ऋषय ऊचुः॥
एवं वाराणसी पुण्या यदि सूत महामते॥
वक्तुमर्हसि चास्माकं तत्प्रभावं हि साम्प्रतम्॥ ९२.१ ॥
क्षेत्रस्यास्य च माहात्म्यमविमुक्तस्य शोभनम्॥
विस्तरेण यतान्यायं श्रोतुं कौतूहलं हि नः॥ ९२.२ ॥
सूत उवाच॥
वक्ष्ये सङ्क्षेपतः सम्यक् वाराणस्याः सुशोभनम्॥
अविमुक्तस्य माहात्म्यं यथाह भगवान् भवः॥ ९२.३ ॥
विस्तरेण मया वक्तुं ब्रह्मणा च महात्मना॥
शक्यते नैव विप्रेन्द्रा वर्षकोटिशतैरपि॥ ९२.४ ॥
देवः पुरा कृतोद्वाहः शङ्करो नीललोहितः॥
हिमवच्छिखराद्देव्या हैमवत्या गणेश्वरैः॥ ९२.५ ॥
वाराणसीमनुप्राप्य दर्शयामासशङ्करः॥
अविमुक्तेश्वरं लिङ्गं वासं तत्र चकार सः॥ ९२.६ ॥
वाराणसीकुरुक्षेत्रश्रीपर्वतमहालये॥
तुङ्गेश्वरे च केदारे तत्स्थाने यो यतिर्भवेत्॥ ९२.७ ॥
योगे पाशुपते सम्यक् दिनमेकं यतिर्भवेत्॥
तस्मात्सर्वं परित्यज्य परेत्पाशुपतं व्रतम्॥ ९२.८ ॥
देवोद्याने वसे तत्र शर्वोद्यानमनुत्तमम्॥
मनसा निर्ममे रुद्रो विमानं च सुशोभनम्॥ ९२.९ ॥
दर्शयामास च तदा देवोद्यानमनुत्तमम्॥
हैमवत्याः स्वयं देवः सनन्दी परमेश्वरः॥ ९२.१० ॥
क्षेत्रस्यास्य च महात्म्यमविमुक्तस्य शङ्करः॥
उक्तवान्परमेशानः पार्वत्याः प्रीयते भवः॥ ९२.११ ॥
प्रफुल्लनानाविधगुल्मशोभितं लताप्रतानादिमनोहरं बहिः॥
विरूढपुष्पैः परितः प्रियङ्गुभिः सुपुष्पितैः कण्टकितैश्च केतकैः॥ ९२.१२ ॥
तमालगुल्मैर्निचितं सुगन्धिभिर्निकामपुष्पैर्वकुलैश्च सर्वतः॥
अशोकपुन्नागशतैः सुपुष्पितैर्द्विरेफमालाकुलपुष्पसञ्चयैः॥ ९२.१३ ॥
क्वचित्प्रफुल्लाम्बुजरेणुभूषितैर्विहङ्गमैश्चानुकलप्रणादिभिः॥
विनादितं सारसचक्रवाकैः प्रमत्तदात्यूहवरैश्च सर्वतः॥ ९२.१४ ॥
क्वचिच्च केकारुत नादितं शुभं क्वचिच्च कारण्डवनादनादितम्॥
क्वचिच्च मत्तालिकुलाकुलीकृतं मदाकुलाभिर्भ्रमराङ्गनादिभीः॥ ९२.१५ ॥
निषेवितं चारुसुगान्धिपुष्पकैः क्वचित्सुपुष्पैः सहकारवृक्षैः॥
लतोपगूढैस्तिलकैश्च गूढं प्रगीतविद्याधरसिद्धचारणम्॥ ९२.१६ ॥
प्रवृत्तनृत्तानुगताप्सरोगणं प्रहृष्टनानाविधपक्षिसेवितम्॥
प्रनृत्तहारीतकुलोपनादितं मृगेन्द्रनादाकुलमत्तमानसैः॥ ९२.१७ ॥
क्वचित्क्वचिद्गन्धकदम्बकैर्मृगैर्विलूनदर्भाकुरपुष्पसञ्चयम्॥
प्रफुल्लनानाविधचारुपङ्कजैः सरस्तडागैरुपशोभितं क्वचित्॥ ९२.१८ ॥
विटपनिचयलीनं नीलकण्ठाभिरामं मदमुदितविहङ्गं प्राप्तनादाभिरामम्॥
कुसुमिततरुशाखालीनमत्तद्विरेफं नवकिसलयशोभाशोभितं प्रांशुशाखम्॥ ९२.१९ ॥
क्वचिच्च दन्तक्षतचारुवीरुधं क्वचिल्लतालिङ्गि तचारुवृक्षकम्॥
क्वचिद्विलासालसगामिनीभिर्निषेवितं किम्पुरुषाङ्गनाभिः॥ ९२.२० ॥
पारावतध्वनिविकूजितचारुश्रृङ्गैरभ्रङ्कषैः सितमनोहर चारुरूपैः॥
आकीर्णपुष्पनिकरप्रविभक्तहंसैर्विभ्राजितं त्रिदशदिव्यकुलैरनेकैः॥ ९२.२१ ॥
फुल्लोत्पलाम्बुजवितानसहस्रयुक्तं तोयाशयैः समनुशोभितदेवमार्गम्॥
