सूत उवाच॥
अत ऊर्ध्वं प्रवक्ष्यामि अरिष्टानि निबोधत॥
येन ज्ञानविशेषेण मृत्युं पश्यन्ति योगिनः॥ ९१.१ ॥
अरुन्धतीं ध्रुवं चैव सोमच्छायां महापथम्॥
यो न पश्येन्न जीवेत्स नरः संवत्सरात्परम्॥ ९१.२ ॥
अरश्मिवन्तमादित्यं रश्मिवन्तं च पावकम्॥
यः पश्यति न जीवेद्वै मासादेकादशात्परम्॥ ९१.३ ॥
वमेन्मूत्रं पुरीषं च सुवर्णं रजतं तथा॥
प्रत्यक्षमथवा स्वप्ने दशमासान्न जीवति॥ ९१.४ ॥
रुक्मवर्णं द्रुमं पश्येद्गन्धर्वनगराणि च॥
पश्येत्प्रेतपिशाचांश्च नवमासान् स जीवति॥ ९१.५ ॥
अकस्माच्च भवेत्स्थूलो ह्यकस्माच्च कृशो भवेत्॥
प्रकृतेश्च निवर्तेत चाष्टौ मासंश्च जीवति॥ ९१.६ ॥
अग्रतः पृष्ठतो वापि खण्डं यस्य पदं भवेत्॥
पांसुके कर्दमे वापि सप्तमासान्स जीवति॥ ९१.७ ॥
काकः कपोतो गृध्रो वा निलीयेद्यस्य मूर्धनि॥
क्रव्यादो वा खगो यस्य षण्मासान्नतिवर्तते॥ ९१.८ ॥
गच्छेद्वायसपङ्क्तीभिः पांसुवर्षेण वा पुनः॥
स्वच्छायां विकृतां पश्येच्चतुः पञ्च स जीवति॥ ९१.९ ॥
अनभ्रे विद्युतं पश्येद्दक्षिणां दिशमास्थिताम्॥
उदके धनुरैद्रं वा त्रीणि द्वौ वा स जीवति॥ ९१.१० ॥
अप्सु वा यदि वादर्शे यो ह्यात्मानं न पश्यति॥
अशिरस्कं तथा पश्येन्मासादूर्ध्वं न जीवति॥ ९१.११ ॥
शवगन्धि भवेद्गात्रं वसागन्धमथापि वा॥
मृत्युर्ह्युपागतस्तस्य अर्धमासान्न जीवति॥ ९१.१२ ॥
यस्य वै स्नातमात्रस्य हृदयं परिशुष्यति॥
धूमं वा मस्तकात्पश्येद्दशाहान्न स जीवति॥ ९१.१३ ॥
सम्भिन्नो मारुतो यस्य मर्मस्थानानि कृन्तति॥
अद्भिः स्पृष्टो न हृष्येत तस्य मृत्युरुपस्थितः॥ ९१.१४ ॥
ऋक्षवानरयुक्तेन रथेनाशां च दक्षिणाम्॥
गायन्नृत्यन्व्रेजत्स्वप्ने विद्यान्मृत्युरुपस्थितः॥ ९१.१५ ॥
कृष्णाम्बरधरा श्यामा गायन्ती वाप्यथाङ्गना॥
यं नयेद्दक्षिणामाशां स्वप्ने सोपि न जीवति॥ ९१.१६ ॥
छिद्रंवा स्वस्य कण्ठस्य स्वप्ने यो वीक्षते नरः॥
नग्नं वा श्रमणं दृष्ट्वा विद्यान्मृत्युमुपस्थितम्॥ ९१.१७ ॥
आमस्तकतलाद्यस्तु निमज्जेत्पङ्कसागरे॥
दृष्ट्वा तु तादृशं स्वप्नं सद्य एव न जीवति॥ ९१.१८ ॥
भस्माङ्गारांश्च केशांश्च नदीं शुष्कां भुजङ्गमान्॥
पश्येद्यो दशरात्रं तु न स जीवति तादृशः॥ ९१.१९ ॥
