्वरम्॥ ९६.७४ ॥
अनुयान्ति सुराः सर्वे नमोवाक्येन तुष्टुवुः॥
नीयमानः परवशो दीनवक्त्रः कृताञ्जलिः॥ ९६.७५ ॥
तुष्टाव परमेशानं हरिस्तं ललिताक्षरैः॥
श्रीनृसिंह उवाच॥
नमोरुद्राय शर्वाय महाग्रासाय विष्णवे॥ ९६.७६ ॥
नम उग्राय भीमाय नमः क्रोधाय मन्यवे॥
नमो भवाय शर्वाय शङ्कराय शिवाय ते॥ ९६.७७ ॥
कालकालाय कालाय महाकालाय मृत्यवे॥
वीराय वीरभद्राय क्षयद्वीराय शूलिने॥ ९६.७८ ॥
महादेवाय महते पशूनां पतये नमः॥
एकाय नीलकण्ठाय श्रीकण्ठाय पिनाकिने॥ ९६.७९ ॥
नमोनन्ताय सूक्ष्माय नमस्ते मृत्युमन्यवे॥
पराय परमेशाय परात्परतराय ते॥ ९६.८० ॥
परात्पराय विश्वाय नमस्ते विश्वमूर्त्तये॥
नमो विष्णुकलत्राय विष्णुक्षेत्राय भानवे॥ ९६.८१ ॥
कैवर्ताय किराताय महाव्याधाय शाश्वते॥
भैरवाय शरण्याय महाबैरवरूपिणे॥ ९६.८२ ॥
नमो नृसिंहसंहर्त्रे कामकालपुरारये॥
महापाशौघसंहर्त्रे विष्णुमायान्तकारिणे॥ ९६.८३ ॥
त्र्यम्बकाय त्र्यक्षराय शिपिविष्टाय मीढुषे॥
मृत्युञ्जयाय शर्वाय सर्वज्ञाय मखारये॥ ९६.८४ ॥
मखेशाय वरेण्याय नमस्ते वह्निरूपिणे॥
महाघ्राणाय जिह्वाय प्राणापानप्रवर्त्तिने॥ ९६.८५ ॥
त्रिगुणाय त्रिशूलाय गुणातीताय योगिने॥
संसाराय प्रवाहाय महायन्त्रप्रवर्तिने॥ ९६.८६ ॥
नमश्चन्द्राग्निसूर्याय मुक्तिवैचित्र्यहेतवे॥
वरदायावताराय सर्वकारणहेतवे॥ ९६.८७ ॥
कपालिने करालाय पतये पुण्यकीर्त्तये॥
अमोघायाग्निनेत्राय लकुलीशाय शम्भवे॥ ९६.८८ ॥
भिषक्तमाय मुण्डाय दण्डिने योगरूपिणे॥
मेघवाहाय देवाय पार्वतीपतये नमः॥ ९६.८९ ॥
अव्यक्ताय विशोकाय स्थिराय स्थिरधन्विने॥
स्थाणवे कृत्तिवासाय नमः पञ्चार्थहेतवे॥ ९६.९० ॥
वरदायैकपादाय नमश्चन्द्रार्धमौलिने॥
नमस्तेऽध्वरराजाय वयसां पतये नमः॥ ९६.९१ ॥
योगीश्वराय नित्याय सत्याय परमेष्ठिने॥
सर्वात्मने नमस्तुभ्यं नमः सर्वेश्वराय ते॥ ९६.९२ ॥
एकद्वित्रिचतुः पञ्चकृत्वस्तेऽस्तु नमोनमः॥
दशकृत्वस्तु साहस्रकृत्वस्ते च नमोनमः॥ ९६.९३ ॥
नमोपरिमितं कृत्वानन्तकृत्वो नमोनमः॥
नमोनमो नमो भूयः पुनर्भूयो नमोनमः॥ ९६.९४ ॥
सूत उवाच॥
नाम्नामष्टशतेनैवं स्तुत्वामृतमयेन तु॥
पुनस्तु पार्थयामास नृसिंहः शरभेश्वरम्॥ ९६.९५ ॥
यदायदा ममाज्ञानमत्यहङ्कारदूषितम्॥
तदातदापनेतव्यं त्वयैव परमेश्वरः॥ ९६.९६ ॥
एवं विज्ञापयन्प्रीतः शङ्करं नरकेसरी॥
नन्वशक्तो भवान् विष्णो जीवितान्तं पराजितः॥ ९६.९७ ॥
तद्वक्त्रशेषमात्रान्तं कृत्वा सर्वस्य विग्रहम्॥
शुक्तिशित्यं तदा मङ्गं वीरभद्रः क्षणात्ततः॥ ९६.९८ ॥
देवा ऊचुः॥
अथ ब्रह्मादयः सर्वे वीरभद्रत्वया दृशा॥
जीविताः स्मो वयं देवाः पर्जन्येनेव पादपाः॥ ९६.९९ ॥
यस्य भीषा दहत्याग्निरुदेति च रविः स्वयम्॥
वातो वाति च सोसित्वं मृत्युर्धावति पञ्चमः॥ ९६.१०० ॥
यदव्यक्तं परं व्योम कलातीतं सदाशिवम्॥
भगवंस्त्वामेव भवं वदन्ति ब्रह्मवादिनः॥ ९६.१०१ ॥
के वयमेव धातुक्ये वेदने परमेश्वरः॥
न विद्धि परमं धाम रूपलावण्यवर्णने॥ ९६.१०२ ॥