मार्गान्तराकलितपुष्पविचित्रपङ्क्तिसम्बद्धगुल्मविटपैर्विविधैरुपेतम्॥ ९२.२२ ॥
तुङ्गाग्रैर्निलपुष्पैस्तबकभरनतप्रांशुशाखैरशोकैर्दोलाप्रान्तान्तलीनश्रुतिसुखजनकैर्भासितान्तं मनोज्ञैः॥
रात्रौ चन्द्रस्य भासा कुसुमिततिलकैरेकतां सम्प्रयातं छायासुप्तप्रबुद्धस्तितहरिणकुलालुप्तदूर्वाङ्कुराग्रम्॥ ९२.२३ ॥
हंसानां पक्षवातप्रचलितकमलस्वच्छविस्तीर्णतोयं तोयानां तीरजातप्रचकितकदलीचाटुनृत्यन्मयूरम्॥
मायूरैः पक्षचन्द्रैः क्वचिदवनिगतै रञ्जितक्ष्माप्रदेशं देशेदेशे विलीनप्रमुदितविलसन्मत्तहारीतवृन्दम्॥ ९२.२४ ॥
सारङ्गैः क्वचिदुपशोभितप्रदेशं प्रच्छन्नं कुसुमचयैः क्वचिद्विचित्रैः॥
हृष्टभिः क्वचिदपि किन्नराङ्गनाभिर्वीणाभिः समधुरगीतनृत्तकण्ठम्॥ ९२.२५ ॥
संसृष्टैः क्वचिदुपलिप्तकीर्णपुष्पैरावासैः परिवृतपादपं मुनीनाम्॥
आमूलात्फलनिचितैः क्वचिद्विशालैरुत्तुङ्गैः पनसमहीरुहैरुपेतम्॥ ९२.२६ ॥
फुल्लातिमुक्तकलतागृहनीतसिद्धसिद्धाङ्गनाकनकनूपुररावरम्यम्॥
रम्यं प्रियङ्गुतरुमञ्जरिसक्तभृङ्गं भृङ्गावलीकवलिताम्रकदम्बपुष्पम्॥ ९२.२७ ॥
पुष्पोत्करानिलविघूर्णितवारिरम्यं रम्यद्विरेफविनिपातितमञ्जुगुल्मम्॥
गुल्मान्तरप्रसभभीतमृगीसमूहं वातेरितं तनुभृतामपवर्गदातृ॥ ९२.२८ ॥
चन्द्रांशुजालशबलैस्तिलकैर्मनोज्ञैः सिन्दूरकुङ्कुमकुसुम्भनिभैरशोकैः॥
चामीकरद्युतिसमैरथ कर्णिकारैः पुष्पोत्करैरुपचितं सुविशालशाखैः॥ ९२.२९ ॥
क्वचिदञ्जनचूर्णाभैः क्वचिद्विद्रुमसन्निभैः॥
क्वचित्काञ्चनसङ्काशैः पुष्पैराचितभूतलम्॥ ९२.३० ॥
पुन्नागेषु द्विजशतविरुतं रक्ताशोकस्तबकभरनतम्॥
रम्योपान्तक्लमहारभवनं फुल्लाब्जेषु भ्रमरविलसितम्॥ ९२.३१ ॥
सकलभुवनभर्ता लोकनाथस्तदानीं तुहिनशिखरपुत्र्या सार्धमिष्टैर्गणेशैः॥
विविधतरुविशालं मत्तहृष्टान्नपुष्टैरुपवनमतिरम्यं दर्शयामास देव्याः॥ ९२.३२ ॥
पुष्पैर्वन्यैः शुभशुभतमैः कल्पितैर्दिव्यभूषैर्देवीं दिव्यामुपवनगतां भूषयामास शर्वः॥
सा चाप्येनं तुहिनगिरिसुता शङ्करं देवदेवं पुष्पैर्दिव्यैः शुभतरतमैर्भूषयामास भक्त्या॥ ९२.३३ ॥
सम्पूज्य पूज्यं त्रिदशेश्वराणां सम्प्रेक्ष्य चोद्यान मतीव रम्यम्॥
गणेश्वरैर्नादिमुखैश्च सार्धमुवाच देवं प्रणिपत्य देवी॥ ९२.३४ ॥
श्रीदेव्युवाच॥
उद्यानं दर्शितं देव प्रभया परया युतम्॥
क्षेत्रस्य च गुणान्सर्वान्पुनर्मे वक्तुमर्हसि॥ ९२.३५ ॥
अस्य क्षेत्रस्य माहात्म्यमविमुक्तस्य सर्वथा॥
वक्तुमर्हसि देवेश देवेदेव वृषध्वज॥ ९२.३६ ॥
सूत उवाच॥
देव्यास्तद्वचनं श्रुत्वा देवदेवो वरप्रभुः॥
आघ्राय वदनाम्भोजं तदाह गिरिजां हसन्॥ ९२.३७ ॥
श्रीभगवानुवाच॥
इदं गुह्यतमं क्षेत्रं सदा वाराणसी मम॥
सर्वेषामेव जन्तूनां हेतुर्मोक्षस्य सर्वदा॥ ९२.३८ ॥
अस्मिन्सिद्धाः सदा देवि मदीयं व्रतमास्थिताः॥
नानालिङ्गधरा नित्यं मम लोकाभिकाङ्क्षिणः॥ ९२.३९ ॥
अभ्यस्यन्ति परं योगं युक्तात्मानो जितेन्द्रियाः॥