कृष्णैश्च विकटैश्चैव पुरुषैरुद्यतायुधैः॥
पाषाणैस्ताड्यते स्वप्ने यः सद्यो न स जीवाति॥ ९१.२० ॥
सूर्योदये प्रत्युषसि प्रत्यक्षं यस्य वै शिवाः॥
क्रोशन्त्यभिमुखं प्रेत्य स गतायुर्भवेन्नरः॥ ९१.२१ ॥
यस्य वा स्नातमात्रस्य हृदयं पीड्यते भृशम्॥
जायते दन्तहर्षश्च तं गतायुषमादिशेत्॥ ९१.२२ ॥
भूयोभूयस्त्रसेद्यस्तु रात्रौ वा यदि वा दिवा॥
दीपगन्धं च नाघ्राति विद्यान्मृत्युमुपस्थितम्॥ ९१.२३ ॥
रात्रौ चेन्द्रधनुः पश्येद्दिवा नक्षत्रमण्डलम्॥
परनेत्रेषु चात्मानं न पश्येन्न स जीवति॥ ९१.२४ ॥
नेत्रमेकं स्रवेद्यस्य कर्णौ स्थानाच्च भ्रश्यतः॥
वक्रा च नासा भवति विज्ञेयो गतजीवितः॥ ९१.२५ ॥
यस्य कृष्णा खरा जिह्वा पद्माभासं च वै मुखम्॥
गण्डेवा पिण्डिकारक्ते तस्य मृत्युरुपस्थितः॥ ९१.२६ ॥
मुक्तकेशो हसंश्चैव गायन्नृत्यंश्च यो नरः॥
याम्यामभिमुखं गच्छेत्तदन्तं तस्य जीवितम्॥ ९१.२७ ॥
यस्य श्वेतवनाभासा श्वेतसर्षपसन्निभा॥
श्वेता च मूर्तिर्ह्यसकृत्तस्य मृत्युरुपस्थितः॥ ९१.२८ ॥
उष्ट्रा वा रासभा वाभियुक्ताः स्वप्ने रथे शुभाः॥
यस्य सोपि न जीवेत्तु दक्षिणाभिमुखो गतः॥ ९१.२९ ॥
द्वे वाथ परमेऽरिष्टे एकीभूतः परं भवेत्॥
घोषं न श्रृणुयात्कर्णेज्योतिर्नेत्रे न पश्यति॥ ९१.३० ॥
श्वभ्रे यो निपतेत्स्वप्ने द्वारं चापि पिधीयते॥
न चोत्तिष्ठति यः श्वभ्रात्तदन्तं तस्य जीवतम्॥ ९१.३१ ॥
ऊर्ध्वा च दृष्टिर्न च सम्प्रतिष्ठा रक्ता पुनः सम्परिवर्तमाना॥
मुखस्य शोषः सुषिरा च नाभिरत्युष्णमूत्रो विषमस्थ एव॥ ९१.३२ ॥
दिवा वा यदि वा रात्रौ प्रत्यक्षं यो निहन्यते॥
हन्तारं न च पश्येच्च स गतायुर्न जीवति॥ ९१.३३ ॥
अग्निप्रवेशं कुरुते स्वप्नान्ते यस्तु मानवः॥
स्मृतिं नोपलभेच्चापि तदन्तं तस्य जीवितम्॥ ९१.३४ ॥
यस्तु प्रावरणं शुक्लं स्वकं पश्यति मानवः॥
कृष्णं रक्तमपि स्वप्ने तस्य मृत्युरुपस्थितः॥ ९१.३५ ॥
अरिष्टे सूचिते देहे तस्मिन्काल उपस्थिते॥
त्यक्त्वा खेदं विषादं च उपेक्षेद्ब्रुद्धिमान्नरः॥ ९१.३६ ॥
प्राचीं वा यदि वोदीचीं दिशं निष्क्रम्यवै शुचिः॥
समेऽतिस्थावरे देशे विविक्ते जन्तुवर्जिते॥ ९१.३७ ॥
उदङ्मुखः प्राङ्मुखो वा स्वश्थश्चाचान्त एव च॥
स्वस्तिकेनोपविष्टस्तु नमस्कृत्वा महेश्वरम्॥ ९१.३८ ॥
