०९३

ऋषय ऊचुः॥
अन्धको नाम दैत्येन्द्रो मन्दरे चारुकन्दरे॥
दमितस्तु कथं लेभे गाणपत्यं महेश्वरात्॥ ९३.१ ॥

वक्तुमर्हसि चास्माकं यथावृत्तं यथाश्रुतम्॥
सूत उवाच॥
अन्दकानुग्रहं चैव मन्दरे शोषणं तथा॥ ९३.२ ॥

वरलाभमशेषं च प्रवदामि समासतः॥
हिरण्याक्षस्य तनयो हिरण्यनयनोपमः॥ ९३.३ ॥

पुरान्धक इति ख्यातस्तपसा लब्धविक्रमः॥
प्रसादाद्‌ब्रह्मणः साक्षादवध्यत्वमवाप्य च॥ ९३.४ ॥

त्रैलोक्यमखिलं भुक्त्वा जित्वा चेन्द्रपुरं पुरा॥
लीलया चाप्रयत्नेन त्रासयामास वासवम्॥ ९३.५ ॥

बाधितास्ताडिता बद्धाः पातितास्तेन ते सुराः॥
विविशुर्मन्दरं भीता नारायणपुरोगमाः॥ ९३.६ ॥

एवं सम्पीड्य वै देवानन्धकोपि महासुरः॥
यदृच्छया गिरिम्प्राप्तो मन्दरं चारुकन्दरम्॥ ९३.७ ॥

ततस्ते समास्ताः सुरेन्द्राः ससाध्याः सुरेश महेशं पुरेत्याहुरेवम्॥
द्रुतं चाल्पवीर्यप्रभिन्नाङ्गभिन्ना वयं दैत्यराजस्य शस्त्रैर्निकृत्ताः॥ ९३.८ ॥

इतीदमखिलं श्रुत्वा दैत्यागममनौपमम्॥
गणेश्वरैश्च भगवानन्धकाभिमुखं ययौ॥ ९३.९ ॥

तत्रेन्द्रपद्मोद्भव विष्णुमुख्याः सुरेश्वरा विप्रवराश्च सर्वे॥
जयेति वाचा भगवन्तमूचूः किरीटबद्धाञ्जलयः समन्तात्॥ ९३.१० ॥

अथाशेषासुरांस्तस्य कोटिकोटिसतैस्ततः॥
भस्मीकृत्य महादेवो निर्बिभेदान्धकं तदा॥ ९३.११ ॥

शूलेन शूलिना प्रोतं दग्धकल्पमषकञ्चुकम्॥
दृष्ट्वान्धकं ननादेशं प्रणम्य स पितामहः॥ ९३.१२ ॥

तन्नादश्रवणान्नेदुर्देवा देवं प्रणम्य तम्॥
ननृतुर्मुनयः सर्वे मुमुदुर्गणपुङ्गवाः॥ ९३.१३ ॥

ससृजुः पुष्पवर्षाणि देवाः शम्भोस्तदोपरि॥
त्रैलोक्यमखिलं हर्षान्ननन्द च ननाद च॥ ९३.१४ ॥

दग्धोग्निना च शूलेन प्रोतः प्रेत इवान्धकः॥
सात्त्विकं भावमास्थाय चिन्तयामास चेतसा॥ ९३.१५ ॥

जन्मान्तरेपि देवेन दग्धो यस्माच्छिवेन वै॥
आराधितो मया शम्भुः पुरा साक्षान्महेश्वरः॥ ९३.१६ ॥

तस्मादेतन्मया लब्धमन्यथा नोपपद्यते॥
यः स्मरेन्मनसा रुद्रं प्राणान्ते सकृदेव वा॥ ९३.१७ ॥

स याति शिवसायुज्यं किं पुनर्बहुशः स्मरन्॥
ब्रह्मा च भगवान्विष्णुः सर्वे देवाः सवासवाः॥ ९३.१८ ॥

शरणं प्राप्य तिष्ठन्ति तमेव शरणं व्रजेत्॥
एवं सञ्चिन्त्य तुष्टात्मा सोन्धकश्चान्धकार्दनम्॥ ९३.१९ ॥

सगणं शिवमीशानमस्तुवत्पुण्यगौरवात्॥
प्रार्थितस्तेन भगवान् परमार्तिहरो हरः॥ ९३.२० ॥

हिरण्यनेत्रतनयं शूलाग्रस्थं सुरेश्वरः॥
प्रोवाच दानवं प्रेक्ष्य घृणया नीललोहितः॥ ९३.२१ ॥

तुष्टोस्मि वत्स भद्रं ते कामं किं करवाणि ते॥
वरान्वरय दैत्येन्द्र वरदोहं तवान्धक॥ ९३.२२ ॥

श्रुत्वा वाक्यं तदा शम्भोर्हिरण्यनयनात्मजः॥
हर्षगद्गदया वाचा प्रोवाचेदं महेश्वरम्॥ ९३.२३ ॥

भगवन्देवदेवेश भक्तार्तिहर शङ्कर॥
त्वयि भक्तिः प्रसीदेश यदि देयो वरश्च मे॥ ९३.२४ ॥

श्रुत्वा भवोपि वचनमन्धकस्य महात्मनः॥
प्रददौ दुर्लभां श्रद्धां दैत्येन्द्राय महाद्युतिः॥ ९३.२५ ॥

गाणपत्यं च दैत्याय प्रददौ चावरोप्यतम्॥
प्रणेमुस्तं सुरेन्द्राद्या गाणपत्ये प्रतिष्ठितम्॥ ९३.२६ ॥

इति श्रीलिङ्गमहापुराणे पूर्वेभागे अन्धकगाणपत्यात्मको नाम त्रिनवतितमोध्यायः॥ ९३ ॥