नानावृक्षसमाकीर्णे नानाविहगशोभिते॥ ९२.४० ॥
कमलोत्पलपुष्पाढ्यैः सरोभिः समलङ्कृते॥
अप्सरोगणगन्धर्वैः सदा संसेविते शुभे॥ ९२.४१ ॥
रोचते मे सदा वासो येन कार्येण तच्छृणु॥
मन्मना मम भक्तश्च मयि नित्यार्पिताक्रियः॥ ९२.४२ ॥
यथा मोक्षमवाप्नोति अन्यत्र न तथा क्वचित्॥
कामं ह्यत्र मृतो देवी जन्तुर्मोक्षाय कल्पते॥ ९२.४३ ॥
एतन्मम पुरं दिव्यं गुह्याद्गुह्यतमं महत्॥
ब्रह्मादयो विजानन्ति ये च सिद्धा मुमुक्षवः॥ ९२.४४ ॥
अतः परमिदं क्षेत्रं परा चेयं गतिर्मम॥
विमुक्तं न मया यस्मान्मोक्ष्यते वा कदाचन॥ ९२.४५ ॥
मम क्षेत्रमिदं तस्मादविमुक्तमिति स्मृतम्॥
नैमिषे च कुरुक्षेत्रे गङ्गाद्वारे च पुष्करे॥ ९२.४६ ॥
स्नानात्संसेवनाद्वापि न मोक्षः प्राप्यते यतः॥
इह सम्प्राप्यते येन तत एतद्विशिष्यते॥ ९२.४७ ॥
प्रयागे वा भवेन्मोक्ष इह वा मत्परिग्रहात्॥
प्रयागादपि तीर्थाग्र्यादविमुक्तमिदं शुभम्॥ ९२.४८ ॥
धर्मस्योपनिषत्सत्यं मोक्षस्योपनिष्च्छमः॥
क्षेत्रतीर्थोपनिषदं न विदुर्बुधसत्तमाः॥ ९२.४९ ॥
कामं भुञ्जन्स्वपन् क्रीडन् कुर्वन् हि विविधाः क्रियाः॥
अविमुक्ते त्यजेत्प्राणान् जन्तुर्मोक्षाय कल्पते॥ ९२.५० ॥
कृत्वा पापसहस्राणि पिशाचत्वं वरं नृणाम्॥
न तु शक्रसहस्रत्वं स्वर्गे काशीपुरीं विना॥ ९२.५१ ॥
तस्मात्संसेवनीयं हि अविमुक्तं हि मुक्तये॥
जैगीषव्यः परां सिद्धिं गतो यत्र महातपाः॥ ९२.५२ ॥
अस्य क्षेत्रस्य माहात्म्याद्भक्त्या च मम भावितः॥
जैगीषव्यगुहा श्रेष्ठा योगिनां स्थानमिष्यते॥ ९२.५३ ॥
ध्यायन्तस्तत्र मां नित्यं योगाग्निर्दीप्यते भृशम्॥
कैवल्यं परमं याति देवानामपि दुर्लभम्॥ ९२.५४ ॥
अव्यक्तलिङ्गैर्मुनिभिः सर्वसिद्धान्तवेदिभिः॥
इह सम्प्राप्यते मोक्षो दुर्लभोऽन्यत्र कर्हिचित्॥ ९२.५५ ॥
तेभ्यश्चाहं प्रवक्ष्यामि योगैश्वर्यमनुत्तमम्॥
आत्मनश्चैव सायुज्यमीप्सितं स्थानमेव च॥ ९२.५६ ॥
कुबेरोत्र मम क्षेत्रे मयि सर्वार्पितक्रियः॥
क्षेत्रसंसेवनादेव गणेशत्वमवाप ह॥ ९२.५७ ॥
संवर्तो भविता यश्च सोपि भक्तो ममैव तु॥
इहैवाराध्य मां देवि सिद्धिं यास्यत्यनुत्तमाम्॥ ९२.५८ ॥
पराशरसुतौ योगी ऋषिर्व्यासो महातपाः॥
मम भक्तो भविष्यश्च वेदसंस्थाप्रवतर्कः॥ ९२.५९ ॥
रंस्यते सोपि पद्माक्षि क्षेत्रेऽस्मिन्मुनिपुङ्गवः॥
ब्रह्मा देवर्षिभिः सार्द्धं विष्णुर्वापि दिवाकरः॥ ९२.६० ॥
देवराजस्तता शक्रो येपि चान्ये दिवौकसः॥
उपासते महात्मानः सर्वे मामिह सुव्रते॥ ९२.६१ ॥
अन्येपि योगिनो दिव्याश्छन्नरूपा महात्मनः॥
अनन्यमनसो भूत्वा मामिहोपासते सदा॥ ९२.६२ ॥
विषयासक्तचित्तोपि त्यक्तधर्मरतिर्नरः॥
इह क्षेत्रे मृतः सोपि संसारे न पुनर्भवेत्॥ ९२.६३ ॥
ये पुनर्निर्ममा धीराः सत्त्वस्था विजितेन्द्रियाः॥
व्रतिनश्च निरारम्भाः सर्वे ते मयि भाविताः॥ ९२.६४ ॥
देवदेवं समासाद्य धीमन्तः सङ्गवर्जिताः॥