समकायशिरोग्रीवो धारयन्नावलोकयेत्॥
यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता॥ ९१.३९ ॥
प्रागुदक्प्रवणे देशे तथा युञ्जीत शास्त्रवित्॥
कामं वितर्कं प्रीतिं च सुखदुःखे उभे तथा॥ ९१.४० ॥
निगृह्य मनसा सर्वं शुक्लं ध्यानमनुस्मरेत्॥
घ्राणे च रसने नित्यं चक्षुषी स्पर्शने तथा॥ ९१.४१ ॥
श्रोत्रे मनसि बुद्धौ च तत्र वक्षसि धारयेत्॥
कालकर्माणि विज्ञाय समूहेष्वेव नित्यशः॥ ९१.४२ ॥
द्वादशाध्यात्ममित्येवं योगधारणमुच्यते॥
शतमर्धशतं वापि धारणां मूर्ध्नि धारयेत्॥ ९१.४३ ॥
खिन्नस्य धारणायोगाद्वायुरूर्ध्वं प्रवर्तते॥
ततश्चापूरयेद्देहमोङ्कारेण समन्वितः॥ ९१.४४ ॥
तथोङ्कारमयो योगी अक्षरे त्वक्षरी भवेत्॥
अत ऊर्ध्वं प्रवक्ष्यामि ओङ्कारप्राप्तिलक्षणम्॥ ९१.४५ ॥
एष त्रिमात्रो विज्ञेयो व्यञ्जनं चात्र चेश्वरः॥
प्रथमा विद्युती मात्रा द्वितीया तामसी स्मृता॥ ९१.४६ ॥
तृतीयां निर्गुणां चैव मात्रामक्षरगामिनीम्॥
गान्धारी चैव विज्ञेया गान्धरस्वरसम्भवा॥ ९१.४७ ॥
पिपीलिकागतिस्पर्शा प्रयुक्ता मूर्ध्नि लक्ष्यते॥
यथा प्रयुक्त ओङ्कारः प्रतिनिर्याति मूर्धनि॥ ९१.४८ ॥
तथौकारमयो योगी त्वक्षरो त्वक्षरी भवेत्॥
प्रणवो धनुः शरो ह्यात्मा ब्रह्मलक्षणमुच्यते॥ ९१.४९ ॥
अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत्॥
ओमित्येकाक्षरं ह्येतद्गुहायां निहितं पदम्॥ ९१.५० ॥
ओमित्येतत्त्रयो लोकास्त्रयो वेदास्त्रयोऽग्नयः॥
विष्णुक्रमास्त्रयस्त्वेते ऋक्सामानि यजूंषि च॥ ९१.५१ ॥
मात्रा चार्धं च तिस्रस्तु विज्ञेयाः परमार्थतः॥
तत्प्रयुक्तस्तु यो योगी तस्य सालोक्यमाप्नुयात्॥ ९१.५२ ॥
अकारो ह्यक्षरो ज्ञेय उकारः सहितः स्मृतः॥
मकारसहितोङ्कारस्त्रिमात्र इति सञ्ज्ञितः॥ ९१.५३ ॥
अकार स्त्वेष भूर्लोक उकारो भुव उच्यते॥
सव्यञ्जनो मकारस्तु स्वर्लोक इति गीयते॥ ९१.५४ ॥
ओङ्कारस्तु त्रयो लोकाः शिरस्तस्य त्रिविष्टपम्॥
भुवनाङ्गं च तत्सर्वं ब्राह्मं तत्पदमुच्यते॥ ९१.५५ ॥
मात्रापादो रुद्रलोको ह्यमात्रं तु शिवं पदम्॥
एवं ज्ञानविशेषेण तत्पदं समुपास्यते॥ ९१.५६ ॥
तस्माद्ध्यानरतिर्नित्यममात्रं हि तदक्षरम्॥