उपसर्गेषु सर्वेषु त्रायस्वास्मान् गणाधिप॥
एकादशात्मन् भगवान्वर्तते रूपवान् हरः॥ ९६.१०३ ॥
ईदृशान् तेऽवताराणि दृष्ट्वा शिव बहूंस्तमः॥
कदाचित्सन्दिहेन्नास्मांस्त्वच्चिन्तास्तमया तथा॥ ९६.१०४ ॥
गुञ्जागिरिवरतटामितरूपाणि सर्वशः॥
अभ्यसंहर गम्यं ते न नीतव्यं परापरा॥ ९६.१०५ ॥
द्वे तनू तव रुद्रस्य वेदज्ञा ब्राह्मणा विदुः॥
घोराप्यन्या शिवाप्यन्या ते प्रत्येकमनेकधा॥ ९६.१०६ ॥
इहास्मान्पाहि भगवन्नित्याहतमहाबलः॥
भवता हि जगत्सर्वं व्याप्तं स्वेनैव तेजसा॥ ९६.१०७ ॥
ब्रह्मविष्ण्वीन्द्रचन्द्रादि वयं च प्रमुखाः सुराः॥
सुरासुराः सम्प्रसूतास्त्वत्तः सर्वे महेश्वर॥ ९६.१०८ ॥
ब्रह्मा च इन्द्रो विष्णुश्च यमाद्या न सुरासुरान्॥
ततो निगृह्य च हरिं सिंह इत्युपचेतसम्॥ ९६.१०९ ॥
यतो बिभर्षि सकलं विभज्य तनुमष्टधा॥
अतोस्मान्पाहि भगवन्सुरादानैरभीप्सितैः॥ ९६.११० ॥
उवाच तान् सुरान्देवो महर्षिश्च पुरातनान्॥
यथा जलं जलं क्षिप्तं क्षीरं क्षीरे घृतं घृते॥ ९६.१११ ॥
एक एव तदा विष्णुः शिवलीनो न चान्यथा॥
एष एव नृसिंहात्मा सदर्पश्च महाबलः॥ ९६.११२ ॥
जगत्संहारकारेण प्रवृत्तो नरकेसरी॥
याजनीयो नमस्तस्मै मद्भक्तिसिद्धिकाङ्क्षिभिः॥ ९६.११३ ॥
एतावदुक्त्वा भगवान्वीरभद्रो महाबलः॥
अपश्यन् सर्वभूतानां तत्रैवान्तरधीयत॥ ९६.११४ ॥
नृसिंहकृत्तिवसनस्तदाप्रभृति शङ्करः॥
वक्त्रं तन्मुण्डमालायां नायकत्वेन कल्पितम्॥ ९६.११५ ॥
ततो देवा निरातङ्काः कीर्तयन्तः कथामिमाम्॥
विस्मयोत्फुल्लनयना जम्मुः सर्वे यथागतम्॥ ९६.११६ ॥
य इदं परमाख्यानं पुण्यं वेदैः समन्वितम्॥
पठित्वा श्रृणुते चैव सर्वदुःखविनाशनम्॥ ९६.११७ ॥
धन्यं यशस्यमायुष्मारोग्यं पुष्टिवर्धनम्॥
सर्वविघ्नप्रशमनं सर्वव्याधिविनाशनम्॥ ९६.११८ ॥
अपमृत्युप्रशमनं महाशान्तिकरं शुभम्॥
अरिचक्रप्रशमनं सर्वाधिप्रविनाशनम्॥ ९६.११९ ॥
ततो दुःस्वप्नशमनं सर्वभूतनिवारणम्॥
विषग्रहक्षयकरं पुत्रपौत्रादिवर्धनम्॥ ९६.१२० ॥
योगसिद्धिप्रदं सम्यक् शिवज्ञानप्रकाशकम्॥
शेषलोकस्य सोपानं वाञ्छितार्थैकसाधनम्॥ ९६.१२१ ॥
विष्णुमायानिरसनं देवतापरमार्थदम्॥
वाञ्छसिद्धिप्रदं चैव ऋद्धिप्रज्ञादिसाधनम्॥ ९६.१२२ ॥
इदं तु शरभाकारं परं रूपं पिनाकिनः॥
प्रकाशीतव्यं भक्तेषु चिरेषुद्यमितेषु च॥ ९६.१२३ ॥
तैरेव पठितव्यं च श्रोतव्यं च शिवात्मभिः॥
शिवोत्सवेषु सर्वेषु चतुर्दश्यष्टमीषु च॥ ९६.१२४ ॥
पठेत्प्रतिष्ठाकालेषु शिवसन्निधिकारणम्॥
चोरव्याघ्राहिसिंहान्तकृतो राजभयेषु च॥ ९६.१२५ ॥
अत्रान्योत्पातभूकम्पदावाग्निपांसुवृष्टिषु॥
उल्कापाते महावाते विना वृष्ट्यातिवृष्टिषु॥ ९६.१२६ ॥
अतस्तत्र पठेद्विद्वाञ्छिवभक्तो दृढव्रतः॥
यः पठेच्छृणुयाद्वापि स्तवं सर्वमनुत्तमम्॥ ९६.१२७ ॥
स रुद्रत्वं समासाद्य रुद्रस्यानुचरो भवेत्॥ ९६.१२८ ॥
इति श्रीलिङ्गमहापुराणे पूर्वभागे शरभप्रादुर्भावो नाम षण्णवतितमोऽध्यायः॥ ९६ ॥