गता इह परं मोक्षं प्रसादान्मम सुव्रते॥ ९२.६५ ॥
जन्मान्तरसहस्रेषु यं न योगी समाप्नुयात्॥
तमिहैव परं मोक्षं प्रसादान्मम सुव्रते॥ ९२.६६ ॥
गोप्रेक्षकमिदं क्षेत्रं ब्रह्मणा स्थापितं पुरा॥
कैलासवनं चात्र पश्य दिव्यं वरानने॥ ९२.६७ ॥
गोप्रेक्षकमयागम्य दृष्ट्वामामत्र मानवः॥
न दुर्गतिमवाप्नोति कल्मषैश्च विमुच्यते॥ ९२.६८ ॥
कपिलाह्रदमित्येवं तथा वै ब्रह्मणा कृतम्॥
गवांस्तन्यजतोयेन तीर्थं पुण्यतमं महत्॥ ९२.६९ ॥
अत्रापि स्वयमेवाहं वृषध्वज इति स्मृतः॥
सान्नध्यं कृतवान् देवि सदाहं दृश्यते त्वया॥ ९२.७० ॥
भद्रतोयं च पश्येह ब्रह्मणा च कृतंह्रदम्॥
सर्वैर्देवैरहं देवी अस्मिन्देशे प्रसादितः॥ ९२.७१ ॥
गच्छोपशममीशोति उपशान्तः शिवस्तथा॥
अत्राहं ब्रह्मणानीय स्थापितः परमेष्ठिना॥ ९२.७२ ॥
ब्रह्मणा चापि सङ्गृह्य विष्णुना स्थापितः पुनः॥
ब्रह्मणापि ततो विष्णुः प्रोक्तः संविग्नचेतसा॥ ९२.७३ ॥
मयानीतमिदं लिङ्गङ्कस्मात्स्थापितवानसि॥
तमुवाच पुनर्विष्णुर्ब्रह्मणं कुपिताननम्॥ ९२.७४ ॥
रुद्रे देवे ममात्यन्तं परा भक्तिर्महत्तरा॥
मयैव स्थापितं लिङ्गन्तव नाम्ना भविष्यति॥ ९२.७५ ॥
हिरण्यगर्भ इत्येवं ततोत्राहं समास्थितः॥
दृष्ट्वैनमपि देवेशं मम लोकं व्रजेन्नरः॥ ९२.७६ ॥
ततः पुनरपि ब्रह्मा मम लिङ्गमिदं शुभम्॥
स्थापयामास विधिवद्भक्त्या परमया युतः॥ ९२.७७ ॥
स्वर्लीनेश्वर इत्येवमत्राहं स्वयमागतः॥
प्राणानिहनरस्त्यक्त्वा न पुनर्जायते क्वचित्॥ ९२.७८ ॥
अनन्या सा गतिस्तस्य योगिनां चैव या स्मृता॥
अस्मिन्नपि मया देशे दैत्यो दैवतकण्टकः॥ ९२.७९ ॥
व्याघ्ररूपं समास्थाय निहतो दर्पितो बली॥
व्याघ्रेश्वर इति ख्यातो नित्यमत्राहमास्थितः॥ ९२.८० ॥
न पुनर्दुर्गतिं याति दृष्ट्वैनं व्याघ्रमीश्वरम्॥
उत्पलो विदलश्चैव यौ दैत्यौ ब्रह्मणा पुरा॥ ९२.८१ ॥
स्त्रीवध्यौ दर्पितौ दृष्ट्वा त्वयैव निहतौ रणे॥
सावज्ञं कन्दुकेनात्र तस्येदं देहमास्थितम्॥ ९२.८२ ॥
आदावत्राहमागम्य प्रस्थितो गणपैः सह॥
ज्येष्ठस्थानमिदं तस्मादेतन्मे पुण्यदर्शनम्॥ ९२.८३ ॥
देवैः समन्तादेतानि लिङ्गानि स्तापितान्यतः॥
दृष्ट्वापि नियतो मर्त्यो देहभेदे गणो भवेत्॥ ९२.८४ ॥
पित्रा ते शैलराजेन पुरा हिमवता स्वयम्॥
मम प्रियहितं स्थानं ज्ञात्वा लिङ्गं प्रतिष्ठितम्॥ ९२.८५ ॥
शैलेश्वरमिति ख्यातं दृश्यतामिह चादरात्॥
दृष्ट्वैतन्मनुजो देवि न दुर्गतिमतो व्रजेत्॥ ९२.८६ ॥
नद्येषा वरुणा देवि पुण्या पापप्रमोचनी॥
क्षेत्रमेतदलङ्कृत्य जाह्नव्या सह सङ्गता॥ ९२.८७ ॥
स्थापितं ब्रह्मणा चापि सङ्गमे लिङ्गमुत्तमम्॥
सगमेश्वरमित्येवं ख्यातं जगति दृश्यताम्॥ ९२.८८ ॥
सङ्गमे देवनद्या हि यः स्नात्वा मनुजः शुचिः॥
अर्चयेत्सङ्गमेशानं तस्य जन्मभयं कुतः॥ ९२.८९ ॥
इदं मन्ये महाक्षेत्रं निवासो योगिनां परम्॥
क्षेत्रमध्ये च यत्राहं स्वयं भूत्वाऽग्रमास्थितः॥ ९२.९० ॥
