ऋषय ऊचुः॥
नृसिंहेन हतः पूर्वं हिरण्याक्षाग्रजः श्रुतम्॥
कथं निषूदितस्तेने हिरण्यकशिपुर्वद॥ ९५.१ ॥
सूत उवाच॥
हिरण्यकशिपोः पुत्रः प्रह्राद इति विश्रुतः॥
धर्मज्ञः सत्यसम्पन्नस्तपस्वी चाभवत्सुधीः॥ ९५.२ ॥
जन्मप्रभृति देवेशं पूजयामास चाव्ययम्॥
सर्वज्ञं सर्वगं विष्णुं सर्वदेवभवोद्भवम्॥ ९५.३ ॥
तमादिपुरुषं भक्त्या परब्रह्मस्वरूपिणम्॥
ब्रह्मणोधिपतिं सृष्टिस्थितिसंहारकारणम्॥ ९५.४ ॥
सोपि विष्णोस्तथाभूतं दृष्ट्वा पुत्रं समाहितम्॥
नमो नारायणायेति गोविन्देति मुहुर्मुहुः॥ ९५.५ ॥
स्तुवन्तं प्राह देवारीः प्रदहन्निव पापधीः॥
न मां जानासि दुर्बुद्धे सर्वदैत्यामरेश्वरम्॥ ९५.६ ॥
प्रह्राद वरिदुष्पुत्र द्विजदेवार्तिकारणम्॥
को विष्णुः पद्मजो वापि शक्रश्च वरुणोथवा॥ ९५.७ ॥
वायुः सोमस्तथेशानः पावको मम यः समः॥
मामेवार्चय भक्त्या च स्वल्पं नारायणं सदा॥ ९५.८ ॥
प्रह्राद जीविते वाञ्छा तवैषा श्रृणु चास्ति चेत्॥
श्रुत्वापि तस्य वचनं हिरण्यकशिपोः सुधीः॥ ९५.९ ॥
प्रह्रादः पूजयामास नमो नारायणेति च॥
नमो नारायणायेति सर्वदैत्यकुमारकान्॥ ९५.१० ॥
अध्यापयामास च तां ब्रह्मविद्यां सुशोभनाम्॥
दुर्लङ्घ्यां चात्मनो दृष्ट्वा शक्रादिभिरपि स्वयम्॥ ९५.११ ॥
पुत्रेण लङ्घितामाज्ञां हिरण्यः प्राहदानवान्॥
एतं नानाविधैर्वध्यं दुष्पुत्रं हन्तुमर्हथ॥ ९५.१२ ॥
एवमुक्तास्तदा तेन दैत्येन सुदुरात्मना॥
निजघ्नुर्देवदेवस्य भृत्यं प्रह्रादमव्ययम्॥ ९५.१३ ॥
तत्र तत्प्रतिकृतं तदा सुरैर्दैत्यराजतनयं द्विजोत्तमाः॥
क्षीरवारिनिधिशायिनः प्रभोर्निष्फलं त्वथ बभूव तेजसा॥ ९५.१४ ॥
तदार्थ गर्वभिन्नस्य हिरण्यकशिपोः प्रभुः॥
तत्रैवाविरभूद्धन्तुं नृसिंहाकृतिमास्थितः॥ ९५.१५ ॥
जघान च सुतं प्रेक्ष्य पितरं दानवाधमम्॥
बिभेद तत्क्षणादेव करजौर्निशितैः शतैः॥ ९५.१६ ॥
ततो निहत्य तं दैत्यं सबान्धवमघापहः॥
पीडयामास दैत्येन्द्रं युगान्ताग्निरिवापरः॥ ९५.१७ ॥
नादैस्तस्य नृसिंहस्य घोरैर्वित्रासितं जगत्॥
आब्रह्मभुवनाद्विप्रा प्रचचाल च सुव्रताः॥ ९५.१८ ॥
दृष्ट्वा सुरासुरमहोरगसिद्धसाध्यास्तस्मिन् क्षणे हरिविरिञ्चिमुखा नृसिंहम्॥
धैर्यं बलं च समवाप्य ययुर्विसृज्य आदिङ्मुखान्तमसुराक्षणतत्पराश्च॥ ९५.१९ ॥
ततस्तैर्गतैः सैष देवोनृसिंहः सहस्राकृतिः सर्वपात्सर्वबाहुः॥
सहस्रेक्षणः सोमसूर्याग्निनेत्रस्तदा संस्थितः सर्वमावृत्य मायी॥ ९५.२० ॥
