०९४

ऋषय ऊचुः॥
कथमस्य पिता दैत्यो हिरण्याक्षः सुदारुणः॥
विष्णुना सूदितो विष्णुर्वाराहत्वं कथं गतः॥ ९४.१ ॥

तस्य श्रृङ्गं महेशस्य भूषणत्वं कथं गतम्॥
एतत्सर्वं विशेषेण सूत वक्तुमिहार्हसि॥ ९४.२ ॥

सूत उवाच॥
हिरण्यकशिपोर्भ्राता हिरण्याक्ष इति स्मृतः॥
पुरान्धकासुरेशस्य पिता कालान्तकोपमः॥ ९४.३ ॥

देवाञ्जित्वाथ दैत्येन्द्रो बद्ध्वा च धरणीमिमाम्॥
नीत्वा रसातलं चक्रे बन्दीमिन्दीवरप्रभाम्॥ ९४.४ ॥

ततः सब्रह्मका देवाः परिम्लानमुखश्रियः॥
बाधितास्ताडिता बद्ध्वा हिरण्याक्षेण तेन वै॥ ९४.५ ॥

बलिना दैत्यमुख्येन क्रूरेम सुदुरात्मना॥
प्रणम्य शिरसा विष्णुं दैत्यकोटिविमर्दनम्॥ ९४.६ ॥

सर्वे विज्ञापयामासुर्धरणीबन्धनं हरेः॥
श्रुत्वैतद्भगवान् विष्णुर्धरणीबन्धनं हरिः॥ ९४.७ ॥

भूत्वा यज्ञवराहोसौ यथा लिङ्गोद्भवे तथा॥
दैत्यैश्च सार्धं दैत्येन्द्रं हिरण्याक्षं महाबलम्॥ ९४.८ ॥

दंष्ट्राग्रकोट्या हत्वैनं रेजे दैत्यान्तकृत्प्रभुः॥
कल्पादिषु यथापूर्वं प्रविश्य च रसातलम्॥ ९४.९ ॥

आनीय वसुधां देवीमङ्कस्थामकरोद्बहिः॥
ततस्तुष्टावदेवेशं देवदेवः पितामहः॥ ९४.१० ॥

शक्राद्यैः सहितो भूत्वा हर्षगद्गदया गिरा॥
शाश्वताय वराहाय दंष्ट्रिणे दण्डिने नमः॥ ९४.११ ॥

नारायणाय सर्वाय ब्रह्मणे परमात्मने॥
कर्त्रे धर्त्रे धरायास्तु हर्त्रे देवारिणां स्वयम्॥
कर्त्रे नेत्रे सुरेन्द्राणां शास्त्रे च सकलस्य च॥ ९४.१२ ॥

त्वमष्टमूर्तिस्त्वमनन्तमूर्तिस्त्वमादिदेवस्त्वमनन्तवेदितः॥
तव्या कृतं सर्वमिदं प्रसीद सुरेश लोकेश वराह विष्णो॥ ९४.१३ ॥

तथैकदंष्ट्राग्रमुखाग्रकोटिभागैकभागार्धतमेन विष्णो॥
हताः क्षणात्कामददैत्यमुख्याः स्वदंष्ट्रकोट्या सह पुत्रभृत्यैः॥ ९४.१४ ॥

त्वयोद्धृता देव धरा धरेशधराधराकार धृताग्रदंष्ट्रे॥
धराधरैः सर्वजनैः समुद्रैः सुरासुरैः सेवितचन्द्रवक्त्र॥ ९४.१५ ॥

त्वयैव देवेश विभो कृतश्च जयः सुराणामसुरेश्वणाम्॥
अहो वसुन्धरा तव पृष्ठतः सकलतारकादयः॥ ९४.१६ ॥

तव रोम्णि सकलामरेश्वरा नयनद्वये शशिरवी पदद्वये॥
निहिता रसातलगता वसुन्धरा तव पृष्ठतः सकलतारकादयः॥ ९४.१७ ॥

जगतां हिताय भवता वसुन्धरा भगवान् रसातलसपुटङ्गता तदा॥
अबलोद्धृता च भगवंस्तवैव सकलं त्वयैव हि धृतं जगद्गुरो॥ ९४.१८ ॥

इति वाक्पतिर्बहुविधैस्तवार्चनैः प्रणिपत्य विष्णुममरैः प्रजापतिः॥
विविधान्वरान् हरिमुखात्तु लब्धवान् हरिनाभिवारिजदेहभृत्स्वयम्॥ ९४.१९ ॥

अथ तामुद्धृतां तेन धरां देवा मुनीश्वराः॥
मूर्ध्न्यारोप्य नमश्चक्रुश्चक्रिणः सन्निधौ तदा॥ ९४.२० ॥

अनेनैव वराहेण चोद्धृतासि वरप्रदे॥
कृष्णेनाक्लिष्टकार्येण शतहस्तेन विष्णुना॥ ९४.२१ ॥

धरणि त्वं महाभोगे भूमिस्त्वं धेनुरव्यये॥
लोकानां धारिणी त्वं हि मृत्तिके हर पातकम्॥ ९४.२२ ॥

मनसा कर्मणा वाचावरदे वारिजेक्षणे॥
त्वया हतेन पापेन जीवामस्त्वत्प्रसादतः॥ ९४.२३ ॥

इत्युक्ता सा तदा देवी धरा देवैरधाब्रवीत्॥
वराहदंष्ट्राभिन्नायां धरायां मृत्तिकां द्विजाः॥ ९४.२४ ॥

मन्त्रेणानेन योऽबिभ्रत् मूर्ध्नि पापात्प्रमुच्यते॥
आयुष्मान्बलवान्धन्यः पुत्रपौत्रसमन्वितः॥ ९४.२५ ॥

क्रमाद्भुवि दिवं प्राप्य कर्मान्ते मोदते सुरैः॥
अथ देव गते त्वक्त्वा वराहे क्षीरसागरम्॥ ९४.२६ ॥

वाराहरूपमनघं चचाल च धरा पुनः॥
तस्य दंष्ट्राभराक्रान्ता देवदेवस्य धीमतः॥ ९४.२७ ॥

यदृच्छया भवः पश्यन् जगामजगदीश्वरः॥
दंष्ट्रां जग्राह दृष्ट्वा तां भूषणार्थमथात्मनः॥ ९४.२८ ॥

दधार च महादेवः कूर्चान्ते वै महोरसि॥
देवाश्च तुष्टुवुः सेन्द्रा देवदेवस्य वैभवम्॥ ९४.२९ ॥

धरा प्रतिष्ठिता ह्येवं देवदेवेन लीलया॥
भूतानां सम्प्लवे चापि विष्णोश्चैव कलेवरम्॥ ९४.३० ॥

ब्रह्मणश्च तथान्येषां देवानामपि लीलया॥
विभुरङ्गविभागेन भूषितो न यदि प्रभुः॥ ९४.३१ ॥

कथं विमुक्तिर्विप्राणां तस्माद्दंष्ट्री महेश्वरः॥ ९४.३२ ॥

इति श्रीलिङ्गमहापुराणे पूर्वभागे वराहप्रादुर्भावो नाम चतुर्नवतितमोध्यायः॥ ९४ ॥