मध्यमेश्वरमित्येवं ख्यातः सर्वसुरासुरैः॥
सिद्धानां स्थानमेतद्धि मदीयव्रतधारिणाम्॥ ९२.९१ ॥
योगिनां मोक्षलिप्सूनां ज्ञानयोगरतात्मनाम्॥
दृष्ट्वैनं मध्यमेशानं जन्मप्रति न शोचति॥ ९२.९२ ॥
स्थापितं लिङ्गमेतत्तु शुक्रेण भृगुसूनुना॥
नाम्ना शुक्रेश्वरं नाम सर्वसिद्धामरार्चितम्॥ ९२.९३ ॥
दृष्ट्वैनं नियतः सद्यो मुच्यते सर्वकिल्बिपैः॥
मृतश्च न पुनर्जन्तुः संसारी तु भवेन्नरः॥ ९२.९४ ॥
पुरा जम्बुकरूपेण असुरो देवकण्टकः॥
ब्रह्मणो हि वरं लब्ध्वा गोमायुर्बन्धशङ्कितः॥ ९२.९५ ॥
निहतो हिमवत्पुत्रि जम्बुकेशस्ततो ह्यहम्॥
अद्यापि जगति ख्यातं सुरासुरनमस्कृतम्॥ ९२.९६ ॥
दृष्ट्वैनमपि देवेशं सर्वान्कामानवाप्नुयात्॥
ग्रहैः शुक्रपुरोगैश्च एतानि स्थापितानि ह॥ ९२.९७ ॥
पश्य पुण्यानि लिङ्गानि सर्वकामप्रदानि तु॥
एवमेतानि पुण्यानि मन्निवासानि पार्वति॥ ९२.९८ ॥
कथितानि मम क्षेत्रे गुह्यं चान्यदिदं श्रृणु॥
चतुःक्रोशं चतुर्दिक्षु क्षेत्रमेतत्प्रकीर्तितम्॥ ९२.९९ ॥
योजनं विद्धि चार्वङ्गि मृत्युकालेऽमृतप्रदम्॥
महालयगिरिस्थं मां केदारे च व्यवस्तितम्॥ ९२.१०० ॥
गणत्वं लभते दृष्ट्वा ह्यस्मिन्मोक्षो ह्यवाप्यते॥
गाणपत्यं लभेद्यस्माद्यतः सा मुक्तिरुत्तमा॥ ९२.१०१ ॥
ततो महालयात्तस्मात्केदारान्मध्यमादपि॥
स्मृतं पुण्यतमं क्षेत्रमविमुक्तं वरानने॥ ९२.१०२ ॥
केदारं मध्यमं क्षेत्रं स्थानं चैव महालयम्॥
मम पुण्यानि भूर्लोके तेभ्यः श्रेष्ठतमं त्विदम्॥ ९२.१०३ ॥
यतः सृष्टास्त्विमे लोकास्ततः क्षेत्रमिदं शुभम्॥
कदाचिन्न मया मुक्तमविमुक्तं ततोऽभवत्॥ ९२.१०४ ॥
अविमुक्तेश्वरं लिङ्गं मम दृष्ट्वेह मानवः॥
सद्यः पापविनिर्मुक्तः पशुपाशैर्विमुच्यते॥ ९२.१०५ ॥
शैलेशं सङ्गमेशं च स्वर्लीनं मध्यमेश्वरम्॥
हिरण्यगर्भर्मीशानं गोप्रेक्षं वृषभध्वजम्॥ ९२.१०६ ॥
उपशान्तं शिवं चैव ज्येष्ठस्थाननिवासिनम्॥
शुक्रेश्वरं च विख्यातं व्याघ्रेशं जम्बुकेश्वरम्॥ ९२.१०७ ॥
दृष्ट्वा न जायते मर्त्यः संसारे दुःखसागरे॥
सूत उवाच॥
एमुक्त्वा महादेवो दिशः सर्वा व्यलोकयत्॥ ९२.१०८ ॥
विलोक्य संस्थिते पश्चाद्देवदेवे महेश्वरे॥
अकस्मादभवत्सर्वः स देशोज्ज्वलितो यथा॥ ९२.१०९ ॥
ततः पाशुपताः सिद्धा भस्माभ्यङ्गसितप्रभाः॥
माहेश्वरा महात्मानस्तथा वै नियतव्रताः॥ ९२.११० ॥
बहवः शतशोभ्येत्य नमश्चक्रुर्महेश्वरम्॥
पुनर्निरीक्ष्य योगेशं ध्यानयोगं च कृत्स्नशः॥ ९२.१११ ॥
तस्थुरात्मानमास्थाय लीयमाना इवेश्वरे॥
स्थितानां स तदा तेषां देवदेव उमापतिः॥ ९२.११२ ॥
स बिभ्रत्परमां मूर्ति बभूव पुरुषः प्रभुः॥
कृत्स्नं जगदिहैकस्थं कर्तुभन्त इव स्थितः॥ ९२.११३ ॥
तस्य तां परमां मूर्तिमास्थितस्य जगत्प्रभोः॥
न शशाक पुनर्द्रष्टुं हृष्टरोमा गिरिन्द्रजा॥ ९२.११४ ॥
ततस्त्वदृष्टमाकारं बुध्वा सा प्रकृतिस्थितम्॥
प्रकृतेर्मूर्तिमास्थाय योगेन परमेश्वरी॥ ९२.११५ ॥