तं तुष्टुवुः सुरश्रेष्ठा लोका लोकाचले स्तिताः॥
सब्रह्मकाः ससाध्याश्च सयमाः समरूद्गणाः॥ ९५.२१ ॥
परात्परतरं ब्रह्म तत्त्वात्तत्त्वतमं भवान्॥
ज्योतिषां तु परञ्ज्योतिः परमात्मा जगन्मयः॥ ९५.२२ ॥
स्थूलं सूक्ष्मं सुसूक्ष्मं च शब्दब्रह्मयः शुभः॥
वागतीतो निरालम्बो निर्द्धन्द्वो निरुपप्लवः॥ ९५.२३ ॥
यज्ञभुग्यज्ञमूर्तिस्त्वं यज्ञिनां फलदः प्रभुः॥
भवान्मत्स्याकृतिः कौर्ममास्थाय जगति स्थितः॥ ९५.२४ ॥
वाराहिं चैव तां सैंहीमास्थायेहव्यवस्थितः॥
देवानां देवरक्षार्थं निहत्य दितिजेश्वरम्॥ ९५.२५ ॥
द्विजशापच्छलेनैवमवतीर्णोसि लीलया॥
न दृष्टं यत्त्वदन्यं हि भवान्सर्वञ्चराचरम्॥। ९५.२६ ॥
भवान्विष्णुर्भवान् रुद्रो भवानेव पितामहः॥
भवानादिर्भवानन्तो भवानेव वयं विभो॥ ९५.२७ ॥
भवानेव जगत्सर्वं प्रलापेन किमीश्वर॥
मायया बहुधा संस्थमद्वितीयमयं प्रभो॥ ९५.२८ ॥
स्तोष्यामस्त्वां कथं भासि देवदेव मृगाधिप॥
स्तुतोपि विविधैः स्तुत्यैर्भावैर्नानाविधैः प्रभुः॥ ९५.२९ ॥
न जगाम द्विजाः शान्तिं मानयन्योनिमात्मनः॥
यो नृसिंहस्तवं भक्त्या पठेद्वार्थं विचारयेत्॥ ९५.३० ॥
श्रावयेद्वा द्विजान्सर्वान् विष्णुलोके महीयते॥
तदन्तरे शिवं देवाः सेन्द्राः सब्रह्मकाः प्रभुम्॥ ९५.३१ ॥
सम्प्राप्य तुष्टवुः सर्वं विज्ञाप्य मृगरूपिणः॥
ततो ब्रह्मादयस्तूर्णं संस्तूय परमेश्वरम्॥ ९५.३२ ॥
आत्मत्राणाय शरणं जग्मुः परमकारणम्॥
मन्दरस्थं महादेवं क्रीडमानं सहोमया॥ ९५.३३ ॥
सेवितं गणगन्धर्वैः सिद्धैरप्सरसां गणैः॥
देवताभिः सह ब्रह्मा भीतभीतः सगद्गदम्॥
प्रणम्य दण्डवद्भूमौ तुष्टाव परमेश्वरम्॥ ९५.३४ ॥
ब्रह्मोवाच॥
नमस्ते कालकालाय नमस्ते रुद्र मन्यवे॥
नमः शिवाय रुद्राय शङ्कराय शिवाय ते॥ ९५.३५ ॥
उग्रोसि सर्वभूतानां नियन्तासि शिवोसि नः॥
नमः शिवाय शर्वाय शङ्करायार्त्तिहारिणे॥ ९५.३६ ॥
मयस्कराय विश्वाय विष्णवे ब्रह्मणे नमः॥
अन्तकाय नमस्तुभ्यमुमायाः पतये नमः॥ ९५.३७ ॥
हिरण्यबाहवे साक्षाद्धिरण्यपतये नमः॥
शर्वाय सर्वरूपाय पुरुषाय नमोनमः॥ ९५.३८ ॥
सदसद्व्यक्तिहीनाय महतः कारणाय ते॥
नित्याय विश्वरूपाय जायमानाय ते नमः॥ ९५.३९ ॥
जाताय बहुधा लोके प्रभूताय नमोनमः॥
रुद्राय नीलरुद्राय कद्रुद्राय प्रचेतसे॥ ९५.४० ॥
कालाय कालपूपाय नमः कालाङ्गहारिणे॥
मीढुष्टमाय देवाय शितिकण्ठाय ते नमः॥ ९५.४१ ॥