उपास्यं हि प्रयत्नेन शाश्वतं सुखमिच्छता॥ ९१.५७ ॥
ह्रस्वा तु प्रथमा मात्रा ततो दीर्घा त्वनन्तरम्॥
ततः प्लुतवती चैव तृतीया चोपदिश्यते॥ ९१.५८ ॥
एतास्तु मात्रा विज्ञेया यथावदनुपूर्वशः॥
यावदेव तु शक्यन्ते धार्यन्ते तावदेव हि॥ ९१.५९ ॥
इन्द्रियाणि मनो बुद्धिं ध्यायन्नात्मनि यः सदा॥
अर्धं तन्मात्रमपि चेच्छृणु यत्फलमाप्नुयात्॥ ९१.६० ॥
मासेमासेऽश्वमेधेन यो यजेत शतं समाः॥
तेन यत्प्राप्यते पुण्यं मात्रया तदवाप्नुयात्.। ९१.६१ ॥
न तथा तपसोग्रेण न यज्ञैर्भूरिदक्षिणैः॥
यत्फलं प्राप्यते सम्यङ्मात्रया तदवाप्नुयात्॥ ९१.६२ ॥
तत्र चैषा तु या मात्रा प्लुता नामोपदिश्यते॥
एषा एव भवेत्कार्या गृहस्थानां तु योगिनाम्॥ ९१.६३ ॥
एषा चैव विशेषेण ऐश्वर्ये ह्यष्टलक्षणे॥
अणिमाद्ये तु विज्ञेया तस्माद्युञ्जीत तां द्विजाः॥ ९१.६४ ॥
एवं हि योगसंयुक्तः शुचिर्दातो जितेन्द्रियः॥
आत्मानं विद्यते यस्तु स सर्वं विन्दते द्विजाः॥ ९१.६५ ॥
तस्मात्पाशुपतैर्योगैरात्मानं चिन्तयेद्बुधः॥
आत्मानं जानते ये तु शुचयस्ते न संशयः॥ ९१.६६ ॥
ऋचो यजूंषि सामानि वेदोपनिषदस्तथा॥
योगज्ञानादवाप्नोति ब्राह्मणोऽध्यात्मचिन्तकः॥ ९१.६७ ॥
सर्वदेवमयो भूत्वा अभूतः स तु जायते॥
योनिसङ्क्रमणं त्यक्त्वा याति वै शाश्वतं पदम्॥ ९१.६८ ॥
यथा वृक्षात् फलं पक्वं पवनेन समीरितम्॥
नमस्कारेण रुद्रस्य तथा पापं प्रणश्यति॥ ९१.६९ ॥
यत्र रुद्रनमस्कारः सर्वकर्मफलो ध्रुवः॥
अन्यदेवनमस्कारान्न तत्फलमवाप्नुयात्॥ ९१.७० ॥
तस्मात्त्रिःप्रवणं योगी उपासीत महेश्वरम्॥
दशविस्तारकं ब्रह्म तथा च ब्रह्मविस्तरैः॥ ९१.७१ ॥
एवन्ध्यानसमायुक्तः स्वदेहं यः परित्यजेत्॥
स याति शिवसायुज्यं समुद्धृत्य कुलत्रयम्॥ ९१.७२ ॥
अथवारिष्टमालोक्य मरणे समुपस्थिते॥
अविमुक्तेश्वरं गत्वा वाराणस्यां तु शोधनम्॥ ९१.७३ ॥
येन केनापि देहं सन्त्यजेन्मुच्यते नरः॥
श्रीपर्वते वा विप्रेन्द्राः सन्त्यजेत्स्वतनुं नरः॥ ९१.७४ ॥
स याति शिवसायुज्यं नात्र कार्या विचारणा॥
अविमुक्तं परं क्षेत्रं जन्तूनां मुक्तिदं सदा॥ ९१.७५ ॥
सेवेत सततं धीमान् विशेषान्मरणान्तिके॥ ९१.७६ ॥
इति श्रीलिङ्गमहापुराणे पूर्वभागे अरिष्टकथनं नाम एकनवतितमोऽध्यायः॥ ९१ ॥