तं शशाक पुनर्द्रष्टुं हरस्यच महात्मनः॥
ततस्ते लयमाधाय योगिनः पुरुषस्य तु॥ ९२.११६ ॥
विविशुर्हृदयं सर्वे दग्धसंसारबीजिनः॥
पञ्चाक्षरस्य वै बीजं संस्मरन्तः सुशोभनम्॥ ९२.११७ ॥
सर्वपापहरं दिव्यं पुरा चैव प्रकाशितम्॥
नीललोहितमूर्तिस्थं पुनश्चक्रे वपुः शुभम्॥ ९२.११८ ॥
तं दृष्ट्वा शैलजा प्राह हृष्टसर्वतनूरुहा॥
स्तुवती चरणौ नत्वा क इमे भगवन्निति॥ ९२.११९ ॥
तामुवाच सुरश्रेष्ठस्तदा देवीं गिरद्रिजाम्॥
श्रीभगवानुवाच॥
मदीयं व्रतमाश्रित्य भक्तिमद्भिर्द्विजोत्तमैः॥ ९२.१२० ॥
यैर्यैर्योगा इहाभ्यस्ता स्तेषामेकेन जन्मना॥
क्षेत्रस्यास्य प्रभावेन भक्त्या च मम भामिनि॥ ९२.१२१ ॥
अनुग्रजो मया ह्येवं क्रियते मूर्तितः स्वयम्॥
तस्मादेतन्महत्क्षेत्रं ब्रह्माद्यैः सेवितं तथा॥ ९२.१२२ ॥
श्रुतिमद्भिश्च विप्रेन्द्रैः संसिद्धैश्च तपस्विभिः॥
प्रतिमासं तथाष्टम्यां प्रतिमासं चतुर्दशीम्॥ ९२.१२३ ॥
उभयोः पक्षयोर्देवि वाराणस्यामुपास्यते॥
शशिभानूपरागे च कार्तिक्यां च विशेषतः॥ ९२.१२४ ॥
सर्वपर्वसु पुण्येषु विषुवेष्वयनेषुच॥
पृथिव्यां सर्वतीर्थानि वाराणस्यां तु जाह्नवीम्॥ ९२.१२५ ॥
उत्तरप्रवहां पुण्यां मम मौलिविनिःसृताम्॥
पितुस्ते गिरिराजस्य शुभां हिमवतः सुताम्॥ ९२.१२६ ॥
पुण्यस्थानस्थितां पुण्यां पुण्यदिक्प्रवहां सदा॥
भजन्ते सर्वतोऽभ्येत्य ये ताञ्छुणु वरानने॥ ९२.१२७ ॥
सन्निहत्य कुरुक्षेत्रं सार्धं तीर्थशतैस्तथा॥
पुष्करं निमिषं चैव प्रयागं च पृथूदकम्॥ ९२.१२८ ॥
द्रुमक्षेत्रं कुरुक्षेत्रं नैमिषं तीर्थसंयुतम्॥
क्षेत्राणि सर्वतो देवी देवता ऋषयस्तथा॥ ९२.१२९ ॥
सन्ध्या च ऋतवश्चैव सर्वा नद्यः सरांसि च॥
समुद्राः सप्त चैवात्र देवतीर्थानि कृत्स्नशः॥ ९२.१३० ॥
भागीरथीं समेष्यन्ति सर्वपर्वसु सुव्रते॥
अविमुक्तेश्वरं दृष्ट्वा दृष्ट्वा चैव त्रिविष्टपम्॥ ९२.१३१ ॥
कालभैरवमासाद्य धूतपापानि सर्वशः॥
भवन्ति हि सुरेशानि सर्वपर्वसु पर्वसु॥ ९२.१३२ ॥
पृथिव्यां यानि पुण्यानि महान्त्यायतनानि च॥
प्रविशन्ति सदाभ्येत्य पुण्यं पर्वसुपर्वसु॥
अविमुक्तं क्षेत्रवरं महापापनिबर्हणम्॥ ९२.१३३ ॥
केदारे चैव यल्लिङ्गं यच्च लिङ्गं महालये॥ ९२.१३४ ॥
मध्यमेस्वरसञ्ज्ञं च तथा पाशुपतेश्वरम्॥
शङ्कुकर्णेश्वरं चैव गोकर्णौ च तथा ह्युभौ॥ ९२.१३५ ॥
द्रुमचण्डेश्वरं नाम भद्रेश्वरमनुत्तमम्॥
स्थानेश्वरं तथैकाग्रं कालेश्वरमजेश्वरम्॥ ९२.१३६ ॥
भैरवेश्वरमीशानं तथोङ्कारकसञ्ज्ञितम्॥
अमरेशं महाकालं ज्योतिषं भस्मगात्रकम्॥ ९२.१३७ ॥
यानि चान्यानि पुण्यानि स्थानानि मम भूतले॥
अष्टषष्टिसमाख्यानि रुढान्यन्यानि कृत्स्नशः॥ ९२.१३८ ॥
तानि सर्वाण्यशेषाणि वाराणस्यां विशन्ति माम्॥
सर्वपर्वसु पुण्येषु गुह्यं चैतदुदाहृतम्॥ ९२.१३९ ॥
तेनेह लभते जन्तुर्मृतो दिव्यामृतं पदम्॥
स्नातस्य चैव गङ्गायां दृष्टेन च मया शुभे॥ ९२.१४० ॥