महीयसे नमस्तुभ्यं हन्त्रे देवारिणां सदा॥
ताराय च सुताराय तारणाय नमोनमः॥ ९५.४२ ॥
हरिकेशाय देवाय शम्भवे परमात्मने॥
देवानां शम्भवे तुभ्यं भूतानां शम्भवे नमः॥ ९५.४३ ॥
शम्भवे हैमवत्याश्च मन्यवे रुद्ररूपिणे॥
कपर्दिने नमस्तुभ्यं कालकण्ठाय ते नमः॥ ९५.४४ ॥
हिरण्याय महेशाय श्रीकण्ठाय नमोनमः॥
भस्मदिग्धशरीराय दण्डमुण्डीश्वराय च॥ ९५.४५ ॥
नमो ह्रस्वाय दीर्घाय वामनाय नमोनमः॥
नमउग्रत्रिशूलाय उग्राय च नमोनमः॥ ९५.४६ ॥
भीमाय भीमरूपाय भीमकर्मरताय ते॥
अग्रेवधाय वै भूत्वा नमो दूरेवधाय च॥ ९५.४७ ॥
धन्विने शूलिने तुभ्यं गदिने हलिने नमः॥
चक्रिणे वर्मिणे नित्यं दैत्यानां कर्मभेदिने॥ ९५.४८ ॥
सद्याय सद्यरूपाय सद्योजाताय ते नमः॥
वामाय वामरूपाय वामनेत्राय ते नमः॥ ९५.४९ ॥
अघोररूपाय विकटाय विकटशरीराय ते नामः॥
पुरुषरूपाय पुरुषैकतत्पुरुषाय वै नमः॥ ९५.५० ॥
पुरुषार्थप्रदानाय पतये परमेष्ठिने॥
ईशानाय नमस्तुभ्यमीश्वराय नमोनमः॥ ९५.५१ ॥
ब्रह्मणे ब्रह्मरूपाय नमः साक्षाच्छिवाय ते॥
सर्वविष्णुर्नृसिंहस्य रूपमास्थाय विश्वकृत्॥ ९५.५२ ॥
हिरण्यकशिपुं हत्वा करजैर्निशितैः स्वयम्॥
दैत्येन्द्रैर्बहुभिः सार्धं हितार्थं जगतां प्रभुः॥ ९५.५३ ॥
सैंहीं समानयन्योनिं बाधते निखिलं जगत्॥
यत्कृत्यमत्र देवेश तत्कुरुष्व भवानिह॥ ९५.५४ ॥
उग्रोसि सर्वदुष्टानां नियन्तासि शिवोसि नः॥
कालकूटादिवपुषा त्राहि नः शरणागतान्॥ ९५.५५ ॥
शुक्रं तु वृत्तं विश्वेशक्रीडा वै केवलं वयम्॥
तवोन्मेषनिमेषाभ्यामस्माकं प्रलयोदयौ॥ ९५.५६ ॥
उन्मीलयेत्त्वयि ब्रह्मन्विनाशोस्ति न ते शिव॥
सन्तप्तास्मोवयं देव हरिणामिततेजसा॥ ९५.५७ ॥
सर्वलोकहितायैनं तत्त्वं संहर्त्तुमिच्छसि॥
सूत उवाच॥
विज्ञापितस्तथा देवः प्रहसन्प्राह तान् सुरान्॥ ९५.५८ ॥
अभयं च ददौ तेषां हनिष्यामिति तं प्रभुः॥
सोपि शक्रः सुरैः सार्धं प्रणिपत्य यथागतम्॥ ९५.५९ ॥
जगाम भगवान् ब्रह्मा तथान्ये च सुरोत्तमाः॥
अथोत्थाय महादेवः शारभं रूपमास्थितः॥ ९५.६० ॥
ययौ प्रान्ते नृसिंहस्य गर्वितस्य मृगाशिनः॥
अपहृत्य तदा प्राणान्शरभः सुरपूजितः॥ ९५.६१ ॥
सिंहात्ततो नरो भूत्वा जगाम च यथाक्रमम्॥
एवं स्तुतस्तदा देवैर्जगाम स यथाक्रमम्॥ ९५.६२ ॥
यः पठेच्छृणुयद्वापि संस्तवं शार्वमुत्तमम्॥
रुद्रलोकमनुप्राप्य रुद्रेण सह मोदते॥ ९५.६३ ॥
इति श्रीलिङ्गमहापुराणे पूर्वभागे नारसिंहे पञ्चनवतितमोऽध्यायः॥ ९५ ॥