सर्वयज्ञफलैस्तुल्यमिष्टैः शतसहस्रशः॥
सद्य एव समाप्नोति किं ततः परमाद्भुतम्॥ ९२.१४१ ॥
सर्वायतनमुख्यानि दिवि भूमौ गिरिष्वपि॥
परात्परतरं देवी बुध्यस्वेति मयोदितम्॥ ९२.१४२ ॥
अविशब्देन पापस्तु वेदोक्तः कथ्यते द्विजैः॥
तेन मुक्तं मया जुष्टमविमुक्तमतोच्यते॥ ९२.१४३ ॥
इत्युक्त्वा भगवान् रुद्रः सर्वलोकमहेश्वरः॥
सुदृष्टं कुरु देवेशि अविमुक्तं गृहं मम॥ ९२.१४४ ॥
इत्युक्तवा भगवान्देवस्तथा सार्धमुमापतिः॥
दर्शयामास भगवान् श्रीपर्वतमनुत्तमम्॥ ९२.१४५ ॥
अविमुक्तेश्वरे नित्यमवसच्च सदा तया॥
सर्वगत्वाच्च सर्वत्वात्सर्वात्मा सदसन्मयः॥ ९२.१४६ ॥
श्रीपर्वतमनुप्राप्यदेव्या देवेश्वरो हरः॥
क्षेत्राणि दर्शयामास सर्वभूतपतिर्भवः॥ ९२.१४७ ॥
कुण्डिप्रभे च परमं दिव्यं वैश्रवणेश्वरम्॥
आशालिङ्गं च देवेशं दिव्यंयच्च बिलेश्वरम्॥ ९२.१४८ ॥
रामेश्वरं च परमं विष्णुना यत्प्रतिष्ठितम्॥
दक्षिणद्वारपार्श्वे तु कुण्डलेश्वरमीश्वरम्॥ ९२.१४९ ॥
पूर्वद्वारसमीपस्थं त्रिपुरान्तकमुत्तमम्॥
विवृद्धं गिरिणा सार्धं देवदेवनमस्कृतम्॥ ९२.१५० ॥
मध्यमेश्वरमित्युक्तं त्रिषु लोकेषु विश्रुतम्॥
अमरेश्वरं च वरदं देवैः पूर्वं प्रतिष्टितम्॥ ९२.१५१ ॥
गोचर्मेश्वरमीशानं तथेन्द्रेश्वरमद्भुतम्॥
कर्मेश्वरं च विपुलं कार्यार्थं ब्रह्मणा कृतम्॥ ९२.१५२ ॥
श्रीमत्सिद्धवटञ्चैव सदावासो ममाव्यये॥
अजेन निर्मितं दिव्यं साक्षादजबिलं शुभम्॥ ९२.१५३ ॥
तत्रैव पादुके दिव्ये मदीये च बिलेश्वरे॥
तत्र श्रृङ्गाटकाकारं श्रृङ्गाटाचलमध्यमे॥ ९२.१५४ ॥
श्रृङ्गाटकेश्वरं नाम श्रीदेव्या तु प्रतिष्ठितम्॥
मल्लिकार्जुनकं चैव मम वासमिदं शुभम्॥ ९२.१५५ ॥
रजेश्वरं च पर्याये रजसा सुप्रतिष्ठितम्॥
गजेश्वरं च वैशाखं कपोतेश्वरमव्ययम्॥ ९२.१५६ ॥
कोटीश्वरं महातीर्थं रुद्रकोटिगणैः पुरा॥
सेवितं देवि पश्याद्य सर्वस्मादधिकं शुभम्॥ ९२.१५७ ॥
द्विदेवकुलसञ्ज्ञं च ब्रह्मणा दक्षिणे शुभम्॥
उत्तरे स्थापितं चैव विष्णुना चैव शैलजम्॥ ९२.१५८ ॥
महाप्रमाणलिङ्गं च मया पूर्वं प्रतिष्ठितम्॥
पश्चिमे पर्वते पश्य ब्रह्मेश्वरमलेश्वरम्॥ ९२.१५९ ॥
अलङ्कृतं त्वया ब्रह्मन् परुस्तान्मुनिभिः सह॥
इत्युक्त्वा तद्गृहे तिष्ठदलङ्गृहमिति समृतम्॥ ९२.१६० ॥
तत्रापि तीर्थं तीर्थज्ञे व्योमलिङ्गं च पश्य मे॥
कदम्बेश्वरमेतद्धिस्कन्देनैव प्रतिष्ठितम्॥ ९२.१६१ ॥
गोमंलेश्वरं चैव नन्दाद्यैः सुप्रतिष्ठितम्॥
देवैः सर्वैस्तु शक्राद्यैः स्तापितानि वरानने॥ ९२.१६२ ॥
श्रीमद्देवह्रदप्रान्ते स्थानानीमानि पस्य मे॥
तथा हारपुरे देवि तव हारे निपातिते॥ ९२.१६३ ॥
त्वया हिताय जगतां हारकुण्डमिदं कृतम्॥
शिवरुद्रपुरे चैव तत्कायोपरि सुव्रते॥ ९२.१६४ ॥
तत्र पित्रा सुशैलेन स्तापितं त्वचलेश्वरम्॥
अलङ्कृतं मया ब्रह्मपुरस्तान्मुनिभिः सह॥ ९२.१६५ ॥
चण्डिकेश्वरकं देवि चण्डिकेशा तवात्मजा॥
चण्डिकानिर्मितं स्थानमम्बिकातीर्थमुत्तमम्॥ ९२.१६६ ॥
रुचिकेश्वरकं चैव धारैषा कपिला शुभा॥
एतेषु देवि स्थानेषु तीर्थेषु विविधेषु च॥ ९२.१६७ ॥
पूजयेन्मां सदा भक्त्या मया सार्धं हि मोदते॥
श्रीशैले सन्त्यजेद्देहं ब्राह्मणो दग्धकिल्बिषः॥ ९२.१६८ ॥
मुच्यते नात्र सन्देहो ह्यविमुक्ते यथा शुभम्॥
महास्नानं च यः कुर्याद्घृतेन विधिनैव तु॥ ९२.१६९ ॥
स याति मम सायुज्यं स्थानेष्वेतेषु सुव्रते॥
स्नानं पलशतं ज्ञेयमभ्यङ्गं पञ्चविंशति॥ ९२.१७० ॥
पलानां द्वे सहस्रे तु महास्नानं प्रकीर्तितम्॥
स्नाप्य लिङ्गं मदीयं तु गव्येनैव घृतेन च॥ ९२.१७१ ॥
विशोध्य सर्वद्रव्यैस्तु वारिभिरभिषिञ्चति॥
सम्मार्ज्य शतयज्ञानां स्नानेन प्रयुतं तथा॥ ९२.१७२ ॥
पूजया शतसाहस्रमनन्तं गीतवादिनाम्॥
महास्नाने प्रसक्तं तु स्नानमष्टगुणं स्मृतम्॥ ९२.१७३ ॥
जलेन केवलेनैव गन्धतोयेन भक्तितः॥
अनुलेपनं तु तत्सर्वं पञ्चविंशत्पलेन वै॥ ९२.१७४ ॥
शमिपुष्पं च विधिना बिल्वपत्रं च पङ्कजम्॥
अन्यान्यपि च पुष्पाणि बिल्वपत्रं न सन्त्यजेत्॥ ९२.१७५ ॥
चतुर्द्रोणैर्महादेवमष्टद्रोणैरथापि वा।
दशद्रोणैस्तु नैवेद्यमष्टद्रोणैरथापि वा॥ ९२.१७६ ॥
शतद्रोणसमं पुण्यमाढकेपि विधीयते॥
वित्तहीनस्य विप्रस्य नात्र कार्या विचारणा॥ ९२.१७७ ॥
भेरीमृदङ्गमुरजातिमिरापटहादिभिः॥
वादित्रैर्विविधैश्चान्यैर्निनादैर्विविधैरपि॥ ९२.१७८
जागरं कारयेद्यस्तु प्रार्थयेच्च यथाक्रमम्॥
स भृत्यपुत्रदारैश्च तथा सम्बन्धिबान्धवैः॥ ९२.१७९ ॥
सार्धं प्रदक्षिणं कृत्वा पार्थयेल्लिङ्गमुत्तमम्॥
द्रव्यहीनं क्रियाहीनं श्रद्धाहीनं सुरेश्वर॥ ९२.१८० ॥
कृतं वा न कृतं वापि क्षन्तुमर्हसि शङ्कर॥
इत्युक्त्वा वै जपेद्रुद्रं त्वरितं शान्तिमेव च॥ ९२.१८१ ॥
जपित्वैवं महाबीजं तथा पञ्चाक्षरस्य वै॥
स एवं सर्वतीर्थेषु सर्वयज्ञेषु यत्फलम्॥ ९२.१८२ ॥
तत्फलं समवाप्नोति वाराणस्यां यथा मृतः॥
तथैव मम सायुज्यं लभते नात्र संशयः॥ ९२.१८३ ॥
मत्प्रियार्थमिदं कार्यं मद्भक्तैर्विधिपूर्वकम्॥
ये न कुर्वन्ति ते भक्ता न भवन्ति न संशयः॥ ९२.१८४ ॥
सूत उवाच॥
निशम्य वचनं देवी गत्वा वाराणसीं पुरीम्॥
अविमुक्तेश्वरं लिङ्गं पयसा च घृतेन च॥ ९२.१८५ ॥
अर्चयामास देवेशं रुद्रं भुवननायकम्॥
अविमुक्ते च तपसा मन्दरस्य महात्मनः॥ ९२.१८६ ॥
कल्पयामास वै क्षेत्रं मन्दरे चारुकन्दरे॥
तत्रान्धकं महादैत्यं हिरण्याक्षसुतं प्रभुः॥ ९२.१८७ ॥
अनुगृह्य गणत्वं च प्रापयामास लीलया॥
एतद्वः कथितं सर्वं कथासर्वस्वमादरात्॥ ९२.१८८ ॥
यः पठेच्छृणुयाद्वापि क्षेत्रमाहात्म्यमुत्तमम्॥
सर्वक्षेत्रेषु यत्पुण्यं तत्सर्वं सहसा लभेत्॥ ९२.१८९ ॥
श्रावयेद्वा द्विजान्सर्वान् कृतशौचान् जितेन्द्रियान्॥
स एव सर्वयज्ञस्य फलं प्राप्नोति मानवः॥ ९२.१९० ॥
इति श्रीलिङ्गमहापुराणे पूर्वभागे वाराणसीशैलमाहात्म्यकथनं नामद्विनवतितमोऽध्यायः॥ ९२ ॥